भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 189, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 189

१७४ सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्


स्थितो देहविनाशनाय । यथा स्थित काष्ठगतो हि वह्निः
स एव वह्निर्दहते शरीरम् ॥ ८८० ॥ यथा विहंगास्तरु-
माश्रयन्ति नद्यो यथा सागरमाश्रयन्ति । यथा तरुण्यः
पतिमाश्रयन्ति सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ ८८१ ॥
यती व्रती चापि पतिव्रताश्च वीराश्च शूराश्च दयापराश्च ।
त्यागी च भोगी च बहुश्रुतश्च स्वसङ्गमात्रेण दहन्ति पापम्
॥ ८८२ ॥ वसन्त्यरण्येषु चरन्ति दूर्वाः पिबन्ति तोयान्य-
परिग्रहाणि । तथापि वध्या हरिणा नराणां को लोकमारा-
धयितुं समर्थः ॥ ८८३ ॥ न सा सभा यत्र न सन्ति वृद्धा
वृद्धा न ते ये न वदन्ति धर्मम् । धर्मो न वै यत्र च
नास्ति सत्यं सत्यं न तद्यच्छलनानुविद्धम् ॥ ८८४ ॥ वरं
सखे सत्यरुषापमानितो न नीचसंसर्गगुणैरलीकृतः । वराश्व-
पादेन हतो विराजते न रासभस्योपरि संस्थितो नरः ॥ ८८५॥
आदित्यचन्द्रावनलानिलौ च द्यौर्भूमिरापो हृदयं यमश्च ।
अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम्
॥ ८८६ ॥ उपाधिभिः सततसङ्गतोऽपि नहि स्वभावं
विजहाति भावः । आजन्म योन्मज्जति दुग्धसिन्धौ तथापि
काकः किल कृष्ण एव ॥ ८८७ ॥ किं वाससा तत्र विचा-
रणीयं वासः प्रधानं खलु योग्यतायाः । पीताम्बरं वीक्ष्य
ददौ स्वकन्यां चर्माम्बरं वीक्ष्य विषं समुद्रः ॥ ८८८ ॥ करोति
नोऽशेषजनातिरिक्तां संभावनामर्थवतीं क्रियामिः । ससत्सु
जाते पुरुषाधिकारे न पूरणी तं समुपैति संख्या ॥ ८८९ ॥
नरस्य चिह्नं नरकागतस्य विरोधिता बन्धुजनेषु नित्यम् ।
सरोगता नीचगतेषु सेवा ह्यतीव दोषः कटुका च वाणी
॥ ८९० ॥ खादन्न गच्छामि हसन्न जल्पे गतं न शोचामि कृतं
न मन्ये । द्वयोस्तृतीयो न भवामि राजन्केनास्मि मूर्खो वद
कारणेन ॥ ८९१ ॥ यस्मिन्कुले यः पुरुषः प्रधानः स सर्वयत्नेन
हि रक्षणीयः । तस्मिन्विनष्टे सकलं विनष्टं न नाभिभङ्गे ह्यरका
वहन्ति ॥ ८९२ ॥ पुराणमित्येव न साधु सर्वं न चापि
काव्यं नवमित्यवद्यम् । सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः
परप्रत्ययनेयबुद्धिः ॥ ८९३ ॥ सचिन्त्य सचिन्त्य जगत्समस्तं
त्रयः पदार्था हृदयं प्रविष्टाः । इक्षोर्विकाराः कृतयः कवीनां
मुग्धाङ्गनापाङ्गतराङ्गितानि ॥ ८९४ ॥ बालसखित्वमकारण-
हास्यं स्त्रीषु विवादमसज्जनसेवा । गर्दभयानमसस्कृतवाणी
षट्सु नरो लघुतामुपयाति ॥ ८९५ ॥ वयसि गते कः
कामविकारः क्षीणे वित्ते कः परिवारः । शुष्के नीरे कः
कासारो ज्ञाते तत्त्वे कः संसारः ॥ ८९६ ॥ जवो हि सप्तेः^१
परं विभूषणं त्रपाङ्गनायाः कृशता तपस्विनः । द्विजस्य
विद्या नृपतेरपि क्षमा पराक्रमः शस्त्रबलोपजीविनाम् ॥ ८९७ ॥
धनेन किं यो न ददाति याचके बलेन किं यश्च रिपुं न
बाधते । श्रुतेन किं यो न च धर्ममाचरेत्किमात्मना यो न
जितेन्द्रियो भवेत् ॥ ८९८ ॥ श्रुतेन बुद्धिर्व्यसनेन मूर्खता
मदेन नारी सलिलेन निम्नगा । निशा शशाङ्केन धृतिः
समाधिना नयेन चालंक्रियते नरेन्द्रता ॥ ८९९ ॥ प्रकीर्ण-
केशामनैवेक्ष्यकारिणीं^२ सदा च भर्तुः प्रतिकूलभाषिणीम् ।
परस्य वेश्माभिरतामपत्रपामेवंविधां योषितमाशु वर्जयेत्
॥ ९०० ॥ सतीमपि ज्ञातिकुलैकसंश्रयां जनोऽन्यथा भर्तृ-
मतीं विशङ्कते । अतः समीपे परिणेतुरिष्यते^३ प्रियाप्रिया
वा प्रमदा स्वबन्धुभिः ॥ ९०१ ॥ मनीषिणः सन्ति
न ते हितैषिणो हितैषिणः सन्ति न ते मनीषिणः ।
सुहृच्च विद्वानपि दुर्लभो नृणां यथौषधं स्वादु हितं च
दुर्लभम् ॥ ९०२ ॥ परोऽवजानाति यदङ्गताजडस्तदुन्न-
तानां^४ न विहन्ति धीरताम् । समानवीर्यान्वयपौरुषेषु यः
करोत्यतिक्रान्तिमसौ तिरस्क्रिया ॥ ९०३ ॥ यदा विगृ-
ह्णाति हतं तदा यशः करोति मैत्रीमथ दूषिता गुणाः ।
स्थितिं समीक्ष्योगमयथा परीक्षकः करोत्यवज्ञोपहतं पृथग्ज-
नम्^५ ॥ ९०४ ॥ वनेषु दोषाः प्रभवन्ति रागिणां गृहेषु
पञ्चेन्द्रियनिग्रहस्तपः । अकुत्सिते कर्मणि यः प्रवर्तते निवृत्त-
रागस्य गृहं तपोवनम् ॥ ९०५ ॥ सुजीर्णमन्नं सुवि-
चक्षणः सुतः सुशासिता स्त्री नृपतिः सुसेवितः । सुचिन्त्य
चोक्तं सुविचार्य यत्कृतं सुदीर्घकालेऽपि न याति विक्रि-
याम् ॥ ९०६ ॥ तृणानि नोन्मूलयति प्रभञ्जनो मृदूनि
नीचैः प्रणतानि सर्वतः । समुच्छ्रितानेव तरून्प्रबाधते महा-
न्महत्स्वेव करोति विक्रमम् ॥ ९०७ ॥ निमित्तमुद्दिश्य हि
यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति । अकारणद्वेषि
मनस्तु यस्य वै कथं जनस्तं परितोषयिष्यति ॥ ९०८ ॥
न साहसैकान्तरसानुवर्तिना न चाप्यपायोपहतान्तरात्मना ।
विभूतयः शक्यमवाप्तुमूर्जिता नये च शौर्ये च वसन्ति
संपदः ॥ ९०९ ॥ मुदं विषादः शरदं हिमागमस्तमो विव-
स्वान्सुकृतं कृतघ्नता । प्रियोपपत्तिः शुचमापदं नयः श्रियः
समृद्धा अपि हन्ति दुर्नयः ॥ ९१० ॥ उदीरितोऽर्थः पशु-
नापि गृह्यते हयाश्च नागाश्च वहन्ति चोदिताः । अनुक्त-
मप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः
॥ ९११ ॥ असत्यता निष्ठुरताऽकृतज्ञता भयं प्रमादोऽल-
सता विषादिता । वृथाभिमानो ह्यतिदीर्घसूत्रता तथाङ्ग-
रौक्ष्यादि विनाशनं श्रियः ॥ ९१२ ॥ दरिद्रता धीरतया


^१ अश्वस्य.
^२ अविचारपराम्
^३ पत्यु
^४ धीरोदात्तानाम्
^५ नीचम्