सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 186, कुल 516 में से
संदर्भ में पढ़ेंसामान्यनीतिः १७१
सुखमरो गी । उद्युक्तो विद्यान्तं धर्मार्थयशांसि च विनीतः ॥ ७७४ ॥ निरतिशयं गरिमाणं तेन जनन्याः स्मरन्ति विद्वांसः । यत्कमपि वहति गर्भं महतामपि यो गुरुर्भवति ॥ ७७५ ॥ अप्रकटीकृतशक्तिः शक्तोऽपि जनस्तिरस्क्रियाम् लभते । निवसन्नन्तर्दारुणि लङ्घ्यो वह्निर्न तु ज्वलितः ॥ ७७६ ॥ विषमस्थस्वादुफलग्रहणव्यवसायनिश्चयो येषाम् । उष्ट्राणामिव तेषां मन्येऽहं शंसितं जन्म ॥ ७७७ ॥ दुरधिगमः परंभागो यावत्पुरुषेण पौरुषं न कृतम् । जयति तुलामधिरूढो भास्वानपि जलदपटलानि ॥ ७७८ ॥ आपदि येनापकृतं येन च हसितं दशासु विषमासु । अपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥ ७७९ ॥ असती भवति सलज्जा क्षारं नीरं च शीतलं भवति । दम्भी भवति विवेकी प्रियवक्ता भवति धूर्तजनः ॥ ७८० ॥ पश्यति परस्य युवतिं सकाममपि तन्मनोरथं कुरुते । ज्ञात्वैव तदप्राप्तिं व्यर्थे मनुजो हि पापभागभवति ॥ ७८१ ॥ स्त्रीणां हि साहचर्याद्भवन्ति चेतांसि भर्तृसदृशानि । मधु- रापि हि मूर्च्छयते विषैविटपिसमाश्रिता वैल्ली ॥ ७८२ ॥ सकृदपि दृष्ट्वा पुरुषं विबुधा जानन्ति सारतां तस्य । हस्ततुलयापि निपुणाः पलप्रमाणं विजानन्ति ॥ ७८३ ॥ कविहृदयेष्वनसूया कस्तूरीकर्दमेष्वमालिन्यम् । अक्षारता पयोधाववनिपालेषु पाण्डित्यम् ॥ ७८४ ॥ वस्तुनि चिराभिलषिते कथमपि दैवात्प्रसक्तसंघटने । प्राक्त्रासान्यपि बहुशो दुःखानि परं सुखानि जायन्ते ॥ ७८५ ॥ विसंस्थ- घातदोषः स्ववधाय खलस्य वीरकोपकरः । नपतरुभङ्ग- ध्वनिरिव हरिनिद्रातस्करः करिणः ॥ ७८६ ॥ सत्यपि च सुकृतकर्मणि दुर्नीतिश्चेच्छ्रियं हरत्येव । तैलेः सदो- पयुक्तां दीपशिखां दलति बावालिः ॥ ७८७ ॥ उपचारः कर्तव्यो यावदनुत्पन्नसौहृदाः पुरुषाः । उत्पन्नसौहृदानामु- पचारः कैतवं भवति ॥ ७८८ ॥ स्नेहो हि वरमघटितो न वरं संजातविघटितस्नेहः । हृतनयनो हि विषादी न विषादी भवति जात्यन्धः ॥ ७८९ ॥ नलिनीदलगतजल- वत्तरलं किं यौवनं धनं चायुः । के शशधरकरनिकरानु- कारिणः सज्जना एव ॥ ७९० ॥ किं क्रूरं स्त्रीहृदयं किं गृहिणः प्रियहिताय दारगुणाः । कः कामः संकल्पः किं दुष्करसाधनं प्रज्ञा ॥ ७९१ ॥ वितरति यावद्दाता ताव- त्सकलोऽपि भवति र्कलभाषी । विरते पयसि घनेभ्यः शाम्यन्ति शिखण्डिनां ध्वनयः ॥ ७९२ ॥ व्यसने मित्र-
परीक्षा शूरपरीक्षा रणाङ्गणे भवति । विनये भृत्यपरीक्षा दानपरीक्षा च दुर्भिक्षे ॥ ७९३ ॥ आलसं स्त्रीसेवा सरो- गता जन्मभूमित्वात्सल्यम् । संतोषो भीरुत्वं षड् व्याघाता महत्त्वस्य ॥ ७९४ ॥ अप्येकवंशजनुषोः पश्यत पूर्णत्व- तुच्छताभाजोः । ज्याकार्मुकयोः कश्चिद्गुणभूतः कश्चिदपि भर्ता ॥ ७९५ ॥ अन्धत्वमन्धसमये बधिरत्वं बधिरकाल आलम्ब्य । श्रीकेशवयोः प्रणयी परमेष्ठी नाभिवास्तव्यः ॥ ७९६॥ नियतैः पदैर्निषेव्यं स्खलितेऽनर्थावहं समाश्रयति । संभवदन्यगतिः कः संक्रमकाष्ठं दुरीशं च ॥ ७९७ ॥ सम्यगनिष्पन्नः सन् योऽर्थस्त्वरया स्फुटीक्रियते । स व्यङ्ग्य एव भवति प्रथमो विनतातनूज इव ॥ ७९८ ॥ अधरस्य मधुरिमाणं कुचकाठिन्यं दृशोस्तथा तैक्ष्ण्यम् । कवितायाः परिपाकानुभवरसिको विजानाति ॥ ७९९ ॥ सविता विधु- वति विधुरपि सवितरति तथा दिनन्ति यामिन्यः । यामि- नयन्ति दिनानि च सुखदुःखवशीकृते मनसि ॥ ८०० ॥ निजदोषावृतमनसामतिसुन्दरमेव भाति विपरीतम् । पश्यति पित्तोपहतः शशिशुभ्रं शङ्खमपि पीतम् ॥ ८०१ ॥ राज्ये सारं वसुधा वसुधायामपि पुरं पुरे सौधम् । सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ॥ ८०२ ॥ वाप्यो भवन्ति विमलाः स्फुरन्ति कमलानि वापीषु । कम- लेषु पतन्त्यलयः करोति संगीतमलिषु पदम् ॥ ८०३ ॥ संनिहितेऽपि दुरापे वस्तुनि मनसोऽनवासविषयस्य । भवति न संशयनाशो बहुशोऽध्याश्वास्यमानस्य ॥ ८०४ ॥ स्ववशः करोति कर्म प्रमादयुक्तस्तु परवशो भवति । स्ववशो रोहति वृक्षं निपतत्यवशस्ततः पुरुषः ॥ ८०५ ॥ भोगाक्षमस्य रक्षां ह्यन्त्रात्रेणैव कुर्वतोऽनभिमतस्य । वृद्धस्य प्रमदापि श्रीरपि भृत्यस्य भोगाय ॥ ८०६ ॥ सर्वथा सहितमाचरणीयं किं करिष्यति जनो बहुजल्पः । विद्यते नहि स कश्चिदुपायः सर्वलोकपरितोषकरो यः ॥ ८०७ ॥ कस्यचित्किमपि नो हरणीयं मर्मवाक्यमपि नोच्चरणीयम् । श्रीपतेः पदयुगं स्मरणीयं लीलया भवजलं तरणीयम् ॥ ८०८ ॥ आसुरं कुलमनादरणीयं चित्तमेतदमलीकरणी- यम् । रामधाम शरणीकरणीयं लीलया भवजलं तरणीयम् ॥ ८०९ ॥ जीवितं तदपि जीवितमध्ये गण्यते सुकृतिभिः किमु पुंसाम् । ज्ञानविक्रमकलाकुलजात्यागभोगरहितं विफलं यत् ॥ ८१० ॥ लोक एष गतलोचनत्रपः कस्य वा न विवृणोति वाच्यताम् । लोचनोत्सवमशेषजीवनं यत्कलङ्कयति चन्द्रमण्डलम् ॥ ८११ ॥ यः परस्य विषमं
पादटिप्पण्यः : १ गुणोत्कर्षः. २ विषवृक्षाश्रिता. ३ लता. ४ विश्वस्तः. ५ निद्राहारी. ६ मिष्टभाषिणः.
१ स्वदेशलोभः.