भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 188, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 188

सामान्यनीतिः १७३

तुराणा न भयं न लज्जा । विद्यातुराणा न सुखं न निद्रा। क्षुधातुराणा न रुचिर्न वेला ॥ ८४५ ॥ विवाहकाले ऋतु- सप्रयोगे प्राणात्यये सर्वधनापहारे । विप्रस्य चार्थेऽप्यनृतं वदेयु पञ्चानृतान्याहुरपातकानि ॥ ८४६ ॥ यत्रास्ति लक्ष्मी- र्विनयो न तत्र ह्यभ्यागतो यत्र न तत्र लक्ष्मी. । उभौ च तौ यत्र न तत्र विद्या नैकत्र सर्वो गुणसन्निपातः ॥ ८४७ ॥ द्वारि प्रविष्टः सहसा ततः किं दृष्टः प्रभु स्मेरमुखस्ततः किम् । कथा श्रुता श्रोत्ररसा ततः किं व्यथा न शान्ता यदि जाठरीया ॥ ८४८ ॥ सुपात्रदानाच्च भवेद्धनाढ्यो धन- प्रभावेण करोति पुण्यम् । पुण्यप्रभावात्सुरलोकवासी पुन- र्धनाढ्य. पुनरेव भोगी ॥ ८४९ ॥ कुपात्रदानाच्च भवेद्दरिद्रो दारिद्र्यदोषेण करोति पापम् । पापप्रभावान्नरकं प्रयाति पुन- र्दरिद्रः पुनरेव पापी ॥ ८५० ॥ प्रभुर्विवेकी धनवांश्च दाता विद्वान्विरागी प्रमदा सुशीला । तुरंगम. शस्त्रनिपातधीरो भूमण्डलस्याभरणानि पञ्च ॥ ८५१ ॥ स्वदेशजातस्य नरस्य नूनं गुणाधिकस्यापि भवेदवज्ञा । निजाङ्गना यद्यपि रूपराशिरस्तथापि लोकः परदारसक्त. ॥ ८५२ ॥ गन्ध. सुवर्णे फलमिक्षुदण्डे नाकारि पुष्पं खलु चन्दनेषु । विद्वान्ध- नाढ्यो न तु दीर्घजीवी धातुः पुरा कोऽपि न बुद्धिदोऽभूत् ॥ ८५३ ॥ सर्पस्य रत्ने कृपणस्य वित्ते सत्या. कुचे केसरि- णश्च केशे । मानोन्नताना शरणागते च मृतौ भवेदन्यकर- प्रचारः ॥ ८५४ ॥ श्रुतिर्विभिन्ना स्मृतयश्च भिन्ना नैको मुनिर्यस्य वचोऽप्रमाणम् । धर्मस्य तत्त्वं निहितं गुहाया महाजनो येन गतः स पन्थाः ॥ ८५५ ॥ प्रागल्भ्यहीनस्य नरस्य विद्या शस्त्रं यथा कापुरुषस्य हस्ते । न तृप्तिमुत्पाद- यते शरीरे वृद्धस्य दारा इव दर्शनीयाः ॥ ८५६ ॥ राजा- श्रयस्तस्करताश्वपण्यमाथर्वणं चापि समुद्रयानम् । एतानि सिध्यन्ति महाफलानि विपर्यये प्राणहराणि पञ्च ॥ ८५७ ॥ स्वर्गच्युतानामिह भूमिलोके चत्वारि चिह्नानि वसन्ति देहे । दानप्रसङ्गो मधुरा च वाणी सुरार्चनं ब्राह्मणतर्पणं च ॥ ८५८ ॥ निरक्षरं वीक्ष्य महाधनत्वं विद्यानवद्या विदुषा न हेया । रत्नावतंसाः कुलटाः समीक्ष्य किमार्थनार्यः कुलटा भवन्ति ॥ ८५९ ॥ गीर्भिर्गुरूणा परुषाक्षराभस्तिर- स्कृता यान्ति नरा महत्त्वम् । अलब्धशाणोल्लकषणा नृपाणा न जातु मौलौ मणयो वसन्ति ॥ ८६० ॥ किमिष्टमन्नं खर- सूकराणा किं रत्नहारो मृगपक्षिणा च । अन्धस्य दीपो बधिरस्य गीतं मूर्खस्य किं शास्त्रकथाप्रसङ्गः ॥ ८६१ ॥ ये शान्तदान्ताः श्रुतिपूर्णकर्णा जितेन्द्रियाः स्त्रीविषये निवृत्ताः । प्रतिग्रहे सकुचिताग्रहस्तास्ते ब्राह्मणास्तारयितुं समर्थाः ॥ ८६२ ॥ पतिव्रताया. कुचकुम्भयुग्ममप्युग्रशार्दूल- नखावलिश्च । वीरस्य शस्त्रं कृपणस्य वित्तं लभ्यानि चत्वारि तदन्तकाले ॥ ८६३ ॥ देशाटनं पण्डितमित्रता च वाराङ्गना राजसभाप्रवेश । अनेकशास्त्रार्थवलोकनं च चातुर्यमूलानि भवन्ति पञ्च ॥ ८६४ ॥ न वेत्ति यो यस्य गुणप्रकर्ष स त सदा निन्दति नात्र चित्रम् । यथा किराती करिकुम्भजाता मुक्ता परित्यज्य बिभर्ति गुञ्जाम् ॥ ८६५ ॥ गिरौ मयूरा गगने पयोदा लक्षान्तरेऽर्कश्च जलेषु पद्मम् । इन्दुद्विलक्षे कुमुदस्य बन्धुर्या यस्य मित्रं नहि तस्य दूरम् ॥ ८६६ ॥ सुभाषितज्ञेन जनेन साक सभाषणं सुप्रभुसेवनं च । आलिङ्गन तुङ्गपयोधराणा प्रत्यक्षसौख्यं त्रयमेव लोके ॥ ८६७ ॥ अर्थो नराणा पतिरङ्गनाना वर्षा नदीनामु- तुराद तरूणाम् । स्वधर्मचारी नृपति. प्रजाना गतं गतं यौवनमानयन्ति ॥ ८६८ ॥ जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते । गुणाधिके पुंसि जनोऽनुरज्यते जनानुरागप्रभवा हि सम्पदः ॥ ८६९ ॥ सम्पूर्णकुम्भो न करोति शब्दमर्धो घटो घोषमुपैति नूनम् । विद्वान्कुलीनो न करोति गर्वं जल्पन्ति मूढास्तु गुणैर्विहीनाः ॥ ८७० ॥ धिग्जीवितं शास्त्रकलोर्जितस्य धिग्जीवितं चोद्यमवर्जितस्य । धिग्जीवितं व्यर्थमनोरथस्य धिग्जीवितं ज्ञातिपराजितस्य ॥ ८७१ ॥ रूपं जरा सर्वसुखानि तृष्णा खलेषु सेवा पुरु- षाभिमानम् । यात्रा गुरुत्वं गुणमात्मपूजा चिन्ता बलं हन्त्यदया च लक्ष्मीम् ॥ ८७२ ॥ शुष्केन्धने वह्निरुपैति वृद्धिं बालेषु शोकश्चपलेषु कोपः । कान्तासु कामो निपुणेषु वित्तं धर्मो दयावत्सु महत्सु धैर्यम् ॥ ८७३ ॥ निर्वाणदीपे किमु तैलदानं चौरे गते वा किमु सावधानम् । वयोगते किं वनिताविलासः पयोगते किं खलु सेतुबन्धः ॥ ८७४ ॥ त्रिविक्रमोऽभूदपि वामनोऽसौ स शूकरश्चेति स वै नृसिंहः । नीचैरनीचैरतिनीचनीचैः सर्वैरुपायैः फलमेव साध्यम् ॥ ८७५ ॥ कुग्रामवासः कुजनस्य सेवा कुभोजनं क्रोध- मुखी च भार्या । मूर्खश्च पुत्रो विधवा च कन्या दहन्त्यमी वह्निमृते शरीरम् ॥ ८७६ ॥ अल्पीयसामेव निवासभूमि- त्यागाद्विपत्तिर्महतां न जातु । रत्नाकरातन्मणयोऽभियान्ति राज्ञां शिरः काकमुखानि भेकाः ॥ ८७७ ॥ अनेकशास्त्रं बहु वेदितव्यमल्पश्च कालो बहवश्च विघ्नाः । यत्सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्बुमध्यात् ॥ ८७८ ॥ अनन्तपार किल शब्दशास्त्रं स्वल्पं तथायुर्बहवश्च विघ्नाः । सार ततो ग्राह्यमपास्य फल्गु हंसी यथा क्षीरमिवाम्बु- मध्यात् ॥ ८७९ ॥ क्रोधो हि शत्रुः प्रथमो नराणां देह-

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह) · पृष्ठ 188, कुल 516 में से · BharatKosha