सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 187, कुल 516 में से
संदर्भ में पढ़ें| १७२ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
विचिन्तयेत्प्राप्नुयात्स कुमतिः स्वय हि तत् । पूतना हरि- वधार्थमाययौ प्राप सैव वधमात्मनस्ततः ॥ ८१२ ॥ काके शौचं द्यूतकारे च सत्यं सर्पे क्षान्ति स्त्रीषु कामोपशान्तिः । क्लीबे धैर्य मद्यपे तत्त्वचिन्ता राजा मित्रं केन दृष्ट श्रुत वा ॥ ८१३ ॥ एको देव केशवो वा शिवो वा एकं मित्रं भूपतिर्वा यतिर्वा । एका भार्या सुन्दरी वा दरी वा एको वासः पत्तने वा वने वा ॥ ८१४ ॥ चित्तायत्तं धातुबद्धं शरीरं नष्टे चित्ते धातवो यान्ति नाशम् । तस्माच्चित्तं सर्वदा रक्षणीयं स्वस्थे चित्ते बुद्धय संभवन्ति ॥ ८१५ ॥ शुक्ले पक्षे शीतरश्मिर्बलीयान्न प्राधान्यं तारकायास्तु दृष्टम् । शक्त्या युक्ते विद्यमानेऽपि कान्ते न प्राधान्य योषितां क्वापि दृष्टम् ॥ ८१६ ॥ दाता दानस्वान्तरा स्यात्पृथिव्या गेहे गेहे याचकाना समूह । चिन्तारत्नस्यास्ति सत्त्वे विवादो मार्गे मार्गे रेणव सन्त्यसख्या. ॥ ८१७ ॥ मास मृगाणा दंशनौ गजाना मृगद्विषा चर्म फलं द्रुमाणाम् । स्त्रीणा सुरूप च नृणा हिरण्यमेते गुणा वैरकरा भवन्ति ॥ ८१८ ॥ शाठ्येन धर्म कपटेन मित्रं परोपतापेन समृद्धि- भावम् । सुखेन विद्या परुषेण नारी वाञ्छन्ति ये व्यक्त- मपण्डितास्ते ॥ ८१९ ॥ राजा घृणी ब्राह्मण सर्वभक्षी स्त्री चावशा दुष्टबुद्धिः सहाय. । प्रेष्य प्रतीपोऽधिकृत. प्रमादी त्याज्या इमे यश्च कृत न वेत्ति ॥ ८२० ॥ मूर्खो द्विजाति. स्थविरो गृहस्थ कामी दरिद्रो धनवांस्तपस्वी । वेश्या सुरूपा नृपतिः कदर्यो लोके षडेतानि विडम्बितानि ॥ ८२१ ॥ दान दरिद्रस्य विमोक्ष शान्तिर्यूना तपो ज्ञान- वता च मौनम् । इच्छानिवृत्तिश्च सुखान्विताना दया च भूतेषु दिव नयन्ति ॥ ८२२ ॥ अर्थागमो नित्यमरो- गिता च प्रिया च भार्या प्रियवादिनी च । वश्यश्च पुत्रो- ऽर्थकरी च विद्या षड् जीवलोकस्य सुखानि राजन् ॥ ८२३ ॥ आरोग्यमानृण्यमविप्रवासः सप्रत्यया वृत्तिर- भीतिवासः । सद्भिर्मनुष्यैः सह संप्रयोगः षड् जीव- लोकस्य सुखानि राजन् ॥ ८२४ ॥ मृतस्य लिप्सा कृपणस्य दित्सा विमार्गगायाश्च रुचिः स्वकान्ते । सर्पस्य शान्ति. कुटिलस्य मैत्री विधातृसृष्टौ नहि दृष्टपूर्वा ॥ ८२५ ॥ आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्ज- नानाम् ॥ ८२६ ॥ भार्यावियोग. स्वजनापवादो ऋणस्य शेषं कृपणस्य सेवा । दारिद्र्यकाले प्रियदर्शन च विना- ग्निना पञ्च दहन्ति कायम् ॥ ८२७ ॥ अश्रुप्लुतं वासवड-
गर्जितं च स्त्रीणा च चित्तं पुरुषस्य भाग्यम् । अवर्षणं चाप्यतिवर्षणं च देवो न जानाति कुतो मनुष्य. ॥ ८२८ ॥ राष्ट्रस्य चित्तं कृपणस्य वित्तं मनोरथ दुर्जनमानुषाणाम् । स्त्रियश्चरित्र पुरुषस्य भाग्यं देवो न जानाति कुतो मनुष्य ॥ ८२९ ॥ किं पौरुषं रक्षति यो न डाऽऽर्तान्कि वा धन नार्थिजनाय यत्स्यात् । सा कि क्रिया या न हितानुबद्धा किं जीवितं साधुविरोधि यद्वै ॥ ८३० ॥ अन्यायवित्तेन कृतोऽपि धर्मं सव्याज इत्याहुरशेषलोका । न्यायार्जि तार्थेन स एव धर्मो निर्व्याज इत्यार्यजना वदन्ति ॥८३१॥ यशोधिगन्तु सुखलिप्सया वा मनुष्यसस्यामतिवर्तितुं वा । निरुत्सुकानामभियोगभाजा समुत्सुकेवाङ्कमुपैति सिद्धिः ॥ ८३२ ॥ शास्त्रेषु निष्ठा सहजश्च बोध. प्रागल्भ्यम भ्यस्तगुणा च वाणी । कालानुरोध. प्रतिभानवत्त्वमेते गुणा कामदुघाः क्रियासु ॥ ८३३ ॥ न स्वल्पमप्यध्यवसायभीरो करोति विज्ञानविधिर्गुणं हि । अन्यस्य कि हस्ततलस्थितो- ऽपि प्रकाशयत्यर्थमिह प्रदीप. ॥ ८३४ ॥ न कस्यचित्क- श्चिदिह स्वभावान्द्रव्यमुदारोऽभिमतः खलो वा । लोके गुरुत्वं विपरीतता वा स्वचेष्टितान्येव नर नयन्ति ॥८३५॥ अपायसदर्शनजा विपत्तिमुपायसदर्शनजा च सिद्धिम् । मेधा- विनो नीतिविधिप्रयुक्ता पुरःस्फुरन्तीमिव दर्शयन्ति ॥८३६॥ दन्तस्य निष्पेषणकेन राजन्कर्णस्य कण्डूयनकेन वापि । तृणेन कार्यं भवतीश्वराणा किमङ्ग वाक्पाणिमता नरेण ॥ ८३७ ॥ त्यजेत्क्षुधार्तो महिला सपुत्रा खादेत्क्षुधार्ता भुजगी स्वमण्डम् । बुभुक्षितः कि न करोति पापं क्षीणा नरा निष्करुणा भवन्ति ॥ ८३८ ॥ दारेषु किंचित्स्वजनेषु किंचिद्रोप्य वयस्येषु सुतेषु किंचित् । युक्तं न वा युक्त- मिदं विचिन्त्य वदेद्विपश्चिन्महतोऽनुरोधात् ॥ ८३९ ॥ मृगा मृगैः सङ्गमनुव्रजन्ति गावश्च गोभिस्तुरगास्तुरङ्गैः । मूर्खाश्च मूर्खेः सुधिय. सुधीभि. समानशीलव्यसनेषु सख्यम् ॥ ८४० ॥ त्याज्य न धैर्य विधुरेऽपि काले धैर्यात्कदाचि- द्द्रुतिमाप्नुयात्सः । यथा समुद्रेऽपि च पोतभङ्गे सायात्रिको वाञ्छति तर्तुमेव ॥ ८४१ ॥ दानेन तुल्यो विधिरस्ति नान्यो लोभाच्च नान्योऽस्ति परः पृथिव्याम् । विभूषण शीलसम न चान्यत्संतोषतुल्यं धनमस्ति नान्यत् ॥ ८४२ ॥ एकस्य दुःखस्य न यावदन्तं गच्छाम्यह पारमिवार्णवस्य । तावद्वितीयं समुपस्थितं मे छिद्रेष्वनर्था बहुलीभवन्ति ॥८४३॥ क्षते प्रहारा निपतन्त्यभीक्ष्णं धनक्षये वर्धति जाठराग्निः । आपत्सु वैराणि समुद्भवन्ति छिद्रेष्वनर्था बहु- लीभवन्ति ॥ ८४४ ॥ अर्थातुराणा न गुरुर्न बन्धुः कामा-
१ दन्तौ. २ जिह्वयाग्रादीनाम् ३ लोभ ४ दानेच्छा