भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 185, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 185
१७०सुभाषितरत्नभाण्डागारम्[ ३ प्रकरणम्

लघिमा गरिमाणं वक्रता तनुते । छन्दःशास्त्र इवाङ्घ्रिलोके सरलः सखे किमसि ॥ ७३८ ॥

सुहृदि निरन्तरचित्ते गुणवति भृत्ये प्रियासु नारीषु । स्वामिनि शक्तिसमेते निवेद्य दुःखं जनः सुखी भवति ॥ ७३९ ॥

प्राप्य चलानधिकारान्शत्रुषु मित्रेषु बन्धुवर्गेषु । नापकृतं नोपकृतं न सत्कृतं किं कृतं तेन ॥ ७४० ॥

वित्तं परिमितमधिकव्ययशीलं पुरुषमाकुलीकुरुते । ऊनांशुकमिव पीनस्तनजघनायाः कुलीनायाः ॥ ७४१ ॥

अप्रतिबुद्धे श्रोतरि वक्तुर्वाक्यं प्रयाति वैफल्यम् । नयनविहीने भर्तरि लावण्यमिवेह खञ्जनाक्षीणाम् ॥ ७४२ ॥

बहुतरहिते रसातले उत्तिष्ठन्ते हि सुमनसस्तपसि । कान्तार्र्जनवेगं विषह्य सद्रसफलास्तु विरला स्युः ॥ ७४३ ॥

प्रतिगृहकोणं गुणिनो लूताकीटा इव स्फुरन्ति शतम् । तद्भासकः खगोभिः को वा रविरिव गुणज्ञोऽस्ति ॥ ७४४ ॥

रमणीयः स हि पुरुषो रमणी यत्रैव रज्यति विदग्धा । श्लोकः स एव सुभगश्चित्तं सक्तं हि यत्र रसिकस्य ॥ ७४५ ॥

आपरितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् । बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥ ७४६ ॥

अबला यत्र प्रबला शिशुरवनीतो निरक्षरो मन्त्री । नहि नहि तत्र जनानां जीविते आशापि दुर्लभा भवति ॥ ७४७ ॥

ज्वलति चलेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां कुरुते । प्रायः स्वं महिमानं क्षोभात्प्रतिपद्यते जन्तुः ॥ ७४८ ॥

राजनि विदुषां मध्ये वरसुरतानां समागमे स्त्रीणाम् । सैंध्वसदूषितहृदयो वाक्पटुरपि कातरो भवति ॥ ७४९ ॥

अलिरनुसरति परिमलं लक्ष्मीरनुसरति नयगुणसमृद्धिम् । निम्नमनुसरति सलिलं विधिलिखितं बुद्धिरनुसरति ॥ ७५० ॥

स्वाधीनेऽपि कलत्रे नीचः परदारलम्पटो भवति । संपूर्गेऽपि तडागे काकः कुम्भोदकं पिवति ॥ ७५१ ॥

किं क्रूरं फणिहृदयं पुनरपि किं क्रूरमङ्गनाहृदयम् । क्रूरात्क्रूरतरं किं पतिसुतधनहीनकामिनीहृदयम् ॥ ७५२ ॥

अनुकूला विमलाङ्गी कुलजा कुशला सुशीलसंपन्ना । पञ्चलकारा भार्या पुरुषः पुण्योदयाल्लभते ॥ ७५३ ॥

अरसिकजनभाषणतो रसिकजनैः सह वरं कलहः । लम्बकुचालिङ्गनतो लिकुचकुचापाठताडनं श्रेयः ॥ ७५४ ॥

आपदि मित्रपरीक्षा शूरपरीक्षा रणाङ्गणे भवति । विनये वंशपरीक्षा स्त्रियः परीक्षा तु निर्धने पुंसि ॥ ७५५ ॥

अनवसरे च यदुक्तं सुभाषितं तच्च भवति हास्याय । रहसि प्रौढवधूनां रतिसमये वेदपाठ इव ॥ ७५६ ॥

आरोग्यं विद्वत्ता सज्जनमैत्री महाकुले जन्म । स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थैः ॥ ७५७ ॥

अवसरपठिता वाणी गुणरहितापि शोभते पुंसाम् । रतिसमये युवतीनां भूषाहानेर्विभूषणं भवति ॥ ७५८ ॥

अव्याकरणमधीतं भिन्नद्रोण्या तरङ्गिणीतरणम् । भेषजमपथ्यसहितं त्रयमिदमकृतं वरं न कृतम् ॥ ७५९ ॥

यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति । तस्य दिवाकरकिरणैर्नलिनीदलमिव विकासते बुद्धिः ॥ ७६० ॥

विरला जानन्ति गुणान्विरलाः कुर्वन्ति निर्धने स्नेहम् । विरलाः परकार्यं रताः परदुःखेनारिप दुःखिता विरलाः ॥ ७६१ ॥

उद्वेजयति दरिद्रं परमुद्रायाः झणत्कारः । गृहपतिरतिमिलितायाः कङ्कणनादो यथा जारम् ॥ ७६२ ॥

कोऽन्धो योऽकार्यरततः को बधिरो यः शृणोति नैतानि । को मूको यः काले प्रियाणि वक्तुं न जानाति ॥ ७६३ ॥

कुत्र विधेयो यत्नो विद्याभ्यासे सदौषधे दाने । अवधीरणा क्व कार्या खलपरयोषित्परधनेषु ॥ ७६४ ॥

कुत्र विधेयो वासः सज्जनकण्ठे यथा काश्याम् । क्व परिहार्यो देशः पिशुनयुतो लुब्धभूपश्च ॥ ७६५ ॥

दधि मधुरं मधु मधुरं द्राक्षा मधुरा सुधापि मधुरैव । तस्य तदेव हि मधुरं यस्य मनो यत्र संलग्नम् ॥ ७६६ ॥

अविदितपरमानन्दो वदति जनो विषयमेव रमणीयम् । तिलतैलमेव मृष्टं येन न दृष्टं घृतं क्वापि ॥ ७६७ ॥

रोगी चिरप्रवासी परान्नभोजी परावसथशायी । यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः ॥ ७६८ ॥

को धर्मो भूतदया किं सौख्यमरोगिता जगति । कः स्नेहः सद्भावः किं पाण्डित्यं परिच्छेदः ॥ ७६९ ॥

दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं शौर्यम् । वित्तं त्यागनियुक्तं दुर्लभमेतच्चतुर्भद्रम् ॥ ७७० ॥

कल्पयति येन वृत्तिं येन च लोके प्रशस्यते सद्भिः । स गुणस्तेन च गुणिना रक्ष्यः संवर्धनीयश्च ॥ ७७१ ॥

दुर्जनगम्या नार्यः प्रायेणापात्रभृद्भवति राजा । कृपणानुसारि च धनं मेघो गिरिजलधिवर्षी च ॥ ७७२ ॥

कृतशतमसत्सु नष्टं सुभाषितशतं च नष्टमबुधेषु । वचनशतमवचनकरे बुद्धिशतमचेतने नष्टम् ॥ ७७३ ॥

दक्षः श्रियमधिगच्छति पथ्याशी कल्यतां


१ अल्प वस्त्रम्
२ मूर्खे
३ खञ्जरीटनयनानाम्
४ त-रहिते रसातले-रसाले आम्रवृक्षे इत्यर्थ
५ पुष्पाणि, पक्षे,-शोभनमनस मुनय इत्यर्थ
६ माघमासे, पक्षे,-तपश्चर्यायाम्
७ कान्तारभरण्यम् दुर्गममार्ग इति यावत् तत्सम्बन्धि एजनवेगं कम्पनवेग विषह्य सहित्वा सद्रसानि फलानि येषामेवविधा विरला स्यु; पक्षे,-कान्ता स्त्री, रा द्रव्य, जनवेगो जनसंताप एतान्मर्षयित्वा सद्रसो मोक्षरस स एव फल येषामेतादृशा विरला स्यु
८ प्रकाशक
९ स्ववाणीभि, पक्षे,-स्वकिरणै
१० चतुरा
११ अविश्वस्तम्
१२ जीवने
१३ मयम्
१४ वाग्मी