सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 184, कुल 516 में से
संदर्भ में पढ़ेंसामान्यनीतिः १६९
भाति पुंसा चित्ते परागय । प्रतिमा मुखचन्द्रस्य कृपाणे याति दीर्घताम् ॥ ६९७ ॥ अधन बाधते भूयो दुःखवेगो न तृत्तमम् । पादद्वय रुजत्याशु शीतस्पर्शो न चक्षुषी ॥ ६९८ ॥ यत एवागतो दोषस्तत एव निवर्तते । अग्निदग्धस्य विस्फोटशान्तिः स्यादग्निना ध्रुवम् ॥ ६९९ ॥ बुद्धिमत्त्वाभिमान. को भवेद्यज्ञोपजीविनाम् । अन्यदीयैरलङ्कारैर्नाहंकारो विभूषणे ॥ ७०० ॥ उत्तमोऽप्यधमस्य साध्याच्चानन्नग्रकर. क्वचित् । कौस्तुभादीनि रत्नानि ययाचे हरिरम्बुधिम् ॥ ७०१ ॥ प्रयत्ने समके केचिदेव स्यु फलभागिन । क्षीरोदमथनाद्देवैरमृतं प्रापि नासुरै ॥ ७०२ ॥ भोग परोपतापेन पुंसा दुखाय न स्थिर । पानमप्यसृज क्षिप्रं स्वपीडायै जलौकसाम् ॥ ७०३ ॥ नोपभोगपरानर्थान्कोऽपि सचिनुते चिरम् । आखवः किमलकारानात्मन्याहृत्य कुर्वते ॥ ७०४ ॥ विवर्णवचनैर्मृत्सुगृहोऽप्यन्त. प्रकाशते । इन्धनान्तरसस्थैश्च ज्वलत्यग्निः पय कणै ॥ ७०५ ॥ निकटस्थं गरीयासमपि लोको न मन्यते । पवित्रामपि यन्मर्त्या न नमस्यन्ति जाह्नवीम् ॥ ७०६ ॥ स्वजन. स्वात्मवज्जन्तुर्ज्ञायते गुणवान्परै । गोपैर्र्गोपवदाज्ञायि हरिर्देवो जगत्पति ॥ ७०७ ॥ उत्तमस्तोषमायाति तदङ्ग पोष्यते यदि । वृक्ष. प्रसीदति प्रायः पादाम्यञ्जेन न स्वयम् ॥ ७०८ ॥ दुर्भग. स्वात्प्रकृत्या यो विभूत्यापि न तादृशः । गोमयं श्रीनिवासोऽस्ति न तथापि मनोहरम् ॥ ७०९ ॥ आगच्छदुत्सवो भाति यथैव न तथा गतः । हिमाशोरुदयः सायं चकास्ति न तथोपसि ॥ ७१० ॥ सतोषर्क्षतये पुंसामाकस्मिकधनागमः । सरसां सेतुभेदाय वर्षौघ स च न स्थिर. ॥ ७११ ॥ संतुष्यत्युत्तम स्तुत्या धनेन महताधमः । प्रसीदन्ति जपैर्देवा बलिभिर्भूतविग्रहा. ॥ ७१२ ॥ स्वजातियविघांताय माहात्म्य दृश्यते नृणाम् । श्येनो विहंगमानेव हिनस्तिं न भुजंगमान् ॥७१३॥ गुरुं प्रयोजनोद्देशादर्जयन्ति न भक्तितः । दुग्धदात्रीति गौर्गेहे पोष्यते न तु धर्मत. ॥ ७१४ ॥ गुरुरग्निर्द्विजातीना वर्णाना ब्राह्मणो गुरु । पतिरेको गुरुः स्त्रीणा सर्वस्याभ्यागतो गुरु ॥ ७१५ ॥ बहुभिर्मूखेसघातैरन्योन्यं पशुवृत्तिभिः । प्रच्छाद्यन्ते गुणा. सर्वे मेघैरिव दिवाकर. ॥ ७१६ ॥ मनागनभ्यावृत्त्या वा कामं क्षाम्यतु य क्षमी । क्रियासमभिमहारेण विराध्यन्तं क्षमेत कः ॥ ७१७ ॥ कामाय स्पृहयत्यात्मा संयतोऽपि मनीषिणः । वीथीनियमितोऽप्युक्षा शष्पमासाद्य धावति
॥ ७१८ ॥ रोगशोकोपरीतपापवन्धनव्यसनानि च । आत्मापगधवृक्षाणा फलान्येतानि देहिनाम् ॥ ७१९ ॥ भूमिपतावर्थपतौ बाले वृद्धे तपोनिधौ विदुषि । योषिति मूर्खे गुरुषु च विदुषा नैवोत्तर देयम् ॥ ७२० ॥ कटुकं वा मधुर वा प्रस्तुतवाक्यं मनोहारि । वामे गर्दभनादश्चित्तप्रीत्यै प्रयाणेषु ॥ ७२१ ॥ अतिपरिचयादवज्ञा सततगमनादनादरो भवति । लोक. प्रयागवासी कूपे स्नानं समाचरति ॥ ७२२ ॥ अतिपरिचयादवज्ञा सततगमनादनादरो भवति । मैलये भिल्लैपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते ॥ ७२३ ॥ अतिपरिचयादवज्ञेत्येतद्वाक्यं मृषैव तद्भाति । अतिपरिचितेऽप्यनादौ संसारेऽस्मिन्न जायतेऽवज्ञा ॥ ७२४ ॥ अविधेयो भृत्यजन शठानि मित्राण्यदायक स्वामी । अविनयवती च भार्या मस्तकशलानि चत्वारि ॥ ७२५ ॥ वैधस्तर्कविहीनो निर्लज्जा कुलवधूर्यतिर्मूर्ख । कटके च प्रौंघुणिको मस्तकशलानि चत्वारि ॥ ७२६ ॥ शक्तिरहितोऽपि कुप्यति सेवासक्तोऽपि मानमुद्वहति । अधनोऽपि हि कामयते जानाति विधिर्विडम्बयितुम् ॥ ७२७ ॥ त्यजति भयमकृतपापं सुमित्रमयश. प्रमादिनं विद्या । ही कामिनमलस श्री. क्रूर स्त्री दुर्जनं लोकः ॥ ७२८ ॥ अनुचितकर्भारम्भ स्वजनविरोधो बलीयसा स्पर्धा । प्रेमदाजनविश्वासो मृत्युद्वाराणि चत्वारि ॥ ७२९ ॥ अन्यमुखे दुँर्वांढो य प्रियवदने स एव परिहास. । इतरेन्धनजन्मा यो धूमः सोऽगुरुभवो धूपः ॥७३०॥ अशठमलोभमंजिह्वं त्यागिनमनुरागिणं विशेषज्ञम् । यदि नाश्रयति नरं श्रीः श्रीरेव हि वञ्चिता तत्र ॥ ७३१ ॥ व्यथयतिंतरामुपेत. स्वस्थ्यप्रकृतेरवद्यलेशोऽपि । भृशमुद्विजते चक्षुः सक्तेन रज कणेनापि ॥ ७३२ ॥ शरदि समग्रनिशाकरकरशतहृततिमिरसञ्चया रजनी । जलदान्तरितार्कामपि दिवसच्छायां न पूरयति ॥ ७३३०॥ यत्र न फलितास्तरवो विकसितसरसीरुहाः सरसो वा । नच संजनाः सं देशी गच्छतु निधनं श्मशानसमः ॥ ७३४ ॥ गुणमधिगतमपि धनवानचिराच्चाशयति रक्षति दरिद्रः । मजयति रजुमम्भसि पूर्णः कुम्भो न खलु तुच्छ ॥ ७३५ ॥ अबुधा अजंगमा अपि कयापि गत्या पर पदमवाप्ता. । मन्त्रिण इति कीर्त्यन्ते नँयंबलगुटिका इव जनेन ॥ ७३६ ॥ खल्पा इति रामबलैर्ये न्यस्ता नाशये पयोराशेः । ते शैलाः स्थितिमन्तो हन्त लघिम्नैव बहुमान. ॥ ७३७ ॥ यत्रार्जवेन
२२ सु. र. भा. १ मलयपर्वते. २ भिल्लस्त्री ३ आगन्तुक. ४ स्त्रीषु विश्वासः. ५ दुष्टभाषणम् ६ काष्ठम् ७ सरलम् ८ दानशीलम्. ९ लघुनीचो वा १० 'चतुरङ्गा'ख्यक्रीडनकस्य पाशा .