सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
सामान्यनीतिः १७३
तुराणा न भयं न लज्जा । विद्यातुराणा न सुखं न निद्रा। क्षुधातुराणा न रुचिर्न वेला ॥ ८४५ ॥ विवाहकाले ऋतु- सप्रयोगे प्राणात्यये सर्वधनापहारे । विप्रस्य चार्थेऽप्यनृतं वदेयु पञ्चानृतान्याहुरपातकानि ॥ ८४६ ॥ यत्रास्ति लक्ष्मी- र्विनयो न तत्र ह्यभ्यागतो यत्र न तत्र लक्ष्मी. । उभौ च तौ यत्र न तत्र विद्या नैकत्र सर्वो गुणसन्निपातः ॥ ८४७ ॥ द्वारि प्रविष्टः सहसा ततः किं दृष्टः प्रभु स्मेरमुखस्ततः किम् । कथा श्रुता श्रोत्ररसा ततः किं व्यथा न शान्ता यदि जाठरीया ॥ ८४८ ॥ सुपात्रदानाच्च भवेद्धनाढ्यो धन- प्रभावेण करोति पुण्यम् । पुण्यप्रभावात्सुरलोकवासी पुन- र्धनाढ्य. पुनरेव भोगी ॥ ८४९ ॥ कुपात्रदानाच्च भवेद्दरिद्रो दारिद्र्यदोषेण करोति पापम् । पापप्रभावान्नरकं प्रयाति पुन- र्दरिद्रः पुनरेव पापी ॥ ८५० ॥ प्रभुर्विवेकी धनवांश्च दाता विद्वान्विरागी प्रमदा सुशीला । तुरंगम. शस्त्रनिपातधीरो भूमण्डलस्याभरणानि पञ्च ॥ ८५१ ॥ स्वदेशजातस्य नरस्य नूनं गुणाधिकस्यापि भवेदवज्ञा । निजाङ्गना यद्यपि रूपराशिरस्तथापि लोकः परदारसक्त. ॥ ८५२ ॥ गन्ध. सुवर्णे फलमिक्षुदण्डे नाकारि पुष्पं खलु चन्दनेषु । विद्वान्ध- नाढ्यो न तु दीर्घजीवी धातुः पुरा कोऽपि न बुद्धिदोऽभूत् ॥ ८५३ ॥ सर्पस्य रत्ने कृपणस्य वित्ते सत्या. कुचे केसरि- णश्च केशे । मानोन्नताना शरणागते च मृतौ भवेदन्यकर- प्रचारः ॥ ८५४ ॥ श्रुतिर्विभिन्ना स्मृतयश्च भिन्ना नैको मुनिर्यस्य वचोऽप्रमाणम् । धर्मस्य तत्त्वं निहितं गुहाया महाजनो येन गतः स पन्थाः ॥ ८५५ ॥ प्रागल्भ्यहीनस्य नरस्य विद्या शस्त्रं यथा कापुरुषस्य हस्ते । न तृप्तिमुत्पाद- यते शरीरे वृद्धस्य दारा इव दर्शनीयाः ॥ ८५६ ॥ राजा- श्रयस्तस्करताश्वपण्यमाथर्वणं चापि समुद्रयानम् । एतानि सिध्यन्ति महाफलानि विपर्यये प्राणहराणि पञ्च ॥ ८५७ ॥ स्वर्गच्युतानामिह भूमिलोके चत्वारि चिह्नानि वसन्ति देहे । दानप्रसङ्गो मधुरा च वाणी सुरार्चनं ब्राह्मणतर्पणं च ॥ ८५८ ॥ निरक्षरं वीक्ष्य महाधनत्वं विद्यानवद्या विदुषा न हेया । रत्नावतंसाः कुलटाः समीक्ष्य किमार्थनार्यः कुलटा भवन्ति ॥ ८५९ ॥ गीर्भिर्गुरूणा परुषाक्षराभस्तिर- स्कृता यान्ति नरा महत्त्वम् । अलब्धशाणोल्लकषणा नृपाणा न जातु मौलौ मणयो वसन्ति ॥ ८६० ॥ किमिष्टमन्नं खर- सूकराणा किं रत्नहारो मृगपक्षिणा च । अन्धस्य दीपो बधिरस्य गीतं मूर्खस्य किं शास्त्रकथाप्रसङ्गः ॥ ८६१ ॥ ये शान्तदान्ताः श्रुतिपूर्णकर्णा जितेन्द्रियाः स्त्रीविषये निवृत्ताः । प्रतिग्रहे सकुचिताग्रहस्तास्ते ब्राह्मणास्तारयितुं समर्थाः ॥ ८६२ ॥ पतिव्रताया. कुचकुम्भयुग्ममप्युग्रशार्दूल- नखावलिश्च । वीरस्य शस्त्रं कृपणस्य वित्तं लभ्यानि चत्वारि तदन्तकाले ॥ ८६३ ॥ देशाटनं पण्डितमित्रता च वाराङ्गना राजसभाप्रवेश । अनेकशास्त्रार्थवलोकनं च चातुर्यमूलानि भवन्ति पञ्च ॥ ८६४ ॥ न वेत्ति यो यस्य गुणप्रकर्ष स त सदा निन्दति नात्र चित्रम् । यथा किराती करिकुम्भजाता मुक्ता परित्यज्य बिभर्ति गुञ्जाम् ॥ ८६५ ॥ गिरौ मयूरा गगने पयोदा लक्षान्तरेऽर्कश्च जलेषु पद्मम् । इन्दुद्विलक्षे कुमुदस्य बन्धुर्या यस्य मित्रं नहि तस्य दूरम् ॥ ८६६ ॥ सुभाषितज्ञेन जनेन साक सभाषणं सुप्रभुसेवनं च । आलिङ्गन तुङ्गपयोधराणा प्रत्यक्षसौख्यं त्रयमेव लोके ॥ ८६७ ॥ अर्थो नराणा पतिरङ्गनाना वर्षा नदीनामु- तुराद तरूणाम् । स्वधर्मचारी नृपति. प्रजाना गतं गतं यौवनमानयन्ति ॥ ८६८ ॥ जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते । गुणाधिके पुंसि जनोऽनुरज्यते जनानुरागप्रभवा हि सम्पदः ॥ ८६९ ॥ सम्पूर्णकुम्भो न करोति शब्दमर्धो घटो घोषमुपैति नूनम् । विद्वान्कुलीनो न करोति गर्वं जल्पन्ति मूढास्तु गुणैर्विहीनाः ॥ ८७० ॥ धिग्जीवितं शास्त्रकलोर्जितस्य धिग्जीवितं चोद्यमवर्जितस्य । धिग्जीवितं व्यर्थमनोरथस्य धिग्जीवितं ज्ञातिपराजितस्य ॥ ८७१ ॥ रूपं जरा सर्वसुखानि तृष्णा खलेषु सेवा पुरु- षाभिमानम् । यात्रा गुरुत्वं गुणमात्मपूजा चिन्ता बलं हन्त्यदया च लक्ष्मीम् ॥ ८७२ ॥ शुष्केन्धने वह्निरुपैति वृद्धिं बालेषु शोकश्चपलेषु कोपः । कान्तासु कामो निपुणेषु वित्तं धर्मो दयावत्सु महत्सु धैर्यम् ॥ ८७३ ॥ निर्वाणदीपे किमु तैलदानं चौरे गते वा किमु सावधानम् । वयोगते किं वनिताविलासः पयोगते किं खलु सेतुबन्धः ॥ ८७४ ॥ त्रिविक्रमोऽभूदपि वामनोऽसौ स शूकरश्चेति स वै नृसिंहः । नीचैरनीचैरतिनीचनीचैः सर्वैरुपायैः फलमेव साध्यम् ॥ ८७५ ॥ कुग्रामवासः कुजनस्य सेवा कुभोजनं क्रोध- मुखी च भार्या । मूर्खश्च पुत्रो विधवा च कन्या दहन्त्यमी वह्निमृते शरीरम् ॥ ८७६ ॥ अल्पीयसामेव निवासभूमि- त्यागाद्विपत्तिर्महतां न जातु । रत्नाकरातन्मणयोऽभियान्ति राज्ञां शिरः काकमुखानि भेकाः ॥ ८७७ ॥ अनेकशास्त्रं बहु वेदितव्यमल्पश्च कालो बहवश्च विघ्नाः । यत्सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्बुमध्यात् ॥ ८७८ ॥ अनन्तपार किल शब्दशास्त्रं स्वल्पं तथायुर्बहवश्च विघ्नाः । सार ततो ग्राह्यमपास्य फल्गु हंसी यथा क्षीरमिवाम्बु- मध्यात् ॥ ८७९ ॥ क्रोधो हि शत्रुः प्रथमो नराणां देह-
१७४ सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्
स्थितो देहविनाशनाय । यथा स्थित काष्ठगतो हि वह्निः
स एव वह्निर्दहते शरीरम् ॥ ८८० ॥ यथा विहंगास्तरु-
माश्रयन्ति नद्यो यथा सागरमाश्रयन्ति । यथा तरुण्यः
पतिमाश्रयन्ति सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ ८८१ ॥
यती व्रती चापि पतिव्रताश्च वीराश्च शूराश्च दयापराश्च ।
त्यागी च भोगी च बहुश्रुतश्च स्वसङ्गमात्रेण दहन्ति पापम्
॥ ८८२ ॥ वसन्त्यरण्येषु चरन्ति दूर्वाः पिबन्ति तोयान्य-
परिग्रहाणि । तथापि वध्या हरिणा नराणां को लोकमारा-
धयितुं समर्थः ॥ ८८३ ॥ न सा सभा यत्र न सन्ति वृद्धा
वृद्धा न ते ये न वदन्ति धर्मम् । धर्मो न वै यत्र च
नास्ति सत्यं सत्यं न तद्यच्छलनानुविद्धम् ॥ ८८४ ॥ वरं
सखे सत्यरुषापमानितो न नीचसंसर्गगुणैरलीकृतः । वराश्व-
पादेन हतो विराजते न रासभस्योपरि संस्थितो नरः ॥ ८८५॥
आदित्यचन्द्रावनलानिलौ च द्यौर्भूमिरापो हृदयं यमश्च ।
अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम्
॥ ८८६ ॥ उपाधिभिः सततसङ्गतोऽपि नहि स्वभावं
विजहाति भावः । आजन्म योन्मज्जति दुग्धसिन्धौ तथापि
काकः किल कृष्ण एव ॥ ८८७ ॥ किं वाससा तत्र विचा-
रणीयं वासः प्रधानं खलु योग्यतायाः । पीताम्बरं वीक्ष्य
ददौ स्वकन्यां चर्माम्बरं वीक्ष्य विषं समुद्रः ॥ ८८८ ॥ करोति
नोऽशेषजनातिरिक्तां संभावनामर्थवतीं क्रियामिः । ससत्सु
जाते पुरुषाधिकारे न पूरणी तं समुपैति संख्या ॥ ८८९ ॥
नरस्य चिह्नं नरकागतस्य विरोधिता बन्धुजनेषु नित्यम् ।
सरोगता नीचगतेषु सेवा ह्यतीव दोषः कटुका च वाणी
॥ ८९० ॥ खादन्न गच्छामि हसन्न जल्पे गतं न शोचामि कृतं
न मन्ये । द्वयोस्तृतीयो न भवामि राजन्केनास्मि मूर्खो वद
कारणेन ॥ ८९१ ॥ यस्मिन्कुले यः पुरुषः प्रधानः स सर्वयत्नेन
हि रक्षणीयः । तस्मिन्विनष्टे सकलं विनष्टं न नाभिभङ्गे ह्यरका
वहन्ति ॥ ८९२ ॥ पुराणमित्येव न साधु सर्वं न चापि
काव्यं नवमित्यवद्यम् । सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः
परप्रत्ययनेयबुद्धिः ॥ ८९३ ॥ सचिन्त्य सचिन्त्य जगत्समस्तं
त्रयः पदार्था हृदयं प्रविष्टाः । इक्षोर्विकाराः कृतयः कवीनां
मुग्धाङ्गनापाङ्गतराङ्गितानि ॥ ८९४ ॥ बालसखित्वमकारण-
हास्यं स्त्रीषु विवादमसज्जनसेवा । गर्दभयानमसस्कृतवाणी
षट्सु नरो लघुतामुपयाति ॥ ८९५ ॥ वयसि गते कः
कामविकारः क्षीणे वित्ते कः परिवारः । शुष्के नीरे कः
कासारो ज्ञाते तत्त्वे कः संसारः ॥ ८९६ ॥ जवो हि सप्तेः^१
परं विभूषणं त्रपाङ्गनायाः कृशता तपस्विनः । द्विजस्य
विद्या नृपतेरपि क्षमा पराक्रमः शस्त्रबलोपजीविनाम् ॥ ८९७ ॥
धनेन किं यो न ददाति याचके बलेन किं यश्च रिपुं न
बाधते । श्रुतेन किं यो न च धर्ममाचरेत्किमात्मना यो न
जितेन्द्रियो भवेत् ॥ ८९८ ॥ श्रुतेन बुद्धिर्व्यसनेन मूर्खता
मदेन नारी सलिलेन निम्नगा । निशा शशाङ्केन धृतिः
समाधिना नयेन चालंक्रियते नरेन्द्रता ॥ ८९९ ॥ प्रकीर्ण-
केशामनैवेक्ष्यकारिणीं^२ सदा च भर्तुः प्रतिकूलभाषिणीम् ।
परस्य वेश्माभिरतामपत्रपामेवंविधां योषितमाशु वर्जयेत्
॥ ९०० ॥ सतीमपि ज्ञातिकुलैकसंश्रयां जनोऽन्यथा भर्तृ-
मतीं विशङ्कते । अतः समीपे परिणेतुरिष्यते^३ प्रियाप्रिया
वा प्रमदा स्वबन्धुभिः ॥ ९०१ ॥ मनीषिणः सन्ति
न ते हितैषिणो हितैषिणः सन्ति न ते मनीषिणः ।
सुहृच्च विद्वानपि दुर्लभो नृणां यथौषधं स्वादु हितं च
दुर्लभम् ॥ ९०२ ॥ परोऽवजानाति यदङ्गताजडस्तदुन्न-
तानां^४ न विहन्ति धीरताम् । समानवीर्यान्वयपौरुषेषु यः
करोत्यतिक्रान्तिमसौ तिरस्क्रिया ॥ ९०३ ॥ यदा विगृ-
ह्णाति हतं तदा यशः करोति मैत्रीमथ दूषिता गुणाः ।
स्थितिं समीक्ष्योगमयथा परीक्षकः करोत्यवज्ञोपहतं पृथग्ज-
नम्^५ ॥ ९०४ ॥ वनेषु दोषाः प्रभवन्ति रागिणां गृहेषु
पञ्चेन्द्रियनिग्रहस्तपः । अकुत्सिते कर्मणि यः प्रवर्तते निवृत्त-
रागस्य गृहं तपोवनम् ॥ ९०५ ॥ सुजीर्णमन्नं सुवि-
चक्षणः सुतः सुशासिता स्त्री नृपतिः सुसेवितः । सुचिन्त्य
चोक्तं सुविचार्य यत्कृतं सुदीर्घकालेऽपि न याति विक्रि-
याम् ॥ ९०६ ॥ तृणानि नोन्मूलयति प्रभञ्जनो मृदूनि
नीचैः प्रणतानि सर्वतः । समुच्छ्रितानेव तरून्प्रबाधते महा-
न्महत्स्वेव करोति विक्रमम् ॥ ९०७ ॥ निमित्तमुद्दिश्य हि
यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति । अकारणद्वेषि
मनस्तु यस्य वै कथं जनस्तं परितोषयिष्यति ॥ ९०८ ॥
न साहसैकान्तरसानुवर्तिना न चाप्यपायोपहतान्तरात्मना ।
विभूतयः शक्यमवाप्तुमूर्जिता नये च शौर्ये च वसन्ति
संपदः ॥ ९०९ ॥ मुदं विषादः शरदं हिमागमस्तमो विव-
स्वान्सुकृतं कृतघ्नता । प्रियोपपत्तिः शुचमापदं नयः श्रियः
समृद्धा अपि हन्ति दुर्नयः ॥ ९१० ॥ उदीरितोऽर्थः पशु-
नापि गृह्यते हयाश्च नागाश्च वहन्ति चोदिताः । अनुक्त-
मप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः
॥ ९११ ॥ असत्यता निष्ठुरताऽकृतज्ञता भयं प्रमादोऽल-
सता विषादिता । वृथाभिमानो ह्यतिदीर्घसूत्रता तथाङ्ग-
रौक्ष्यादि विनाशनं श्रियः ॥ ९१२ ॥ दरिद्रता धीरतया
^१ अश्वस्य.
^२ अविचारपराम्
^३ पत्यु
^४ धीरोदात्तानाम्
^५ नीचम्
| सामान्यनीतिः | १७५ |
|---|
विराजते कुरूपता शीलतया विराजते । कुभोजनं चोष्णतया विराजते कुवस्त्रता शुभ्रतया विराजते ॥ ९१३ ॥
यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः । तथा चतुर्भिः पुरुषः परीक्ष्यते श्रुतेन शीलेन कुलेन कर्मणा ॥ ९१४ ॥
कुदेशमासाद्य कुतोऽर्थसञ्चयः कुपुत्रमासाद्य कुतो जलाञ्जलिः । कुगेहिनीं प्राप्य गृहे कुतं सुखं कुशिष्यमध्यापयत कुतो यशः ॥ ९१५ ॥
मात्रा समं नास्ति शरीरपोषणं चिन्तासमं नास्ति शरीरशोषणम् । भार्यासमं नास्ति शरीरतोषणं विश्वासमं नास्ति शरीरभूषणम् ॥ ९१६ ॥
गुणी गुणं वेत्ति न वेत्ति निर्गुणो बली बलं वेत्ति न वेत्ति निर्बलः । पिको वसन्तस्य गुणं न वायसः करी च सिंहस्य बलं न मूषकः ॥ ९१७ ॥
सुखं हि दुःखान्यनुभूय शोभते घनान्धकारेष्विव दीपदर्शनम् । सुखाच्च यो याति नरो दरिद्रता धृतः शरीरेण मृत स जीवति ॥ ९१८ ॥
स दीक्षितो यः सकलं सदीक्षते स पण्डितो यः करणेरखण्डितः । स तापसो यः परतापकर्षणं स धार्मिको यः परधर्मं न स्पृशेत् ॥ ९१९ ॥
यशस्करे कर्मणि मित्रसंग्रहे प्रियासु नारीष्वधनेषु बन्धुषु । क्रतौ विवाहे व्यसने रिपुक्षये धनव्ययस्त्वेषु न गण्यते बुधैः ॥ ९२० ॥
विवादशीला स्वयमर्थचोरिणी परानुकूला बहुपाकपाकिनीम् । सक्रोधिनी चान्यगृहेषु वासिनी त्यजन्ति भार्या दशपुत्रमातरम् ॥ ९२१ ॥
अतिप्रचण्डा बहुदुःखभागिनी विवादशीला परगेहगामिनी । भर्तुः स्वयं निन्दति या च तस्करा त्यजेत्स्वभार्यां दशपुत्रपुत्रिणीम् ॥ ९२२ ॥
कुले कलङ्कः कवले कदाञ्जता सुतः कुबुद्धिर्भवने दरिद्रता । रुजः शरीरे कलहप्रिया प्रिया गृहागमे दुर्गतयः षडेते ॥ ९२३ ॥
प्रकटं मृदु नाम जल्पतः परुषं सूचयतोऽर्थमन्तरा । शकुनादिव मार्गवर्तिभिः पुरुषाद्बुद्धिजितव्यमीदृशात् ॥ ९२४ ॥
मतिरेव बलाद्गरीयसी यदभावे करिणामियं दशा । इति घोषयतीव डिण्डिमः करिणो हस्तिपकाहतः क्वणन् ॥ ९२५ ॥
महता यदि निन्दने रतिर्गुणसस्यैव तदा विधीयताम् । असतामपि चेत्सवे रतिर्ननु तद्दूषणमेव गण्यताम् ॥ ९२६ ॥
अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् । स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतम् ॥ ९२७ ॥
महत्तस्तरसाम् विलङ्घयन्निजदोषेण कुधीर्विनश्यति । कुरुते न खलु स्वयेच्छया शलमानिन्धनमिद्धदीधितिः ॥ ९२८ ॥
क्रियते धवलः खलूर्ध्वकैरधवलैरेव सितेतरैरधः । शिरसौधमघत्त शंकरः सुरसिन्धोर्मधुजित्तमङ्गिणा ॥ ९२९ ॥
कृतिनामकृती कथं कथं वा तुलैना यातु कृतैर्वचःप्रपञ्चैः । बहुभिर्विधृतैः कचैः कलापैर्विधवा किं सधवोपनाममेति ॥ ९३० ॥
अरुचिनिशया विना शशी शशिना सापि विना महत्तम । उभयेन विना मनोभवस्फुरितं नैव चकास्ति कामिनी ॥ ९३१ ॥
उपकारकमायतेर्भृशं प्रसवः कर्मफलस्य भूरिणः । अनपायि निबर्हणं द्विषा न तितिक्षासममस्ति साधनम् ॥ ९३२ ॥
जरा रूपं हरति हि धैर्यमाशा मृत्यु प्राणान्धर्मचर्यामसूया । कामो ह्रियं वृत्तमनार्यसेवा क्रोधः श्रियं सर्वमेवाभिमान ॥ ९३३ ॥
गुणवानपि नोपयाति पूजा पुरुषः सत्पुरुषैरकथ्यमानः । न हि सौरमणिश्वभावकान्ति रविपादैरनधिष्ठितं करोति ॥ ९३४ ॥
सहसा विदधीत न क्रियामविवेक परमापदां पदम् । वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः ॥ ९३५ ॥
विना गोरसं को रसो भोजनानां विना गोरसं को रसो भूपतीनाम् । विना गोरसं को रसः कामिनीना विना गोरसं को रसः पण्डितानाम् ॥ ९३६ ॥
सकलापि कला कलावता विकला पुण्यकला विना खलु । सकले नयने वृथा यथा तनुभाजां हि कनीनिका विना ॥ ९३७ ॥
सुकुलजन्म विभूतिरनेकधा प्रियसङ्गमसौरख्यपरम्परा । नृपकुले गुरैता विमलं यशो भवति पुण्यतरोः फलमीदृशम् ॥ ९३८ ॥
कनकभूषणसङ्ग्रहणोचितो यदि मँणिस्त्रपुणि प्रणिधीयते । न स विरौति न चापि हि शोभते भवति योजयितुर्वचॅनीयता ॥ ९३९ ॥
सहजमलिनवक्रभावभाजा भवति भवः प्रमवात्मनाशहेतुः । जलधरपदवीमवाप्य धूमो ज्वलनविनाशनमुप्रयाति नाशम् ॥ ९४० ॥
परिहरत पराङ्गनानुषङ्गं बत यदि जीवितमस्ति वल्लभं वः । हरहर हरिणीदृशो निमित्तं दश दशकंधरमौलयो लुठन्ति ॥ ९४१ ॥
शिशुरपि निपुँणो गुरोर्गरीयान्न तु वपुषैव महान्महँत्वतिष्ठः । मणिरणुरपि भूषणाय पुसां न तु पृथुलैव शिला विलासहेतुः ॥ ९४२ ॥
अनुदिनमनुकूलमाचरन्ते विहितमतिः प्रतिकूलमाचरेत्कः । शमितगरलजातकण्ठदाहः शितिकण्ठः शशिनं शिरःसु धत्ते ॥ ९४३ ॥
नितम्बो विशालः कटिर्मध्यसूक्ष्मा कुचद्वन्द्वमत्यन्तभव्यं सुखं च । वचेश्चञ्च किंचिद्रसालं रमण्यास्ततः किं ततः किं ततः किं ततः किम् ॥ ९४४ ॥
स्तब्धस्य नश्यति यशो विषमस्य मैत्री नष्टक्रियस्य कुलमर्थपरस्य धर्मः । विद्याफलं व्यसनिर्नः कृपणस्य सौख्यं राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥ ९४५ ॥
दुर्मन्त्रिणं कमुपयान्ति न नीतिदोषाः संतापयन्ति कमपथ्यभुजं न रोगाः ।
१ ऐश्वर्यम् २ गौरवम् ३ सुवर्णालंकारसङ्ग्रहयोग्य ४ हीरकादिः ५ वज्ञेः ६ निन्दाः ७ शास्त्रवेत्ताः ८ श्रेष्ठः ९ महत्सु प्रतिष्ठा यस्य
| १७६ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् | | :--- | :--- | | कं श्रीर्न दर्पयति कं न निहन्ति मृत्युः कं स्वीकृता न विषया ननु तापयन्ति ॥ ९४६ ॥ वित्तेन किं वितरणं यदि नास्ति दीने किं सेवया यदि परोपकृतौ न यत्नः । किं सङ्गमेन तनयो यदि नेक्षणीयः किं यौवनेन विरहो यदि वल्लभायाः ॥ ९४७ ॥ किं भूषणं सुदृढमत्र यशो न रत्नं किं कार्यमार्यचरितं सुकृतं न दोषः । किं चक्षुरप्रतिहतं धिषणा न नेत्रं जानाति कस्त्वदपरः सदसद्विवेकम् ॥ ९४८ ॥ प्राप्ताः श्रियः सकलकामदुघस्ततः किं दत्तं पदं शिरसि विद्विषता ततः किम् । संतर्पिताः प्रणयिनो विभवैस्ततः किं कल्पं स्थितं तनुभृता तनुभिस्ततः किम् ॥ ९४९ ॥ आदौ न वा प्रणयिना प्रणयो विधेयो दत्तोऽथवा प्रतिदिनं परिपोषणीयः । उत्क्षिप्य उत्क्षिपत्ति तत्प्रकरोति लज्जा भूमौ स्थितस्य पतनाद्भयमेव नास्ति ॥ ९५० ॥ वाञ्छैव सूचयति पूर्वतरं भविष्यं पुंसा यदन्यतनुजं त्वशुभं शुभं वा । विज्ञायते शिशुरजातकलापचिह्नः प्रत्युद्गतैरपसरन्सरसः (२) कलापी ॥ ९५१ ॥ शस्त्रैर्हतास्तु रिपवो न हता भवन्ति प्रज्ञाहताश्च नितरां सुहता भवन्ति । शस्त्रं निहन्ति पुरुषस्य शरीरमेकं प्रज्ञा कुलं च विभवं च यशश्च हन्ति ॥ ९५२ ॥ स्थानेषु शिष्यनिवहैर्र्विनियुज्यमाना विद्या गुरुं हि गुणवत्तरमातनोति । आदाय शुक्तिषु बलाहकविप्रकीर्णे रत्नाकरो भवति वारिभिरम्बुराशिः ॥ ९५३ ॥ १वार्ता च कौतुककरी विमला च विद्या लोकोत्तरः परिमलश्च कुरंगनाभेः । तैलस्य बिन्दुरिव वारिणि दुर्निवारमेतत्रयं प्रसरति स्वयमेव भूमौ ॥ ९५४ ॥ अत्यन्तमन्थनकदर्थनमत्स्रहन्ते मर्यादया नियमिताः किमु साधवोऽपि । लक्ष्मीसुधाकरसुधाद्युपनीय शेषे रत्नाकरोऽपि गरल किमु नोजगार ॥ ९५५ ॥ अर्था हसन्त्युचितदानविहीनलब्धं भूम्यो हसन्ति मम भूमिरिति ब्रुवाणम् । जारा हसन्ति तनयानुपलालयन्तं मृत्युर्हसत्यवनिपं रणरङ्गभीरुम् ॥ ९५६ ॥ वैद्या वदन्ति कफपित्तमरुद्विकाराञ्ज्योतिर्विदो ग्रहगति परिवर्तयन्ति । ३भूताभिशङ्क इति भूतविदो वदन्ति प्राचीनकर्म बलवन्मुनयो वदन्ति ॥ ९५७ ॥ कस्यापि कोऽप्यतिशयोऽस्ति स तेन लोके ख्याति प्रयाति नहि सर्वविदस्तु सर्वे । किं केतकी फलति किं पनसः सुपुष्प किं नागवल्ल्यपि च पुष्पफलैरुपैता ॥ ९५८ ॥ शीलावलम्बनमहर्निशमिष्टचिन्ता वित्तानुरूपमशनाभरणादि कार्यम् । वार्यं च दुर्जनसमाजनिजप्रशंसाहास्यादि सज्जनवचो हृदये निधेयम् ॥ ९५९ ॥ पश्यन्ति नैव कवयो निजकाव्यदोषं भक्षन्ति नो ४बलिभुजो | निजजातिमासम् । जल्पन्ति नैव मधुपा निजधर्मवाक्यं कुर्वन्ति नो युवतयः पुरुषेषु १बीजम् ॥ ९६० ॥ कीर्ति मृणालकमनीयभुजामनिन्द्वचन्द्रा नना सितसरोरुहचारुनेत्राम् । ज्योत्स्नासितामपहता दयितामिव स्वा लब्धु न कं परमुपक्रममातनोति ॥ ९६१ ॥ शास्त्रं सुनिश्चलधिया परिचिन्तनीय सेव्यो नृपोऽपि सततं परिसेवनीयः । अङ्के स्थितापि युवतिः परिरक्षणीया शास्त्रे नृपे च युवतौ च कुतः स्थिरत्वम् ॥ ९६२ ॥ हंसो विभाति नलिनीदलपुञ्जमध्ये सिंहो विभाति गिरि गह्वरकन्दरासु । जात्यो विभाति तुरगो रणयुद्धमध्ये विद्वान्विभाति पुरुषेषु विचक्षणेषु ॥ ९६३ ॥ हंसो न भाति बलिभोजनवृन्दमध्ये गोमायुमण्डलगंतो न विभाति सिंहः । जात्यो न भाति तुरगः खरयूथमध्ये विद्वान्न भाति पुरुषेषु निरक्षरेषु ॥ ९६४ ॥ विश्वेश्वरस्तु सुधिया गलितेऽपि भेदे भावेन भक्तिसहितेन समर्धनीयः । प्राणेश्वरश्रुतुरया मिलितेऽपि चित्ते चैलाञ्चलव्ययहितेन निरीक्षणीय ॥ ९६५ ॥ किं कोकिलस्य विरुतेन गते वसन्ते किं कातरस्य बहुशस्त्रपरिग्रहेण । मित्रेण किं व्यसनकालपराङ्मुखेन किं जीवितेन पुरुषस्य निरक्षरेण ॥ ९६६ ॥ हारः प्रलम्बितपयोधरमध्यवर्ती शुष्कस्तनान्तरगतो वरकञ्चुकश्च । काणेक्षणाञ्जनमूर्ध्नि च पुष्पमाला दीनाश्रयो बुधजन खलु पञ्च दुःखम् ॥ ९६७ ॥ नीचं समृद्धमपि सेवति नीच एव त दूरतः परिहरन्ति पुनर्महान्तः । शाखोटक मधुरपक्वफलैरुपेतं सेवन्ति वायसगणा न तु राजहंसाः ॥ ९६८ ॥ माकन्दराजपरिरम्भणलालिताऽपि मल्लीवधूर्मधुपरागवती बभूव । दृष्ट्वापि तत्कुटिलता न जहाति चूतः प्रायः कुजातिनिवहेषु कुतोऽभिमानः ॥ ९६९ ॥ कालक्रमेण परिणामवशादनर्थ्या भावा भवन्ति खलु पूर्वमतीव तुच्छाः । मुक्तामणिर्जलदतोयकणोऽप्यणीयान्सपद्यते च चिरकीचकरन्ध्रमध्ये ॥ ९७० ॥ यच्चिन्तित तदिह दूरतर प्रयाति यच्चेतसापि न कृतं तदिहाभ्युपैति । इत्थं विधेर्विधिविपर्ययमाकलय्य सन्त. सदा सुरसरित्तटमाश्रयन्ति ॥ ९७१ ॥ अन्तःप्रतप्तरुसैकतदह्यमानमूलस्य चम्पकंतरो. क विकासचिन्ता । प्रायो भवत्यनुचितस्थितिदेशभाजा श्रेयः खजीवपरपालनमात्रमेव ॥ ९७२ ॥ उचितमनुचितं वा कुर्वता कार्यजात पैरिनतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृताना कर्मणामा विपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ ९७३ ॥ व्यतिषजति पदार्थानान्तरः कोऽपि हेतुर्न खलु बहिरुपाधीन्प्रीतयः संश्रयन्ते । विकसति हि ४पतङ्गस्योदये पुण्डरीकं | | * १ वृत्तान्तः २ कुतूहलकारिणी. ३ भूतबाधा. ४ वायसा | १ वीर्यम् २ कार्यसमूहम्. ३ परिणाम ४ सूर्यस्य |
सामान्यनीतिः १७७
द्रवति च हिमरश्मावुद्गते चन्द्रकान्त ॥ ९७४ ॥ प्रथम- दिवसचन्द्र सर्वलोकैकवन्द्यः स च सकलकलाभिः पूर्णचन्द्रो न वन्द्यः । अतिपरिचयदोषात्कस्य नो मानहानिर्नवनवगुण- रागी प्रायशः सर्वलोकः ॥ ९७५ ॥ भवति हृदयहारी कोऽपि कस्यापि हेतुर्न खलु गुणविशेषः प्रेमबन्धप्रयोगे । किसलयितवनान्ते कोकिलारावरम्ये विकसति न वसन्ते मालती कोऽत्र हेतुः ॥ ९७६ ॥ परीवादस्तथ्यो भवति वितथो वापि महता तथाप्युच्चैर्धाम्नो हरति महिमानं जन- रवः । तुलोत्तीर्णस्यापि प्रकटितहुताशेषतमसो रवेस्तादृक्तेजो नहि भवति कन्यां गतवतः ॥ ९७७ ॥ बहिः सर्वाकार- प्रगुणरमणीयं व्यवहरणमभ्युत्थानान्यपि तनुतराणि स्थगयति । जनं विद्वानैकः सकलमभिसंधाय कपटैस्तटस्थः स्वानर्थान्घटयति च मौनं च भजते ॥ ९७८ ॥ कलारत्नं गीतं गगनतलरत्नं दिनमणि सभामारत्नं विद्वाञ्श्रवणपुटरत्नं हरिकथा । निशारत्नं चन्द्रः शयनतलरत्नं शशिमुखी महीरत्नं श्रीमाञ्जयति रघुनाथो नृपवरः ॥ ९७९ ॥ नराः संस्कारार्हा जगति किल केचित्सुकृतिनः समानाया जातावपि वयसि सत्यामपि धियि । अयं दृष्टान्तोऽत्र स्फुटपरिचयाद्भ्यसनतः शुकः श्लोकान्वक्तुं प्रभवति न काकः क्वचिदपि ॥ ९८० ॥ वरं तुङ्गाच्छृङ्गाद्गुरुशिखरिणः क्वापि पुलिने पतित्वायँ कायः कठिनदृषदन्तर्विदलितः । वरं न्यस्तो हस्तः फणिप- तिमुखे तीव्रदशने वरं वह्नौ पातस्तदपि न कृतः शील- विलयः ॥ ९८१ ॥ विदेववर्जं^१ ग्रामं विबुधविधुरा भूपतिसभा मुखं श्रुत्या हीनं मनुजपतिशून्यं च विषयम्^२ । अनाचारा- न्दारानपहरिकथं काव्यमपि च प्रवृत्तत्वापेतं गुरुमपि सुबुद्धिः परिहरेत् ॥ ९८२ ॥ मणिः शाणोल्लीढः^३ समरविजयी हेतिनिहतो^४ मदक्षीणो नागः^५ शरदि सरितः श्यानपुलिनाः । कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता तनिना शोभन्ते गलितविभवाश्चार्थिषु नृपाः ॥ ९८३ ॥ किमासेव्यं पुंसा सविधमनवद्यं द्युसरितः किमेकान्ते ध्येयं चरणयुगलं कौस्तुभभृतः । किमाराध्यं पुण्यं किमभिलषणीयं च करुणा यदासक्त्या चेतो निरवधि विमुक्तौ प्रभवति ॥ ९८४ ॥ वरं मौनं कार्यं न च वचनमुक्तं यदनृतं वरं क्लीव्यं^७ पुंसां न च परकलत्राभिगमनम् । वरं प्राणत्यागो न च पिशुनवाक्ये- ष्वभिरुचिवरं^८ भिक्षाशित्वं न च परधनास्वादनसुखम् ॥ ९८५ ॥ वरं शून्या शाला न च खलु वरो दुष्टवृषभो वरं वेश्या पत्नी न पुनरविनीता कुलवधूः । वरं वासोऽरण्ये न पुनरविवेकाधिपपुरे^९ वरं प्राणत्यागो न पुनरधमानामुपगमः ॥ ९८६ ॥ दृढः प्रेमा भग्नः संदसिरिव^१ संधिं न भजते भजेतापि प्रायः स्खलति खलु यत्नैरपि धृतः । स्वनेत्रो चेत्साम्यं भजति न भजेद्वा न भवति च्युताशङ्कश्चेत्यास्मन्- तिमुपगतस्तु व्यथयति ॥ ९८७ ॥ इयं प्रीतिर्वल्ली हृदयभुवि दैवात्समुदिता तथा यत्नाद्रक्ष्या प्रकृतिमृदुलापायबहुला । यथा नैना स्फीता पिशुनजनदुर्वाक्यदहनो दहन्त्यन्तः शोषं व्रजति न पुनः सौहृदनिधेः ॥ ९८८ ॥ न रम्यं नारम्यं प्रकृतिगुणतो वस्तु किमपि प्रियत्वं यत्र स्यादितरदपि तद्ग्राहकवशात् । रथाङ्गाहानानां भवति विधुरङ्गारशकटी पटीरारम्भः कुम्भः स भवति चकोरीनयनयोः ॥ ९८९ ॥ अरण्यं सौरङ्गैर्रिगिरिकुहरगर्भाश्च^२ हरिभिर्दिशो^३ दिर्मातङ्गे^४ सलिलमपिषैं पङ्कजवनैः । प्रियाचक्षुर्मध्यस्तनवदनसौन्दर्यवि- जितैः सता माने म्लाने मरणमथवा दूरगमनम् ॥ ९९० ॥ नभोभूषा पूषा^५ कमलवनभूषा मधुकरी वचोभूषा सत्यं वरविभवभूषा वितरणम् । मनोभूषा मैत्री मधुसमयभूषा मनसिजः संदोभूषा^६ सूक्तिः सकलगुणभूषा च विनयः ॥ ९९१ ॥ कलासीमा काव्यं सकलगुणसीमा वितरणं मये सीमा मृत्युः सकलसुखसीमा सुवदना । तपः सीमा मुक्तिः सकलकृतिसीमाक्षितिभृतिः प्रिये सीमाह्लादः श्रवणसुखसीमा हरिकथा ॥ ९९२ ॥ शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृते । प्रभुर्धनपरायणः सततदुर्गतः^७ सज्जनो नृपाङ्गन- गतः खलो मनसि सप्त शल्यानि मे ॥ ९९३ ॥ प्रसरति मनः कार्यारम्भे दृढीभवति स्पृहा स्वयमुपनयन्नर्थान्मन्त्रो न गच्छति विप्लवम् । फलति सकलं कृत्यं चित्तं समुन्नतिमश्नुते भवति च रतिः श्लाघ्ये कृत्ये नरस्य भविष्यतः ॥ ९९४ ॥ सरसि बहुशस्ताराच्छांये क्षणातपरिवञ्चितः कुमुदविटपान्वेषी हंसो निशासु विचक्षणः । न दशति पुनस्ताराशङ्की दियापि सितोत्पलं कुहकचकितो लोकः सत्येऽप्यप्रायमपेक्षते ॥ ९९५ ॥ स्फलनिश्चयः शाखाभङ्गं करोति वनस्पतेर्गनममलस वर्हा- टोपः करोति शिखण्डिनः । चतुरगमनो जाल्यो योऽश्वः स गौरवं वाब्वते गुणवति जने प्रायेणैते गुणाः खलु दूष- णम् ॥ ९९६ ॥ कृमिकुलचितं^८ लोलाक्लिन्नं^९ विगन्धि^१० जुगु- प्सितं^११ निरुपमरसप्रीत्या खादन्नरास्थि निरामिषम्^१२ । सुरैपति-^१३ मपि श्वा पार्श्वस्थं विलोक्य न शङ्कते नहि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम्^१४ ॥ ९९७ ॥ मधुकरगणश्रूंतं त्यक्त्वा गतो नवमल्लिकां पुनरपि गतो रक्ताशोकं कदम्ब-
१ रहिताम्. २ देशम् ३ निकषपाषाणेनोल्लिखितः ४ आयुधैः कृत- क्षत ५ हस्ती. ६ शुकः. ७ नपुंसकत्वम् ८ दुष्कीर्तिता. ९ दुर्विवेकिराज्ये- २३ सु. रं. भां.
१ समीचीनः खङ्ग इव २ मृगै ३ सिंहैः ४ दिग्गनै ५ सूर्य ६ सभा. ७ दरिद्र ८ कीटकसमूहैर्व्याप्तम् ९ लालयार्द्रम् १० आम- गन्धि ११ गर्हितम्. १२ निर्भासम्. १३ इन्द्रम्. १४ क्षुद्रकत्वम्
| १७८ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
वनं ततः । तदपि सुचिरं स्थित्वा तेभ्यः प्रयाति सरोरुहं परिचितजनद्वेषी लोको नवं नवमीहते ॥ ९९८ ॥ दद्या- त्साधुर्यदि निजपदे दुर्जनाय प्रवेशं तन्नाशाय प्रभवति ततो वाञ्छमानः स्वयं सः । तस्माद्देयो विपुलमतिभिर्नावका- शोऽधमानां जारोऽपि स्याद्गृहपतिरिति श्रूयते वाक्यतोऽत्र ॥ ९९९ ॥ मौने मौनी गुणिने गुणवान्पण्डिते पण्डितोऽसौ दीने दीनः सुखिनि सुखवान्भोगिनि प्राप्तभोगः । मूर्खे मूर्खो युवतिषु युवा वाग्मिषु प्रौढवाग्मी धन्यः कोऽपि त्रिभुवन- जयी योऽवधूतेऽवधूतः ॥ १००० ॥ विद्यातीर्थे जगति विबुधाः साधवः सत्यतीर्थे गङ्गातीर्थे मलिनमनसो योगिनो ध्यानतीर्थे । धारातीर्थे धरणिपतयो दानतीर्थे धनाढ्या लज्जा- तीर्थे कुल्युवतयः पातकं क्षालयन्ति ॥ १००१ ॥ साध्वीस्त्रीणां दयितविरहे मानिनां मानभङ्गे श्लोकानामपि जनरवे निग्रहे पण्डितानाम् । अन्योद्रेके कुटिलमनसां निर्गुणानां विदेशे भृत्याभावे भवति मरणं किं तु संभावित्तानाम् ॥ १००२ ॥ शीतेऽतीते वसनमशनं वासरान्ते निशान्ते क्रीडारम्भं कुव- लयदृशां यौवनान्ते विवाहम् । सेतोर्बन्धं पयसि चलिते वार्धके तीर्थयात्रां वित्तेऽतीते वितरणमतिं कर्तुमिच्छन्ति मूढाः ॥ १००३ ॥ श्रेयो नूनं व्रजति स पुमांश्शिक्षया वर्धितो यः स्वच्छन्दं यश्चरति स पराभूतिमाप्नोति काले । पूज्यो वेणुर्भवति च नतिं प्रापितो भूपतीनामन्यन्नृत्योचित- मिति करे नर्तकाः कल्पयन्ति ॥ १००४ ॥ बाले बाला विदुषि विबुधा गायने गायनेगाः शूरे शूरा निगमविदि चान्नायलीलागृहाणि । सिद्धे सिद्धा मुनिषु मुनयः सत्सु सन्तो महान्तः प्रौढे प्रौढाः किमिति वचसा तादृशा यादृ- शेषु ॥ १००५ ॥ चान्द्रीं लेखां दशति दशनैर्दारुणः सैहि- केयो नव्यां वल्लीं दवदहनकश्चान्दनीं दन्दहीति । अप्यु- न्मत्तः कुवलयमयीं मालिकामारुनीते मूलादुन्मूलयति नलिनीं दुष्टहस्ती करेण ॥ १००६ ॥ यावत्स्वस्थमिदं शरीर- मरुजं यावज्जरा दूरतो यावच्चेन्द्रियशक्तिरप्रतिहता याव- त्क्षयो नायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्संदीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥१००७॥ निर्वृत्तौध्वरकृत्य ऋत्विजमहो तीर्णोपगो नाविकं युद्धान्ते सुभटं च सिद्धविजयो वोढारमाप्तस्थलः । वृद्धं वारवधूंजनं च कितवो निर्द्यूततद्यौवनो ध्वस्तां तङ्गचयश्चिकित्सकमपि द्वेष्टि प्रदेयार्थिनम् ॥ १००८ ॥ मित्रं स्वेच्छतया रिपुं नयैर्बलैर्लुब्धं धनैरीश्वरं कार्येण द्विजमादरेण युवतिं प्रेम्णा शर्मैर्बान्धवान् । अत्युग्रं स्तुतिभिर्गुरुं प्रणतिभिर्मूर्खं कथा- भिर्बुधं विद्याभी रसिकं रसेन सकलं शीलेन कुर्याद्वशम् ॥ १००९ ॥ दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः सङ्गात्सुतो लालनाद्विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् । स्त्री मद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्रयान्मैत्री चाप्रण- यात्समृद्धिरनयात्त्यागात्प्रमादाद्धनम् ॥ १०१० ॥ कोऽर्था- न्प्राप्य न गर्वितो भुवि नरः कस्यापदोऽस्तं गताः स्त्रीभिः कस्य न खण्डितं बत मनः को नाम राज्ञां प्रियः । कः कालस्य न गोचरो धनकृते कोऽर्थी गतो गौरवं को वा दुर्जनवागुरानिपतितः क्षेमेण यातो गृहम् ॥ १०११ ॥ वैद्यं पानरतं नटं कुपठिनं स्वाध्यायहीनं द्विजं योवं कापु- रुषं हयं गतरयं मूर्खं परिव्राजकम् । राजानं च कुमन्त्रिभिः परिवृतं देशं च सोपद्रवं भार्यां यौवनगर्वितां पररतां मुञ्च- न्ति ते पण्डिताः ॥ १०१२ ॥ वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसा निर्द्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं मन्त्रिणः । पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः सर्वः कार्यवशाज्जनोऽभिरमते तत्कस्य को वल्लभः ॥ १०१३ ॥ सन्तश्चेदमृतेन किं यदि खलस्तत्का- लकूटेन किं दातारो यदि कल्पगास्त्रिभिरलं यद्यर्थिनः किं तृणैः । किं कर्पूरशलाकया यदि दृशः पन्थानमेति प्रिया संसारोऽपि सतीन्द्रजालमपरं यद्यस्ति तेनापि किम् ॥ १०१४॥ लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः सत्यं चेत्त- पसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् । सौजन्यं यदि किं गुणैः स्वमहिमा यद्यस्ति किं मण्डनैः सद्धिद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ १०१५ ॥ छेदनन्दनचूतचम्पकबने रक्षापि शाखोटके हिंसा हंस- मयूरकोकिलकुले काकेषु नित्यादरः । मातङ्गेन खरक्रयः समतुला कर्पूरकार्पासयोरेषा यत्र विचारणा गुणिगणे देशाय तस्मै नमः ॥ १०१६ ॥ या राका शशिशोभना गतघना सा यामिनी यामिनी या सौन्दर्यगुणान्विता पतिरता सा कामिनी कामिनी । या गोविन्दरसप्रमोदमधुरा सा माधुरी माधुरी या लोकद्वयसाधनी तनुभृतां सा चातुरी चातुरी ॥ १०१७॥ किं तीर्थं हरिपादपद्मभजनं किं रत्नमच्छा मतिः किं शास्त्रं श्रवणेन यस्य गलति द्वैतान्धकारोदयः । किं मित्रं सतततो- पकाररसिकं तत्त्वावबोधः सखे कः शत्रुर्वद खेददानकुशलो दुर्वासनासञ्चयः ॥ १०१८ ॥ क्षान्तिश्चेत्कवचेन किं किम- रिभिः क्रोधोऽस्ति चेद्देहिनां ज्ञातिश्चेदनलेन किं यदि सुहृ- द्दिव्यौषधैः किं फलम् । किं सर्पैर्यदि दुर्जनाः किमु धनैर्वि- द्यानवद्या यदि व्रीडा चेत्किमु भूषणैः सुकविता यद्यस्ति
१ रुजारहितम् २ उद्योग ३ संपादितयज्ञकृत्य ४ उत्तीर्णो नदी येन स ५ वोढारम् ६ धूर्ते ७ निरस्तरोगसच्य . ८ वेधम् ९ नीतिशक्तिभिः । १ स्वार्थपरत्वात् २ दुष्टा ३ सहनशीलता.
सामान्यनीतिः १७९
राज्येन किम् ॥ १०१९ ॥ सूनु सच्चरितः सती प्रियतमा स्वामी प्रसादोन्मुखः स्निग्धं मित्रमवञ्चकः परिजनो निःक्लेश-लेशं मन । आकारो रुचिर, स्थिरश्च विभवो विद्यावदातं सुखं तुष्टे विष्टपकष्टहारिणि हरौ संप्राप्यते देहिना ॥ १०२० ॥ का श्लाघ्या गुणिना क्षमा परिभव को य. स्वकुल्यै कृतः कि दुःखं परसश्रयो जगति क श्लाघ्यो य आश्रीयते । को मृत्युर्व्यसन शुच जहति के यैर्निर्जिता शत्रव. कैर्विज्ञातमिद विगतनगरे छन्नस्थितैः पाण्डवैः ॥ १०२१ ॥ स स्निग्धोऽकुशलान्निवारयति यस्तत्कर्म यन्निर्मलं सा स्त्री यानुविधायिनी स मतिमान्य. सद्भिर् + यर्च्यते । सा श्रीर्या न मद करोति स सुखी यस्तृष्णया मुच्यते तन्मित्रं यदकृत्रिम म पुरुषो य. खिद्यते नेन्द्रियै ॥ १०२२ ॥ प्रायेणात्र कुलान्वित कुकुलजा. श्रीवल्लभ दुर्भगा दातार कृपणा ऋजूननृजवो वित्तान्वितं निर्धना । वैरुप्योपहताश्च कान्तवपुषं धर्माश्रयं पापिनो नानाशास्त्रविचक्षण च पुरुष निन्दन्ति मूर्खा जना ॥ १०२३ ॥ पौलस्त्य. कथमन्दारहरणे दोषं न विज्ञातवान्रामेणापि कथ न हेमह रिणस्यासम्भवो लक्षित । अक्षैश्चापि युधिष्ठिरेण सहसा प्राप्तो ह्यनर्थ. कथ मैत्यासन्नविपत्तिमूढमनसा प्रायो मति. क्षीयते ॥ १०२४ ॥ सिंहो व्याकरणस्य कर्तुरहरत्प्राणान्प्रियान्पाणिनेर्मीमासाकृतमुन्ममाथ सहसा हस्ती मुनि जैमिनिम् । छन्दोज्ञाननिधि जघान मकरो वेलातटे पिङ्गलं ह्यज्ञानावृतचेतसामतिरुषा कोऽर्थस्तिरश्चा गुणे. ॥ १०२५ ॥ शक्तेनापि सता जनेन विदुषा कालान्तरप्रेक्षिणा वस्तव्यं खलु वज्रपातविषमे क्षुद्रेऽपि पापे जने । दर्वीव्यग्रकरेण धूममलिनेनायासयुक्तेन कि भीमेनातिबलेन मत्स्यभवनेऽपूपा न सङ्घटिताः ॥ १०२६ ॥ सिद्धि वाञ्छयता जनेन विदुषा तेजो निगृह्य स्वक सत्त्वोत्साहवतापि दैवगतिषु स्थैर्य प्रकार्य क्रमात् । देवेन्द्रद्रुहिणोपमैर्बहुगुणैरभ्यर्चितो भ्रातृभिः किं क्लिष्टः सुचिर विराटभुवने पूर्वं न धर्मात्मज. ॥ १०२७ ॥ रूपेणाप्रतिमेन यौवनगुणै. श्रेष्ठे कुले जन्मना गन्तव्यानि दिनानि दैववशतो भूयो धन वाञ्छता । सैरन्ध्रीति विगर्हिता युवतिभि. साक्षेपमाज्ञाभयाद्द्रौपद्या किल मत्स्यराजभवने घृष्ट न कि चन्दनम् ॥ १०२८ ॥ किं चित्रं यदि राजनीति कुशलो राजा भवेद्धार्मिक. किं चित्र यदि वेदशास्त्रनिपुणो विप्रो भवेत्पण्डितः । तच्चित्रं यदि रूपयौवनवती साध्वी भवेत्कामिनी तच्चित्रं यदि निर्धनोऽपि पुरुषः पाप न कुर्यात्कचित् ॥ १०२९ ॥ वासांसि ब्रजचारिवारिजदृशा ह्रुत्वा हठादुच्चकैर्यैः प्राग्भूरूहमारुरोह स पुनर्वस्त्राणि विस्तारयन् । व्रीडामारमपाचकार सहसा पाञ्चालजाया. स्वयं को जानाति जनो जनार्दनमनोवृत्ति कदा कीदृशी ॥ १०३० ॥ अर्थी लाघवमुच्छ्रितो निपतन कामातुरो लाञ्छनं १नि.खो वञ्चनमुन्मना विकलता दोषाकुल. सशयम् । लुब्धोऽकीर्तिमसगर. परिभव दुष्टोऽन्यदोषे रति दुर्भागप्रियता दुरोदरवश प्राप्नोति कष्ट सुहृः ॥ १०३१ ॥ नीतिर्भूमिभुजा नतिर्गुणवता २ह्रीरङ्गनाना रतिर्दपत्यो. शिशवो गृहस्य कविता बुद्धे प्रसादो गिगम् । लावण्यं वपुष श्रुत सुमनस शान्तिर्द्विजस्य क्षमा शक्तस्य द्रविणं गृहाश्रमवता स्वास्थ्यं सता मण्डनम् ॥ १०३२ ॥ कार्पण्येन यशः ३कृवा गुणचयो दम्भेन सत्यं क्षुधा मर्यादा व्यसनैर्धन च विपदा स्थैर्य प्रमादैर्द्विजः । पैशुन्येन कुल मदेन विनयो दुःश्रद्धया पौरुष दारिद्येण जनादरो ममतया चात्मप्रकाशो हतः ॥ १०३३ ॥ तारुण्य तरुणीजने विकचता पुष्पे विधौ चन्द्रिका कासारे कुमुद वने पिचूंवनं दानं द्विपेंद्रेंगले । आनृण्यं गृहिणा गृहस्य गृहिणी पित्रो शुभा संततिर्लावण्य तनुते द्विजे ऽतिपलिते विद्वत्त्वतुर्थाश्रम. ॥ १०३४ ॥ माधुर्य प्रमदाजनेषु ललितं दाक्षिण्यमार्ये जने शौर्य शत्रुपु नम्रता गुरुजने धर्मिष्ठता साधुषु । मर्मज्ञेष्वनुवर्तनं बहुविधं मानं जने पण्डिते शाठ्यं पापिपने नरस्य कथिताः पर्यन्तमयौ गुणाः ॥ १०३५ ॥ इन्दु निन्दति तस्करो गृहपतिं जारो सुशीलं खलः साध्वीमप्यसती कुलीनमकुलो जह्याज्जरन्तं युवा । विद्यावन्तमकक्षरो धनपति नीचश्च रूपोज्ज्वलं वैरुप्येण हतः प्रबुद्धमबुधोत्कृष्ट निकृष्टो जन ॥१०३६॥ विद्वान १४ससदि पौक्षिकः परवशो मानी दरिद्रो ९गृही द्रव्याढ्य. कृपणो यतिर्वसुमना वृद्धो विवाहोद्यतः । राजा दु सचिवप्रियः सुकुलजो मूर्ख. पुँमान्स्त्रीजितो वेदान्ती हतसत्क्रियः किमपर र्हौसास्पद भूतले ॥ १०३७ ॥ का विद्या कविता विनार्थिनि जने त्यागं विना श्रीश्च का को धर्मः कृपया विना क्षितिपतिः को नाम नीति विना । क. सूनुर्विनेय विना कुलवधू. का स्वामिभक्ति विना भोग्यं कि रमणी विना क्षितितले कि जन्म कीर्ति विना ॥ १०३८ ॥ २०दाक्षिण्य स्वजने दया परजने शाठ्यं सदा दुर्जने प्रीतिः साधुजने नैयो नृपजने विद्वज्जनेऽप्यार्जवम् । शौर्य शत्रुजने क्षमा गुरुजने नारीजने धूर्तता ये चैवं पुरुष. कलासु कुशलास्तेष्वेव लोकस्थिति. ॥ १०३९ ॥ स्वाधीना दयिता सैतावधि सुतोऽसौ
पादटिप्पणी
१ रावण . २ पाशै ३ प्राप्तविपद्ग्रस्तचित्तानाम् ४ विराटनगरे
१ कलङ्कम् २ निर्धन ३ अस्वास्थ्यन्त करण ४ अदृष्टयुद्धप्रसङ्ग ५ दुर्वचनशील ६ द्यूतवश ७ लज्जा ८ प्रसन्नता ९ क्रोधेन १० गुणसमुदाय ११ विकसन १२ कार्पासवन १३ चतुदिकप्रतिबधरहितस्य १४ सभायाम् १५ पक्षधारी १६ गृहस्थाश्रमी १७ स्त्रीण १८ हास्यविषय १९ सरलभाव . २० नीति २१ पुत्रजन्मावधि
षोडशाब्दावधि स्यात्कन्या करपीडनावधि सुतस्त्री तद्वशत्वा-
१८० सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्
षोडशाब्दावधि स्यात्कन्या करपीडनावधि सुतस्त्री तद्वशत्वा- वधि । जामाता बहुलार्पितावधि सखा साधुप्रलापावधि शिष्यो गुह्यनिरूपणावधि परे चैतेऽधनत्वावधि ॥ १०४० ॥ स्त्रीणां यौवनमर्थिनामन्वगमो राज्ञां प्रतापः सतां स्वास्थ्यं स्वल्पधनस्य संहतिरसद्वृत्तेश्च वाग्डम्बरः । स्वाचारस्य सद्- र्च्चनं परिणतेर्विद्या कुलसैकता प्रज्ञाया धनमुन्नतेरतिनतिः शान्तेर्विवेको बलम् ॥१०४१॥ नागो भाति मदेन ¹कं जल- रुहैः पूर्णेन्दुना शर्वरी शीलेन प्रमदा जवेन तुरगो नित्योत्स- वैर्मन्दिरम् । वाणी व्याकरणेन हंसमिथुनैर्नद्यः सभा पण्डितैः सत्पुत्रेण कुल नृपेण वसुधा लोकत्रयं विष्णुना ॥१०४२॥ एहि स्वागतमाविशासनमिदं कस्माच्चिराद्दृश्यसे का वार्ता ³परिदुर्बलोऽसि नितरां प्रीतोज्झि ते दर्शनात् । इत्येव समु- पागतं द्विजवरं संभावयन्त्यादरात्तेषा युक्तमशङ्कितेन मनसा गेहेषु गन्तुं सदा ॥ १०४३ ॥ स्यादत्यन्तरनिक्षरः क्षिति- पति. श्रीकारमात्राश्रयान्मत्री तत्कथितार्थलेखनपरस्तत्सेवको जायते । अध्येता तदगारमेव भजते विद्वांस्तु तं याचते यावान्यस्य गिरा समं परिचयस्तावन्विदूरे श्रियः ॥१०४४॥ को लाभो गुणिसंगम. किंसुखं प्रज्ञैतरैः संगति. का हानिः समयच्युतिर्निपुणता का धर्मतत्त्वे रतिः । कः शूरो विजि- तेन्द्रिय. प्रियतमा कानुव्रता किं धन विद्या किं सुखमप्र- वासगमनं राज्यं किमाज्ञाफलम् ॥ १०४५ ॥ सस्यानि स्वय- मत्ति चेद्वसुमती माता सुतं हन्ति चेद्लेलाम्बुनिधिर्विल- ङ्घयति चेद्भूमिं दहेत्यावकः । आकाशं जनमस्तके पतति चेदन्नं विषं चेद्भवेद्न्यायं कुरुते यदि क्षितिपतिः कस्सं निरोढुं क्षम. ॥ १०४६ ॥ वासः शुभ्रमृतुर्वसन्तसमयः पुष्पं शरन्मालती धान्युष्क. कुसुमायुधः परिमल. कस्तूरि- काजं धनुः । वाणी तर्करसोज्ज्वला प्रियतमा श्यामा वयो नूतनं मार्गः शाम्भव एव पञ्चमलया गीतिः कविर्बिल्हणः ॥ १०४७ ॥ ⁶रोलम्बैर्न विलैम्बित विवटितं धूमाकुलैः कोकि- लैर्मायूरैश्ललितं पुरैव रभसात्कीरैर्गैरैर्गीतम् । एकेनापि सुपल्लवेन तरुणा दावानलोपप्लवः सोढः को न विपत्सु मुञ्चति जनो मूर्खापि यो लालितः ॥१०४८॥ ⁹क्षोणीशाश्रयिणा परो- पकरणाभावादैवासश्रिया कार्पण्यात्सुधियामनध्ययनतो यूना प्रवासाश्रयात् । ज्ञातॄणां जगदीशभक्तिविरहादायुर्वृथा
१ उदकम्. २ वेगेन ३ कृश ४ अत्यन्तदूरे ५ मूर्खे ६ भ्रमरै. ७ विलम्बो न कृत. ८ मयूरसमूहैः ९ शुक्ते १० राजाश्रयवताम् ११ धनिनाम्
गच्छतीत्येवं काससमुद्भवः प्रतिदिनं नादो वदत्युच्चकै- ॥ १०४९ ॥ मानुष्ये सति दुर्लभा पुरुषता पुंस्त्वे पुनः विप्रता विप्रत्वे बहुविद्यतातिगुणता विद्यावतोऽर्थज्ञता । अर्थज्ञस्य विचित्रवाक्यपटुता तत्रापि लोकज्ञता लोकज्ञस्य समस्तशास्त्रविदुषो धर्मे मतिर्दुर्लभा ॥ १०५० ॥ आयाते च तिरोहितो यदि पुनर्दृष्टोऽन्यकार्ये रतो वाचि स्मेरमुखो विषण्णवदनः क्लेशेश्ववादे मुहुः । अन्तर्वेश्मनि वासमि- च्छति भृशं व्याधीति यो भाषते भृत्यानामपराधकीर्तनपर- स्तन्मन्दिर न व्रजेत् ॥ १०५१ ॥ बन्दी विन्दति चेद्दमा- त्यपदवी शिष्टैरलं भूरिभिः पुंभिश्चेत्प्रतिपाद्यते रतिकला कैणी- दशामादरः । विश्रान्ता यदि वैखरीषु कविता काव्येन भव्येन कि भूपाले यवने समस्तभुवने वैदग्ध्यमस्तं गतम् ॥ १०५२ ॥ आहूतेषु विहंगमेषु मशको नायान्पुरो वार्यते मध्येवारिधि वा वसस्तृणमणिर्धत्ते मणीना रुचम् । खद्यो- तोऽपि न कम्पते प्रविचलन्मध्येऽपि तेजस्विना धिक्सा- मान्यमचेतस प्रभुमिवानासृष्टतत्त्वान्तरम् ॥ १०५३ ॥ मूर्खोऽशान्तस्तपस्वी क्षितिपतिरलसो मत्सरी धर्मशीलो दुःस्थो मानी गृहस्थः प्रमुरतिकृपणः शास्त्रबुद्धर्महीन. । आज्ञाहीनो नरेन्द्रः शुचिरपि सततं य. परान्नेोपभोजी वृद्धो रोगी दरिद्र स च युवतिपतिर्धिंग्विडम्बप्रकारान् ॥ १०५४ ॥ ख्यात. शक्रो भगाङ्को विधुरपि मलिनो माधवो गोपजातो वेश्यापुत्रो वसिष्ठो रतिपतिरतनुः सर्वभक्षी हुताशः । व्यासो मत्स्योदरीयो लवणजलनधिः पाण्डवा जारजाता रुद्रः प्रेता- स्थिधारी त्रिभुवनविषये कस्य दोषो न चास्ति ॥ १०५५ ॥ प्राणाघातान्निवृत्ति परधनहरणे सययः सत्यवाक्यं काले शक्त्या प्रदानं युवतिजनकथामूकभावः परेषाम् । तृष्णास्रोतो- विभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पा सामान्यः सर्वशा- स्रेष्वनुपहतविधिः श्रेयसामेष पन्थाः ॥ १०५६ ॥ आविर्भू- तानुरागाः क्षणमुदयगिरेरुज्जिहानस्य भानोः पत्रच्छायैः पुर- स्तादुपवनतरवो दूरमाश्वेव गत्वा । एते तस्मिन्निवृत्ताः पुन- रितरककुप्प्रान्तपर्यस्तबिम्बे प्रायो भृत्यास्त्यजन्ति प्रचलित- विमवं स्वामिनं सेवमानाः ॥ १०५७ ॥ मणिना वलयं वलयेन मणिर्मणिना वलयेन विभाति करः । कविना च विभुर्विभुना च कविः कविना विभुना च विभाति सभा । शशिना च निशा निशया च शशी शशिना निशया च विभाति नभः । पयसा कमलं कमलेन पयः पयसा कमलेन विभाति सरः ॥ १०५८ ॥
इति श्रीसुभाषितरत्नभाण्डागारे तृतीयं राजप्रकरणं समाप्तम्
चतुर्थं चित्रप्रकरणम्
समस्याख्यानम्
| सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । दलितश्चकि-<br>तश्छन्नस्तव सैन्ये विसर्पति ॥ १ ॥ कामं कामदुधं धुङ्क्ष्व<br>मित्राय वरुणाय च । वयं धीरेण दानेन सर्वान्कामानशी-<br>महि ॥ २ ॥ असमाने समानत्वं भविता कलहे मम ।<br>इति मत्वा ध्रुव मानी मृगात्सिंहः पलायते ॥ ३ ॥ हीन-<br>हत्या दधात्येव लाघव महतामपि । इति मत्वा द्विपद्वेषी<br>मृगात्सिंहः पलायते ॥ ४ ॥ तिष्ठार्जुनोद्य सङ्ग्रामे त्वा हनि-<br>ष्याम्यह शरैः । तिष्ठामि कर्ण किं मूढ मृगात्सिंहः पलायते<br>॥ ५ ॥ ऋषेरस्याश्रमे पुण्ये शापसन्त्रस्तमानसः । सुद्रुग्ध-<br>तोऽपि प्रायोऽद्य मृगात्सिंहः पलायते ॥ ६ ॥ अयं मृग समा-<br>याति त्वरितैस्त्वरितैः पदैः । ततो वेगात्पलायस्व मृगात्सिंह<br>पलायते ॥ ७ ॥ विधाया दुर्मदो येषा कार्पण्यं विभवे<br>सति । तेषा दैवामिशक्षाना सलिलादग्निरुत्थितः ॥ ८ ॥<br>सीतासमागमोत्कण्ठाकर्णान्ताकृष्टधन्वनः । राघवस्य शरा-<br>सारै समुद्रादमिरुत्थितः ॥ ९ ॥ दामोदरकराघातविहली-<br>कृतचेतसा । दृष्ट चाणूरमल्लेन शतचन्द्रं नभस्तलम् ॥ १० ॥<br>चलत्तरङ्गरङ्गाया गङ्गाया प्रतिबिम्बितम् । सचन्द्रं शोभते-<br>ऽत्यर्थं शतचन्द्र नभस्तलम् ॥ ११ ॥ विधे पिधेहि शीतांशुं<br>यावन्नायाति मे प्रियः । आगते दयिते कुर्याः शतचन्द्रं<br>नभस्तलम् ॥ १२ ॥ सुमेरुशिखरप्रान्तस्फुरद्दिव्यवधूमूखम् ।<br>परितः स्फुरितैः शङ्के शतचन्द्र नभस्तलम् ॥ १३ ॥ घृतं<br>न श्रूयते कर्णे दधि खंर्गोऽपि दुर्लभम् । मुग्धे दुग्धस्य का<br>वार्ता तक्रं शक्रस्य दुर्लभम् ॥ १४ ॥ अक्रूरवङ्गमत्तस्तक्र<br>न शतक्रतुना हुतम् । नात्तमिति वाक्यार्थात्तक्र शक्रस्य<br>दुर्लभम् ॥ १५ ॥ भीष्मेग्रीष्मर्तुसतप्तशून्यरथ्यान्तरस्थयोः । | अन्योन्यालापसुखिनोर्यूनोश्चन्द्रायते रविः ॥ १६ ॥ स्वस्ति<br>क्षत्रियदेवाय जगद्देवाय भूसुजे । यशशःपुण्डरीकान्तर्गगनं<br>भ्रमरायते ॥ १७ ॥ स्फुरिते जठरे विष्णोर्नवनीतभुज-<br>त्रिशोः । मक्षिकापादघातेन कम्पित भुवनत्रयम् ॥ १८ ॥<br>अतसीपुष्पसकाशं खं वीक्ष्य जलदागमे । ये वियोगेऽपि<br>जीवन्ति न तेषा विद्यते भयम् ॥ १९ ॥ वागर्थाविव<br>सम्पृक्तौ शतकोटिप्रविस्तरम् । तुंरासाह पुरोधाय नेमु. मर्वे<br>सुरा. शिंवौ ॥ २० ॥ आषाढी कार्तिकी माघी वचा शुण्ठी<br>हरीतकी । गयाया पिण्डदानेन पुण्या श्लेष्महरानृणी<br>॥ २१ ॥ जम्बूफलानि पक्कानि पतन्ति विमले जले ।<br>कपिकम्पितशाखाभ्यो गुलुगुग्गुलुगुग्गुलू ॥ २२ ॥ विदग्ध्धे<br>सुमुखे रक्ते नितम्बोपरि संस्थिते । कामिन्याश्लिष्टसुगले<br>कूजितं रतिकूजितम् ॥ २३ ॥ प्रलयसहायकरा इति गोला-<br>नाचम्य सकलभूमिरुहाम् । विलसति दवदहनावेलिरिह<br>जलवाहः पर शरणम् ॥ २४ ॥ निजपतिराध. प्रणयी<br>हरिर्द्वित्तीय. करोमि कि गोपि । शृणु मखि पाणिनिसूत्रं<br>विप्रतिषेधे पर कार्यम् ॥ २५ ॥ दैत्याना मनसि दया<br>जाता कृष्ण हि रक्षितु कसात् । द्रष्टुं देवमजसं दैत्यस्त्रीणा-<br>मपि प्रीतिः ॥ २६ ॥ श्रीनाथ नः श्रुतमिति बहुधा भ्रमता<br>मया नृलोकेषु । शीलं वारवधूना दैत्यस्त्रीणामपि प्रीति-<br>॥ २७ ॥ रामाभिषेके मदविह्वलाया हस्ताच्च्युतो हेमघट-<br>स्तरुण्याः । सोपानमासाद्य करोति शब्दं ठंठंठंठंठंठंठंठंठंठः |
| (१) 'सहस्रशीर्षा पुरुष सहस्राक्ष सहस्रपाद्' इति समस्या (२) 'काम कामदुघ धुङ्क्ष्व', 'मित्राय वरुणाय च', 'सर्वान्कामानशीमहि' इति च समस्या (३, ४, ५, ६, ७,) 'मृगात्सिह पलायते' इति समस्या (८) 'सलिलादग्निरुत्थित' इति समस्या (९) 'समुद्रादग्नि-रुत्थित ' इति समस्या (१०, ११, १२, १३,) 'शतचन्द्र नभस्तलम्' इति संमस्या (१४, १५) 'तर्क शक्रस्य दुर्लभम्' इति समस्या | (१६) 'यूनोश्चन्द्रायते रविः' इति समस्या (१७) 'गगनं भ्रमरायते' इति समस्या (१८) 'मक्षिकापादघातेन कम्पित भुवनत्रयम्' इति च समस्या (१९) 'अतसीपुष्पसकाशम्', 'न तेषा विद्यते भयम्' इति च समस्या (२०) 'वागर्थाविव सम्पृक्तौ', 'शतकोटिप्रविस्तरम्' इति च समस्या (२१) 'पुण्या श्लेष्महरानृणी' इति समस्या (२२) 'गुलुगुग्गुलुगुग्गुलू' इति समस्या (२३) 'कूजित रतिकूजितम्' इति समस्या (२४) 'प्रलयसहायकरा इति गोलानाचम्य' इति समस्या (२५) 'विप्रतिषेधे पर कार्यम्' इति समस्या. (२६, २७) 'दैत्यस्त्रीणामपि प्रीतिः' इति समस्या |
| १ शरा एवाङ्गारा २ अयङ्गाङ्गम ३ इन्द्रेण ४ दारुण | १ अन्योन्यभाषणेन जाताह्लादयो . २ इन्द्रम् ३ पार्वतीशंकरौ<br>४ आषाढी कार्तिकी माघी एकादशी पुण्या वचा शुण्ठी हरीतकी श्लेष्महरा गयाया पिण्डदानेनानृणी पितॄर्णान्मुक्त इति योजना |
१८२ सुभाषितरत्नभाण्डागारम् [ ४ प्रकरणम्
॥ २८ ॥ कर्पूरपूरच्छविवादविद्यासवावदूक्यतियुक्तितार्ये ।
इन्दौ नृपेद्रोहि तमोवितान सूर्योदये रोदिति चक्रवाकी
॥ २९ ॥ विलोक्य बालामुरवचन्द्रबिम्ब कण्ठे च मुक्तावलि-
हारताराः । पुनर्निशाया भयभीतभीता सूर्योदये रोदिति
चक्रवाकी ॥ ३० ॥ सर्वस्य जन्तोर्भवति प्रमोदो विरोधिवर्गे
परिभूयमाने । तिरोहिते त्वद्यशसा नरेन्द्र चन्द्रोदये नृत्यति
चक्रवाकी ॥ ३१ ॥ न कापि गमाहितसशयाया विना
नमात्व^(२) जनकात्मजाया । गुर सुराणाङ्कपुर सराणा-
मङ्गारपूर्ण कमल प्रफुल्लम् ॥ ३२ ॥ पुजायमानाऽरुणरत्नहार
कान्तोऽरसि सावदनङ्ग भाति । सिध्येदमुष्योपमितियदि
स्यादङ्गारपूर्ण कमल प्रफुल्लम् ॥ ३३ ॥ रे पुत्र सत्सङ्गमवामुहि
त्वमसत्प्रसङ्ग त्वरया विहाय । धन्योऽपि निन्दा लभते
कुसङ्गात्सिन्दूरबिन्दुर्विवधवाललाटे ॥ ३४ ॥ श्रुत्वा प्रदग्धं
तनय सशोका पुनर्निशम्याऽथशरीरमावम् । पश्यत्सु देवेषु
च धावमाना र्मा मुदा ^१शकरमालिङ्ग ॥ ३५ ॥ सुतं
पतन्तं प्रसमीक्ष्य पावके न बोधयामास पति पतिव्रता ।
तदा ह्यसौ तद्गतशक्तिपीडितो हुताशनश्चन्दनपङ्कशीतल
॥ ३६ ॥ उन्नमय्य मेकचग्रहमौंस चुम्बति प्रियंतमे
हठवृत्त्या । कूजिता जयति मानधनाया। हूहुहूहुहुहुहु-
हुहुहूहु ॥ ३७ ॥ मम करग्रहणाथ पणीकृत न यदि राघ-
वतोऽप्यधिरोहति । सखि तदैवमभून्मम जीविते शशक-
शृङ्गमयं कठिनं वपुः ॥ ३८ ॥ नीलाऽञ्जयतिनदनं नितान्त-
वृत्तमास्यश्रीपरिचितचन्द्रिकाविलासम् । स्नातायाः सरसि
विलोक्य वक्रचन्द्र मध्याह्ने मुकुलितमम्बुज वनान्ते ॥ ३९ ॥
काचिद्दिनार्धसमये ^९रविरश्मितमा ^१०नीलांशुकाञ्चलनिली-
नमुखेन्दुबिम्बाम् । ता तार्दशीं समुन्वीक्ष्य कविर्जगाद
राहुर्दिवा ग्रसति पर्व विना किलेन्दुम् ॥ ४० ॥ बहल-
बलसमर्था मेत्रनादादयो मे सपदि युवि विशन्त कीट-
हस्ते निपेतु । इति वदति दशास्यो हस्ततालं वितत्य
मशकगलकरन्ध्रे हस्तियूथ प्रविष्टम् ॥४१॥ मृगशिशुनयनाया
अक्षिपक्ष्मप्रकोणे विलसति तरला या तारका तारकेव ।
प्रतिफलित इहोष्ट्रे भ्रान्तिगस्ते जनाना तिलतुषपुतकोणे
मक्षिकोष्ट प्रसृता ॥ ४२ ॥ मधौ मन्द मन्द मरुति शिशिरे
वाति रुचिर कुलस्त्रीभि कृष्णे विहरति तथा वृष्णिनिकरे ।
उषा योषा तोषाद्धदनमलिरूद्रस्य भिपतो पुर पत्यु कामा-
च्छुशुरमियमालिङ्गति मनी ॥ ४३ ॥ स्वय सगभ्येश
पुरभिदमनल्पेन तपसा महेन्द्र सतोष्य त्रिदशरिपुनाशादसु-
करात् । समायाते पार्थे द्रुपदतनया केशविकल्या पुरः पत्युः
कामाच्छ्वशुरमियमालिङ्गति सती ॥ ४४ ॥ कदाचित्पा-
ञ्चाली विपिनभुवि भीमेन बहुश कृशाङ्गी श्रान्तासि
क्षणमिह निषीदेति गदिता । शनैः गीतन्त्वाय तटविटपिन
प्राप्य मुदिता पुर पत्यु कामाच्छ्वशुरमियमालिङ्गति सती
॥ ४५ ॥ तपापाये गोदापरतटमुनि स्नातुमनमि प्रविष्टे
तत्पूर भगवति सुनौ कुम्भजनुष स्तुत लोपामुद्रा स्वयम-
विकल गन्तुमुदिता पुर पत्यु कामाच्छ्वशुरमियमालिङ्गति
सती ॥ ४६ ॥ सर्वस्य द्वे सुमतिरुमती संपदापत्तिहेतू एको
गोत्रे प्रभवति पुमान्य कुटुम्बं बिभर्ति । वृद्धो यूना मह
परिचयात्ज्यज्यते कामिनीभि स्त्रीपुंपुंच प्रभवति यदा तद्धि
गेह विनष्टम् ॥ ४७ ॥ ^३ये पापं शमयन्ति सगतिभृता
ये दानशूङ्कारिणो येषा चित्तमतीव निर्मलतर येषा
न भग्न व्रतम् । ये सर्वान्सुखयन्ति हि प्रतिदिन
ते साधवो दुर्लभा गङ्गावद्गजगण्डवद्गगनवद्गाङ्गेयवद्ध्ये-
यवत् ॥ ४८ ॥ हारो भाति कुचद्वय तव शुभे मध्ये
वपुः सङ्कच केगा नासिकमौक्तिक सुवदन दर्पाङ्गरागो
दृश । गङ्गावज्जद्गण्डवद्गगनवद्गाङ्गेयवद्ध्येयवज्जम्बूवज्जलं-
बिन्दुवज्जंलजवज्जम्बालवज्जालवत् ॥ ४९ ॥ यत्कण्ठे गरल
विराजतितरा शीर्षे च मन्दाकिनी उत्सङ्गे च शिवामुखं
(२८) 'ठठठठठठठठठठठ' इति समस्या (२९, ३०) 'सूर्योदये रोदिति चक्रवाकी' इति समस्या (३१) 'चन्द्रोदये नृत्यति चक्रवाकी' इति समस्या (३२, ३३) 'अङ्गारपूर्णं कमलं प्रफुल्लम्' इति समस्या (३४) 'सिन्दूरबिन्दुर्विवधवाललाटे' इति समस्या (३५) 'रमा मुदा शंकरमालिङ्ग' इति समस्या (३६) 'हुताशनश्चन्दनपङ्कशीतल' इति समस्या (३७) 'हूहुहूहुहुहुहुहुहूहुं' इति समस्या (३८) 'शशकशृङ्गमयं कठिन वपु ' इति समस्या (३९) 'मध्याह्ने मुकुलितमम्बुज वनान्ते' इति समस्या (४०) 'राहुर्दिवा ग्रसति पर्व विना किलेन्दुम्' इति समस्या
(४१) 'मशकगलकरन्ध्रे हस्तियूथ प्रविष्टम्' इति समस्या (४२) 'तिलतुषपुटकोणे मक्षिकोष्ट प्रसूता' इति समस्या (४३, ४४, ४५, ४६) 'पुर पत्यु कामाच्छुशुरमियमालिङ्गति सती' इति समस्या (४७)'सर्वस्य द्वे', 'एको गोत्रे', 'वृद्धो यूना', 'स्त्रीपुंवच्च' इति चत्वारि पाणिने सूत्राणि समस्या (४८) 'गङ्गावद्गजगण्डवद्गगनवद्गाङ्गेयवद्ध्येयवत्' इति समस्या (४९) 'गङ्गावद्गजगण्डवद्गगनवद्गाङ्गेयवद्ध्येयवत्', 'जम्बूवज्जलबिन्दुवज्जंलजवज्जम्बालवज्जालवत्' इति च समस्या
१ श्रेष्ठचन्दनम् २ केशग्रहसहितम् ३ मुखम् ४ चुम्बन कुर्वति सति ५ कान्ते ६ बलात्कारेण ७ कण्ठेऽव्यक्तशब्द ८ मान एव धनं यस्या मानिन्या इत्यर्थ ९ मध्याह्ने १० सूर्यकिरणसंतप्ताम् ११ नीलबस्राञ्चलपिहितमुखचन्द्राम् १२ स्वर्भानु
१ द्रौपद्या श्वशुरो वायु २ लोपामुद्राया श्वशुर पूरतरणसाधन कुम्भ ३ ये गङ्गावत्सगतिभृता पाप क्षमयन्ति ये गजगण्डवद्दानशूङ्कारिण, येषां चित्त गगनवदतीव निर्मलतरम्, येषा व्रत गाङ्गेयवन्न भग्नम्, ये गेयवत्सर्वान्सुखयन्ति इति योजना ४ कस्तूरिकाकुतोऽङ्गराग ५ कर्दमवत्
समस्याख्यानम् १८३
कटितटे शार्दूलचर्माम्बरम् । माया यस्य रुणद्धि विश्वम-
खिलं तस्मै नमः शंभवे जम्बूवज्जलविन्दुवज्जलजवज्जम्बा-
लवज्जालवत् ॥ ५० ॥ ख्यातस्त्वं फलवृष्टिपुष्टिसुमनःस्वा-
धीनजाम्बूनद. शीर्णास्ते रिपुसंपद प्रतिदिनं मित्रोदये
मोदसे । पान्थाना कुरुषे विलम्बनमहो दृग्तान्तरस्तेजसा
जम्बूवज्जलविन्दुवज्जलजवज्जम्बालवज्जालवत् ॥ ५१ ॥
मङ्गामे रिपुभूभुजा मुखरुचिर्जीवेश्च देवाङ्गणाचक्षु ग्रोलम-
ढक्ष्मासनिवहैस्तन्मेदिनीमण्डनम् । त्वच्चापोद्गतबाणसंहति-
म्भूच्छीराम भूपते जम्बूवज्जलविन्दुवज्जलजवज्जम्बालवं-
जालवत् ॥ ५२ ॥ वैदेही समवाप्य दाशगथिनारम्बे प्रया-
णेऽप्यतो दृष्टा' पुष्पकसंस्थितेन रभसादाकाशमारोहता ।
लङ्कासागरजानकीवनरणक्षोभ्यभ्रत्कारिका जम्बूवज्जलवि-
न्दुवज्जलजवज्जम्बालवज्जालवत् ॥ ५३ ॥ यो द्रोणाचलमा-
दधौ करतले योऽतीतस्तसागर यश्चोत्खातितवास्त्वरुनुद-
वहत्युच्छेन दावानलम् । यो रक्षान्समरेऽरुणत्कपिंवर
पायाद्धनूमान्सौ जम्बूवज्जलबिन्दुवज्जलजवज्जम्वालवज्जाल-
वत् ॥ ५४ ॥ कस्तूरीतिलक ललाटरचितं नामामणि निस्तल
वक्रं कुञ्चितकेशपाशमनिशं दृष्टि निसृष्टा पुरः । पुसा मानस-
मत्स्यबन्धनविधौ वत्सेऽत्र वत्से स्वय जम्बूवज्जलविन्दुव-
जलजवज्जम्बालवज्जालवत् ॥ ५५ ॥ विद्धि श्रीहृदय सदा-
न्तमलिन भीमं भवाम्भोधिवि विज्ञाने सुरत महीशमवन
गूढं दृढ कण्टकैः । दारागारममागम सुविषम मोह पर दुस्तर
जम्बूवज्जलविन्दुवज्जलजवज्जम्यालवज्जालवत् ॥ ५६ ॥
शुण्ठीगोक्षुरयोर्विचार्यू मनसा कल्काशना यन्मया प्रोक्तं
तद्विपरीतक्र कृतमहो गो खुरमात्रे ददौ । नार्थो मूर्खजना-
लये न च सुखं नो वा यशो लभ्यते सद्धैद्ये कविभूपतौ
हरिहरे लाभ पर गोवध ॥ ५७ ॥ पैद्यस्यस्य परामवाय
भैषको मासेन गोभूम्या दथ्यन्नैश्च पामैः प्रतिदिनं संव-
र्धितो यो मया । मोऽयं मिहरवाहूद्वाहन्तरगमङ्गीत्याकुल.
सभ्रमाद्धन्ताशा विलय गता हतविधे लाभ. पर गोवधः
॥ ५८ ॥ पारीन्द्रस पराभवाय सुरभीमासेन दुर्मेधसा
पोष्यन्ते किल पीवरा. कटुगिर श्रान प्रयलादमी । न त्वेमि-
र्मंदमत्तवारणचमूविद्रावण केसरी जेत्तव्यो भवता किरात-
नृपते लाभ पर गोवव ॥ ५९ ॥ अस्माक जैलजीविना
जलमिद् रॉद्धाजिरा जिब्रजे पांतव्य परक्तसक्तमनसा तुसि.
पतीना क्षयः । मत्वैव किल राजदेव नृपते व्यजयैत्रायोत्सवे
मत्सी रोदिति मक्षिका च हसति ध्यायन्ति वामभ्रुवः ॥ ६० ॥
श्रुत्वा सागरवन्धनं दशशिरा सर्वैर्मुखैरेकदा तृणं पृच्छति
वार्तिकान्सचकितो भीत्या पर स्रभ्रमात् । बद्धः सत्यमपानि-
विर्जलनिधिः कीलालधिस्तोयदिः पाथोधिर्जंलधि. पयोधिहरुद्-
धिर्वारांनिधिर्वारिधि ॥ ६१ ॥ पाषाणाः पयसि प्रबद्धवपुष-
स्तिष्ठन्ति सेतु गता. श्रुत्वैवं वदता दशाननधरः क्रुद्धः समुद्रं
प्रति । धिक्त्वा नाम तवाम्बुधिः सलिलविः पानीयधिस्तोयधिः
पाथोधिर्जलधि. पयोविरुदधिर्वारांनिधिर्वारिधिः ॥ ६२ ॥
अम्बा कुप्यति तात मूर्ध्नि विधृता गङ्गेयमुत्सृज्यतां विद्रन्ष-
ण्मुख का गतिर्मम चिर मूर्ध्नि स्थिताया वद । कोपावेर्गध-
शैडिशेशवदनै. प्रत्युत्तर दत्तवान्पाथोधिर्जलधि. पयोधिहरुद्वि-
र्वागंनिधिर्वारिधि. ॥ ६३ ॥ माध्वीके विधुमण्डले वरवधूवक्रे
च गीतान्तरे सक्ते वक्रचतुष्टये दशमुखो विज्ञापिनम्नच्चेरंः ।
बद्धोऽसाविति चेतैर्रभयवशादूचे वच. सञ्जमात्पाथोधि र्जलधिः
पयोथिरुदधिर्वारांनिधिवर्वारिधिः ॥ ६४ ॥ पीतस्त्वं कलशो-
द्भवेन मुनिना ध्वस्तोऽसि देवासुरैरा बद्धोऽसि च राघवेण
मृदुना शौंम्बाम्र्गैर्लङ्घित. । नाम्नामारभटी वृथैव भवतो
लोकैरिय घुष्यते पाथोविर्जलधि पयोथिरुदधिर्वारांनिधिर्वा
रिधि ॥ ६५ ॥ ततुं पर्वतसन्निभेन कपिनौलाब कृता वक्षसि
क्षिप्र वीक्ष्य निमज्जतीमथ तव स्पृष्टास्तगन्ती शिला ।
लोके नृत्यपरे विभीषणजने सीताह सेतूद्यमे तुम्बी मज्जति
सतरन्ति दृषद प्रेतो दिवा नृत्यति ॥ ६६ ॥ त्व नो गोत्र-
पतिस्तवेन्दुरधिपस्तस्यामृतं त्वत्करे तेन व्याधशरग्रह्तां
प्रणयिनीमेना पुनर्जीवय । इत्यूर्ध्व गगने निशापतिमृगे
कारुण्यमातन्वत' शृङ्गाग्रादपतन्मृगस्य रुदतो बाष्पाम्बु
भूमण्डले ॥ ६७ ॥ उन्नादाम्बुदवर्धितान्धतमसि प्रग्रष्ट-
विञ्झण्डले काले यामिकजाग्रदुग्रसुभटव्याकीर्णकोलाहले ।
कर्णस्यासुहृदूर्णवाम्बुवडवावेहेर्यदन्त. पुरादायातासि नदम्बु-
(५०, ५१, ५२, ५३, ५४, ५५, ५६) 'जम्बूवज्जलविन्दुवज्जलजवज्जम्बालवज्जालवत्' इति समस्या (५७, ५८, ५९) 'लाभ परं गोवध' इति समस्या
(६०) 'मत्सी रोदिति मक्षिका च हसति ध्यायन्ति वामभ्रुव' इति समस्या (६१) 'अपानिधिर्जलनिधि कीलालधिस्तोयदि पाथोधिर्जंलधि पयोविरुदधिर्वारांनिधिर्वारिधि' इति समस्या (६२) अम्बुधिसलिलधि पानीयधिस्तोयधि पाथोधिर्जलधि पयोथिरुदधिर्वारांनिधिवारिधि' इति समस्या (६३ ६४, ६५) 'पाथोधिर्जलधि पयोथिरुदधिर्वारांनिधिवर्वारिधि' इति समस्या (६६) 'तुम्बी मज्जति सत्तरन्ति दृषद प्रेतो दिवा नृत्यति' इति समस्या (६७) शृङ्गाग्रादपतन्मृगस्य रुदतो बाष्पाम्बु भूमण्डले' इति समस्या
१ विजयात्रोत्सवे २ चिन्तयन्ति ३ सेतुवन्धम् ४ रावण ५ झटिति ६ वृत्तान्तज्ञापकान् ७ माता ८ मस्तके ९ त्यज्यताम् १० क्रोधपरत्वेन ११ षड्भिर्मुखैरित्यर्थ १२ मर्कटै १३ अलाबुस्तम्बी
१ सिहस्य २ श्रान्तस्य ३ जलैकजीवितानाम् ४ तुरगपङ्किसमूहे .
१८४ सुभाषितरत्नभाण्डागारम् [ ४ प्रकरणम्
जाक्षि कृतकं मन्ये भयं योषिताम् ॥ ६८ ॥ उग्रग्राहसुदु- न्वतो जलमतिक्रामत्यनालम्बने व्योम्नि भ्राम्यति दुर्गमक्षि- तिभृता मूर्धानमारोहति । व्याघ्रं याति विषाकुलैरुहिकुलैः पातालमेकाकिनी कीर्तिस्ते मदनाभिराम कृतकं मन्ये भयं योषिताम् ॥ ६९ ॥ चित्रं नर्तनमम्बरे शिखरिणौ शीतांशु- बिम्बे नमः सञ्चार जलचं कपोतरणितं कामागमप्रक्रिया । मीनौ विद्युति तारका विहरणं ज्योत्स्ना विकोशाम्बुजे कुर्वाते कुरुते करोति कुरुतः कुर्वन्त्यलंकुर्वते ॥ ७० ॥ यस्य द्वारि सदा समीरवरुणौ समार्जनं हव्यवाट् पाक शीतगुरातपत्र- करणं दक्षौ प्रतीहारताम् । देवा लाक्षविधि च दास्यममरा वर्ण्यो दशास्यः कथं कुर्वाते कुरुते करोति कुरुत. कुर्वन्त्य- लंकुर्वते ॥ ७१ ॥ कश्चित्पान्थस्तृषार्तः पथि तपनऋतौ गम्यमानोऽन्यपान्थं पप्रच्छानन्दलीनो वद पथिक कुतो जह्नुकन्याप्रवाहः । तेनासौ शीघ्रवाचा प्रचलितमनसा विप- र्ययेण चोचे सूच्यग्रे कूपषट्कं तदुपरि नगरी तत्र गङ्गा- प्रवाहः ॥ ७२ ॥ राम त्वत्कीर्तिवृक्षाद्बहुतरममलादुत्थिता. कोरका ये तन्मध्ये रुद्ररूपोऽप्यजनि खलु यशःकोरकस्तस्य चाग्रे । अस्य श्रोत्राक्षिकूपास्तदुपरि च शिरश्छत्र चास्ति स्रवन्ती सूच्यग्रे कूपषट्कं तदुपरि नगरी तत्र गङ्गाप्रवाहः ॥७३॥ उद्दामाकींशुदीप्यद्दिनमणिमणिभिर्भत्सितान्ते समन्ता- द्वायुव्याधूयमानज्वलनकणगणाकीर्णधूलिप्रकीर्णे । कान्तारे- ऽस्मिन्प्रपाते पथि पथिकमवे कापि पाथोधसेना(२)सूच्यग्रे कूप- षट्कं तदुपरि नगरी तत्र गङ्गाप्रवाह. ॥ ७४ ॥ मा साक्षी- कृत्य मुग्धे विजयमभिलषेल्लेखयामास शंभोर्मूल्या मन्मौलि- माला सदशेनवशतीमक्षपातान्विजित्य । गौर्याप्यानह्यदृष्टी- र्जितनखनवभूर्स्तन्वि शेषा तदित्थ शीर्षाणा सैव वन्ध्या मैम नवतिरभूल्लोचनानामशीतिः ॥ ७५ ॥ प्रत्येकं दिक्पती- शानिलतपनवसून्सन्नतरस्व यथा भूरश्रोधीस्स्तवं यथा च खरसहितलसन्मूर्च्छनाम्रागमातालात् । कृष्णन्यस्तान्यमौलीक्षण- वदवसरे सा च सा च प्रमादाच्छीर्षाणा शेष वन्ध्या नव- नवतिरभूल्लोचनानामशीतिः ॥ ७६ ॥ इन्द्राद्या लोकपाला हरिविधुतपना नागविद्याधराद्या द्वेष्याः सर्वेऽपि देवाः प्रिय तव वरदः कोऽस्ति वन्द्यो गरीयान् । श्रुत्वा वाच प्रियाया इति दशमुखतः प्राह वाक्यं दशारूः शूली शभुः पिनाकी शिवभवपशुपः शर्व ईशश्च भर्गः ॥ ७७ ॥
प्रहेलिकाः
अपदो दूरगामी च साक्षरो न च पण्डितः । अमुखः स्फुटवक्ता च यो जानाति स पण्डितः ॥ १ ॥ व॑ने जाता व॑ने त्यक्ता वने तिष्ठति नित्यशः । पंण्यस्त्री न तु सा वेश्या यो जानाति स पण्डितः ॥ २ ॥ गोर्पालो नैव गोपालस्त्रीशूली नैव शंकरः । चक्रपाणिः स नो विष्णर्यो जानाति स पण्डितः ॥ ३ ॥ उच्छिष्टं शिव- निर्माल्यं वमन शवकर्पटम् । काकविष्ठासमुत्पन्न. पञ्चैतेऽति- पवित्रकाः ॥ ४ ॥ अनेकसूँषिरं वाद्यं कोन्तं च ऋषिमन्त्रि- तम् । चक्रीणा च सदारार्ध्यं यो जानाति स पण्डितः ॥ ५ ॥ वने वसति को वीरो योऽस्थिमांसविवर्जितः । असिवत्कुरुते कार्य कार्य कृत्वा वन गतः ॥ ६ ॥ रविजा शशिकुन्दाभा तापहारी जगत्प्रिया । वर्धते वनसङ्गेन न तापि यमुनापि न ॥ ७ ॥ त॑रुण्यालिङ्गितः कण्ठे नितम्बे- स्थलमाश्रित. । गुरूणा सन्निधानेऽपि कः कूजति मुहुर्मुहुः ॥ ८ ॥ अवलोक्य स्तनौ वध्वा गुञ्जाफलविभूषितौ । निःश्वस्य रोदितुं लग्ना कुतो व्याधकुटुम्बिनी ॥ ९ ॥
(७७) 'शूली शभु' पिनाकी शिवमवपशुपा शर्व ईशश्च मर्ग. इति समस्या
१ लेखपत्रम्. (२) नौका (३) महोक्ष (४) दुग्ध गङ्गा मधु पट्टा-म्बरं पिपलक्ष (५) वल्मीकम् (६) कुलालदोरक (७) तक्रम् (८) कलश (९) शबरस्त्री पुत्रजायाया स्तनौ गुञ्जाफललङ्कृतौ दृष्ट्वा कुतो निश्वस्य रुरोद यतो मत्पुत्र एतामनुरक्तस्तथा क्षीणतां गतो यथा गजान्विनिहत्य तद्गण्डस्थलमुक्ताफलहारे स्तनौ विभू-षयितु नाल्म्, अतोऽतिप्रयासालभ्यैर्गुञ्जाफलैर्विभूषयति क्षीणे च सति पुत्रे तर्जितधननिर्वाह्यवृत्तिकस्य सर्वस्यापि कुटुम्बस्य जीवितसदेह अतो व्याधकुटुम्बिनी दु खात्रिःश्वस्य रोदितु लग्ना
(६८, ६९) 'कृतक मन्ये भय योषिताम्' इति समस्या (७०, ७१) 'कुर्वाते कुरुते करोति कुरुत कुर्वन्त्यलंकुर्वते' इति समस्या (७०, ७२, ७४) 'सूच्यग्रे कूपषट्क तदुपरि नगरी तत्र गङ्गाप्रवाह ' इति समस्या (७५ 'शीर्षाणा सैव वन्ध्या मम नवतिरभूल्लोचनानामशीति' इति समस्या (७६) 'शीर्षाणा शेष वन्ध्या नव नवतिरभूल्लोचनानाम-शीति' इति समस्या
१ निदाघे २ १९२० इति संख्या. ३ सहस्रशिरसो द्विसहस्रा-क्षस्य स्वभार्या प्रति गौरीगिरीशद्यूतक्रीडोपन्यास .
१ अरण्ये काष्ठरूपेणोत्पन्ना २ उदके. ३ मूल्य दत्वा भोग्या स्त्री गणिका यथा द्रव्यदानेन भोग्या तथैयमपीत्यर्थ ४ धेनूनां पतित्वात्पालक . ५ तसत्रिशूलाङ्कितत्वात्तच्चिह्नवान्- ६ बार्हो तसच-क्राङ्कितत्वात्तच्चिह्नवान् ७ बिलम् ८ वकार आद्यो यस्य ९ कका-रोऽन्ते यस्य १० सर्पेण ११ रविरिति महाराष्द्रभाषाया मन्या-नदण्टस्य नाम १२ कुम्भ कूपसरोवरादौ जलेन भृत्वा शिरस्सा-रोपणसमये तरुण्या हस्तारभ्यामालिङ्गयते भर्तापि तरुण्या सोत्कण्ठ-मालिङ्गयते. १३ कुम्भो नितम्बस्थाने गृह्यते भर्तापि नितम्बस्थाने गुह्यप्रदेशे तिष्ठेत् १४ कुम्भो गुरूणा वृद्धघयानामुपर्युपविश्य कूजति बडबडायते. भर्तापि गुरूणा मातृपितृश्वश्रूश्वशुरजनानामग्रे स्विद्य कामयते. १५ शब्दं करोति
इस पृष्ठ पर कोई पाठ (text) दिखाई नहीं दे रहा है; यह पृष्ठ पूर्णतः रिक्त (blank) है।
१८६ सुभाषितरत्नभाण्डागारम् [ ४ प्रकरणम्
शृङ्गेश्वरो दोषानिष्टकरो न धर्मनिरतः कीलालपो नासुरः । नृणां पृष्ठपलाशनो न पिशुनः शीतांगमो नो हयः शश्वद्रात्रि- चरो न राक्षसगणः कोऽयं सखि ब्रूहि मे ॥ ३७ ॥ सर्व- स्वापहरो न तस्करगणो रक्षो न रक्ताशनः सर्पो नैव बिले- शयोऽखिलनिशाचारी न भूतोऽपि च । अन्तर्धानपटुर्न सिद्ध- पुरुषो नाप्याशुगो मारुतस्तीक्ष्णास्यो न तु सायकस्तमिह ये जानन्ति ते पण्डिताः ॥३८॥ जाता शुद्धकुले जघान पितरं हत्वापि शुद्धा पुनः स्त्री चैषा वनिता पितैव सततं विश्वस्य या जीवनम् । सङ्गं प्राप्य पितामहेन जनकं प्रसूत या कन्यका सा सर्वैरपि वन्दिता क्षितितले सा नाम का नायिका ॥३९॥
अपह्नुतयः
वदन्ती जारवृत्तान्तं पत्यौ धूर्ता सखीधिया । पतिं बुद्ध्वा सखि ततः प्रबुद्धास्मीत्यपूरयत् ॥१॥ रुचिरस्वरवर्णपदा रस- भाववती जगन्मनो हरति । तत्किं तरुणी नहि नहि वाणी बाणस्य मधुरशीलस्य ॥ २ ॥ सीत्कारं शिक्षयति व्रणत्यधरं तनोति रोमाञ्चम् । नागरिकः किं मिलितो नहि नहि सखि हेमन्तः पवनः ॥ ३ ॥ काले पयोधराणामुपतितया नैव शक्यते स्थातुम् । उत्कण्ठितासि बाले नहि नहि सखि पिच्छिलः पन्थाः ॥ ४ ॥ प्रहरति न पञ्चबाणः केवलमबले निमेषोऽपि । वर्षति परं न देवः क्षणदायी विप्रयोगं ते ॥ ५ ॥ मधुरखना धृतोर्णी भण्याभरणा सुशोभना सुदती । मस्त्व- ङ्गोत्थितदण्डा भिक्षो दयितास्ति किं न मे वीणा ॥ ६ ॥ रागी भिनत्ति निद्रां तल्पं न जहाति निष्ठुरं दशति । चतुरे किं प्राणेशो नहि नहि सखि मत्कुणव्रातः ॥ ७ ॥ आदौ गृहीत- पाणिः पश्चादारूढजघनकटिभागा । नखमुखलालनसुखदा सा किं रामास्ति नैव भोः पौमा ॥ ८ ॥ नाथ विलोकय मेघं नहि नहि दायं तथातिपुण्यायाः । नहि कथयामि पयोधरमपसारय कञ्चुकीमुरसः ॥ ९ ॥ पञ्चदशीरजनिसमा तारामणिभूषणापि शोभितवपुः । चन्द्रसमा गतवसना हस्तगता स्त्री न मे वीणा ॥ १० ॥
नाथ मयूरो नृत्यति तुरगाननवक्षसः कथं नृत्यम् नहि कथयामि कलापिनमिह सुखलापी प्रिये कोऽस्ति ॥११॥ अक्षरमैत्रीभाजः सालंकारस्य चारुवृत्तस्य । किं ब्रूमो सखि यूनो नहि नहि सखि पद्यबन्धस्य ॥ १२ ॥ इह पुरोऽनिलकम्पित- विग्रहा मिलति का न वनस्पतिना लता । स्मरसि किं सखि कान्तरतोत्सवं नहि घनागमरीतिरुदाहृता ॥ १३ ॥ तन्वी चारुपयोधरा सुवदना श्यामा मनोहारिणी नीता निष्करुणेन केनचिदहो देशान्तरादागता । उत्सङ्गोचितया तया रहितया किं जीवनं प्रेक्षसे भिक्षो ते दयितास्ति किं नहि नहि प्राण- प्रिया तुम्बिका ॥ १४ ॥ या पाणिग्रहलालिता सुसरला तन्वी सुवंशोद्भवा गौरी स्पर्शसुखावहा गुणवती नित्यं मनोहा- रिणी । सा केनापि हृता तया विरहितो गन्तुं न शक्तोऽस्म्यहं रे भिक्षो तव कामिनी नहि नहि प्राणप्रिया यष्टिका ॥ १५ ॥
कूटानि
केशवं पतितं दृष्ट्वा द्रोणो हर्षमुपागतः । रुदन्ति कौरवाः सर्वे हा केशव कथं गतः ॥१॥ पानीयं पातुमिच्छामि त्वत्तः कमललोचने । यदि दास्यसि नेच्छामि नो दास्यसि पिबाम्यहम् ॥ २ ॥ विषं भुङ्क्ष्व महाराज खजनैः परि- वारितः । विना केन विना नौभ्यां कृष्णेनाजिनमर्कण्टकम् ॥ ३ ॥ अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः । सीदन्ति मम गात्राणि माघमा सेगवा इव ॥ ४ ॥ यस्य षष्ठी चतुर्थी च विह्वस्य च विहाय च । अहं कथं द्वितीया स्याद्वितीयां स्यामहं कथम् ॥ ५ ॥ समरे हेमरेखाङ्गं बाणं मुञ्चति राघवे । सरावणोऽपि सुमुचे मंध्येरीतिधरं शरम् ॥ ६ ॥ शिलार्पितपदद्वन्द्वा नासार्पितकरद्वया । अभू- द्यक्तस्तनी नारी कथमेतद्भविष्यति ॥ ७ ॥ सुवर्णस्य सुर्व-
(३७, ३८) मत्कुणः.
(३९) जलवृष्टिः. यतः सा शुद्धजलसमुदाय-रूपेणोत्पद्य स्वजन्मना स्वोत्पादकं मेघं विनाशयति, तथापि स्वयं शुद्धा सच्छीलास्ति. पितुरिव समस्तस्य जगतो जीवनं च भवति. सूर्यकिरणैः समुद्रोदके शोषिते सति तस्मान्मेघोत्तिर्भवतीति समुद्रो मेघपिता. सा पूर्वोक्ता जलवृष्टिर्मेघस्य पित्रा स्वपितामहीभूतेन सागरेण सह सङ्गादिद्वारा संगतं प्राप्य तेन तज्जलं वर्धयित्वा पुनर्मेघोत्पत्त्य एव हेतुर्भवतीति जनकं प्रासूतेत्यस्याभिप्रायः.
१ हेकस्तनवन्ती
२ पतिं विना; पक्षे,-पतनाभावेन.
३ पङ्किलः.
४ कुचोपोद्विदस्ता पक्षे, - कुचोर्ध्वदण्डा.
५ शोभना दन्ता यस्याः सा; पक्षे,-हस्तित्वनखनिर्मितालंकारवती.
६ अनुरक्तः; पक्षे,-रक्तवर्णः.
७ कण्डू रोगा.
८ अभ्रदम्; पक्षे,-नेदं पापम्.
९ मेघम्; पक्षे,-स्तनम्.
१० 'मे उरः' इति पदच्छेदः.
११ समीपे स्थातुं योग्याया; पक्षे, - अङ्कमारोढुं योग्याया.
१२ विवाहः; पक्षे, - पाणौ धारणम्.
१३ कुलम्; पक्षे,-वेणुः.
१४ जले.
१५ मृतकम्.
१६ कृष्णकाकः.
१७ शृगालाः.
१८ यदि दासी असि नेच्छामि. नो दासी असि तदा पिबाम्यहमिति पदच्छेदः.
१९ विगतः षकारो यस्मात्.
२० ककारेण विना.
२१ नकारद्वयरहितम्.
२२ कृष्णाजिनम्. अत्र ककार-षकार-नकाराणां निष्कासने 'ऋ आजि अम्' इति स्थिते संधी कृते 'राज्यम्'.
२३ शरुरहितम्.
२४ 'माघमा कर्कटी प्रोक्ता तदपत्यानि सेगवाः' इत्युक्तेः कर्कट्या अपत्यानि यथा जन्मसमये तस्या अङ्गानि विदार्य बहिर्यान्ति तद्वदिमे बाणा ममाङ्गानि विदारयन्तीत्यर्थः.
२५ सहधर्मिणी.
२६ मध्यमभागे रीतिः पित्तलं तद्विशिष्टम्; पक्षे, मध्ये रीकारविशिष्टं शरम्. शरीरमित्यर्थः.
२७ 'अधस्ताद्धारुणि शिला'.
२८ 'नासा दारूपरि स्थितम्'.
२९ उज्ज्वलवर्णस्य.
३० शोभनावर्णा नामाक्षराणि यत्र तस्य.
| कूटानि | १८४ |
|---|
| $^{१}$र्णस्य $^{२}$सुवर्णस्य च जानकि । प्रेषिता तव रामेण $^{३}$सुवर्णस्य<br>च मुद्रिका ॥ ८ ॥ निश्चितं $^{३}$सैसुरं कोडपि न $^{४}$कुलीनं ममे-<br>$^{५}$ऽमतिः । सर्वथा $^{६}$सुरसंबद्धं काव्यं यो नाभिनन्दति ॥ ९ ॥<br>येनाकारि $^{८}$पराभूतिर्दिननायकसूनवे । यद्गोत्रोत्समभवाकान्त<br>तन्महं श्रेयसेऽस्तु व ॥ १० ॥ $^{११}$विजितात्मभवद्वेषिगुरु<br>पादहतो जनः । हिमापहामित्रधैर्य्यासं व्योमाभिनन्दति<br>॥ ११ ॥ $^{१३}$शंकरं पतितं दृष्ट्वा पार्वती हर्षनिर्भरा । रुरुदुः<br>पन्नगाः सर्वे हा हा शंकर शंकर ॥ १२ ॥ हनूमति $^{१५}$हता-<br>रामे वानरा हर्षनिर्भरा । रुदन्ति राक्षसाः सर्वे हा हा राम<br>हता हता ॥ १३ ॥ $^{१६}$विहंगराजपुत्रारेर्यन्नाम चतुरक्षरम् ।<br>पूर्वार्धं तव शत्रूणा परार्धं तव संगरे ॥ १४ ॥ $^{१७}$अट्टशूला<br>जनपदा शिवशूलाश्चतुष्पथाः । प्रमदा केशशूलिन्यो<br>भविष्यन्ति कलौ युगे ॥ १५ ॥ कुन्दकुङ्कमसु पश्य सरसी-<br>रुहलोचने । $^{१८}$अर्मुना कुन्दकुङ्केन मखि मे किं प्रयोजनम्<br>॥ १६ ॥ राजन्कमलपत्राक्ष तत्ते भवतु चाक्षयम् ।<br>आसादयति यद्रूपं $^{१९}$करेणु करणाविना ॥ १७ ॥ $^{२०}$स्तनमण्डल-<br>माश्रित्य नभस्य वरयोषिताम् । कदाकर्ण्यते गीतं रमया<br>सह रङ्गराट् ॥ १८ ॥ $^{२१}$एकोना विंशतिः स्त्रीणा स्नानार्थं | सर्यू गता । विंशति पुनरायाता एको व्याघ्रेण भक्षितः<br>॥ १९ ॥ $^{१}$नैलोके न्योपमनस्याः सम्ने किमिति भाषसे ।<br>अनन्तरा सा नादिर्वा न तृतीयेति मे मतिः ॥ २० ॥<br>$^{२}$सुवर्णालंकृता कन्या हेमालंकारवर्जिता । $^{४}$सा कन्या विधवा<br>जाता गृहे गेदिति तत्पति ॥ २१ ॥ अह च त्व च<br>राजेन्द्र लोकनाथावुभावपि । बहुव्रीहिगहं राजन्षष्ठीतत्पुरुषो<br>भवान् ॥ २२ ॥ $^{६}$अप पिबन्प्रपापालीमनुरक्तो विलोकयन् ।<br>अगस्त्यं चिन्तयामास चतुरः मापि सागरान् ॥ २३ ॥<br>ब्रह्म नान्तमपि क्लीव मन सान्तं न पश्यति । किं चित्र<br>लोकजनक वाङ्कान्ता $^{१०}$नैव्वकान्तकम् ॥ २४ ॥ $^{११}$अर्धरात्रे<br>दिनस्यार्धे अर्धचन्द्रेऽर्धभास्करे । रावणेन हता सीता<br>कृष्णपक्षे मिताष्टमी ॥ २५ ॥ $^{१२}$शमीगर्भस्य यो गर्भस्तस्य<br>गर्भस्य यो रिपुः । रिपुगर्भस्य यो भर्ता स मे विष्णु<br>प्रसीदतु ॥ २६ ॥ $^{१३}$कैहमस्मि गुहावक्ति प्रश्वेऽस्मुष्मिन्कि-<br>मुत्तरम् । कथमुक्त न जानासि कदर्ययसि यत्सखि ॥ २७॥<br>विहंगों $^{१४}$ वाहन येषां त्रिकचक्रैधरपाणयः । $^{१६}$पमालासहिता<br>देवाः सदा तिष्ठन्तु ते गृहे ॥ २८ ॥ शस्त्रं $^{१७}$ नै खलु कर्तव्य- |
| १ अशीतिरक्तिकापरिमितस्य २ काञ्चनस्य ३ सुरया सहितं मद्यप इत्यर्थः, पक्षे,-ससुर इति पदच्छेदे सुरो देव ४ मत्कुलप्रभूतं , पक्षे, -कोलीन ५ ममे सावौ अमति श्रद्धादहित इति यावत्, पक्षे,-ममे विष्णौ मतिर्यस्य म ६ शोभनरसविशिष्ट बद्ध ग्रथितम्, पक्षे,-असुरे मद्यड युक्तम् ७ कविसुतिम, पक्षे,-शुक्रम् ८ परार्य्य, पक्षे,-परा उत्कृष्टा भृतिरैश्वर्यम ९ कर्णाय सुग्रीवाय यमाय व १० गाखायन्ते ते गोपास्तेषामात्मभवा गोपिकास्तासा कान्त मनोरम् अथ च गोत्राया पृथ्व्या जात्मभवा सीता मा कान्ता यस्य तत् अथ च गोत्रस्य हिमालयस्यात्मभवा पार्वती मा कान्ता यस्य तत् ११ कृष्णाय रामस्य शिवाय च १२ विना गरुडेनामृतानहरणसमये जित इन्द्रस्तस्यात्मवोऽर्जुनस्तद्वेषी कर्णस्तडुरु पिता सूर्यस्तत्पादहस्ततत्किरणस्तप्त हिमापहोऽग्निस्तदमित्र पानीय तडरो मे सूर्यकिरणसतप्तो जनो मेधाच्छन्नमाकाशमभिनन्दतीति तात्पर्यार्थ १३ श्रेष्ठचन्दनम् १४ पर्वतवासिनी स्त्री भिल्ली १५ हते जारा मे रावणस्योद्याने दाहिते सतीत्यर्थ १६ वय पक्षिणस्तेषा राजा गरुडस्तद्वाना विष्णुस्तत्पुत्रो मदनस्तदरि शिवस्तस्य चतुरक्षर नाम 'मृत्युजय' इति तत्पूर्वार्ध मृत्युरीति सगरे तव शत्रूणाम् उत्तरार्ध जय इति तव १७ 'अष्टमञ्च शिवो वेदो ब्राह्मणश्च चतुष्पथ । केगो भग इति प्रोक्त शूलो विक्रय उच्यते ॥' इति १८ मुकाररहितेन मुकुन्दकुञ्जेनेति यावत् १९ करेणु कर शैविना ककार रेफ णकारैर्विना यद्रूपमासादयति प्राप्नोति तत्तेऽक्षय भवत्वित्यन्वय उक्तव्यञ्जनत्रयरहितम् 'अ उ इ' इति स्वरत्रयम् तत्र अ इ इत्यत्र वृद्धौ ऐ उ इत्यत्र आयादेशे 'आयु' इति सिद्धम् २० खस्याकाशस्य मण्डलमाश्रित्य हे कद मेघ' मा स्तन गर्जितं मा कुरु यतो रङ्गराड्रङ्गनाथो रमया सह वरयोषिता गीतमाकर्णयत इत्यन्वय २१ एकोना इति विंशतेर्विशेषणेन विरोधः एको ना नरः इति पदच्छेदेन परिहार. | १ कश्चित्स्वनायिका स्तौति न प्रति अन्या प्रतिभाषते हे सखे ' एतस्यास्त्रैलोक्ये उपमा नास्तीति किमिति कुतो भाषसे यत मा उपमैव अनन्तरा मध्यवर्णरहिता उमेति यावत् अथवा नैव उमा अनादि आद्यवर्णरहिता मा लक्ष्मीरिति यावत् उपमा उपमानमस्तीति भाव तृतीया नास्तीति मे बुद्धि २ सुसुवर्णेन कान्त्यालकृता ३ विशुदित्यर्थ ४ विविधा धवा पतयो यस्या सा कुलटेत्यर्थ ५ बहुव्रीहिपक्षे, -लोका जना नाथा स्वामिनो यस्यैवंविधोऽहम याचकत्वात् षष्ठीतत्पुरुषपक्षे,-लोकाना जनाना नाथ एवविधम्त्वम राजत्वेन पालकत्वात् ६ समुद्रमपि करे चुलुकयतो मुने सामर्थ्य मम चेत्स्यात्तर्हि झटिति तुष्टशान्त्यभावाच्चिरमेना पश्यामीति पान्थाभिप्राय यदि चतुर सागरा संनिहिता स्युस्तदानवरत जलधारा विसृजन्ती विरमेत्तद्दर्शनसुखमनुभवेयमिति प्रपापाव्यभिप्राय ७ न विद्यतेऽन्तो यस्य तत्, पक्षे,-नकारान्तम् ८ अन्तेन सहितम्, पक्षे,-सकारान्तम् ९ ककारोऽन्ते यस्या, पक्षे,-कान्ता रमणी १० अकस्य दु खस्यान्तक नाशकम्, पक्षे,- ककारान्तं न भवतीति तत् सान्त मनो नान्त ब्रह्म न पश्यतीनि युक्तमेव पर स्वय कान्ता वाक् अकान्तकमपि लोकजनकत्वात्कान्त ब्रह्म नैतीति चित्रमिति भाव ११ कृष्णपक्षे,- याष्टमी तस्य दिनस्यार्धे रावणेन सीता हता किल्लक्षणाष्टमी ? अर्धरात्रे सिता पु० कि० अर्धचन्द्रे किभूतेऽर्धचन्द्रे अर्धे भा करोति अर्धभास्करस्तस्मिन् १२ शम्याः शमीवृक्षस्य गर्भोऽन्तः सारस्तस्य गर्भोऽग्निस्तन्मन्थनेनोद्भवमानत्वात्, तस्याग्ने रिपुर्जल तद्गर्भो लक्ष्मीस्तस्या सागरमथनेन जलजातत्वात् तस्या भर्तेत्यादि शमीगर्भपदेन अश्वत्थ इत्यपि केचित् तदापि सुवर्णं अश्वत्थस्यापि वह्नियोनित्वात् १३ कहमित्यत्र कथ 'खधथधभास्' इति कात्यायमसूत्रेण प्राकृते थकारस्थाने हकार १४ वि गरुड, हंस, गोः वृषभ १५ त्रिशूलः, कम्बुः चक्रम् १६ पार्वती, सावित्री, लक्ष्मी० १७ नखान् लुनातीति नखलु नखच्छेदकम्. |
१८८ सुभाषितरत्नभाण्डागारम् [ ४ प्रकरणम्
मिति पित्रा नियोजितः । तदेव शश्वं कृतवान्पितुराज्ञा न लङ्घिता ॥ २९ ॥ कान्ते धावय मे पादाविति भर्त्रा निवेदिता । न तया धावितौ पादौ भर्तुराज्ञा न लङ्घिता ॥ ३० ॥ दैवराजो मया दृष्टो वारिवार्णमस्तके । भक्षयित्वार्कपर्णानि विषं पीत्वा क्षयं गतः ॥ ३१ ॥ र्कुमारसम्भवं दृष्ट्वा रघुवरं मनोऽदधत् । राक्षसानां कुलश्रेष्ठो रामो राजीवलोचनः ॥ ३२ ॥ विना यौवनमार्गणे गच्छन्तौ लपितं मया । हरे कृत्यं दर्शयता पश्यत्युक्ते न दृश्यते ॥ ३३ ॥ विनायकपतेः शत्रुस्तस्य नाम षडक्षरम् । पूर्वार्धे तव राजेन्द्र उत्तरार्धं तु वैरिणाम् ॥ ३४ ॥ कोलाकृतिरपारेवो मोरोहसो जलोदरी । कंसारिरात्तलीलो वो वाघलो भूकलोऽवतु ॥ ३५ ॥ रामेण मेडतिरामेऽतिरामे रामे मनोरमे । सहस्रनामतुल्यं रामनाम वरानने ॥ ३६ ॥ यथा नयति कैलास नगं गानसरस्वती । तथा नयति कैलास न गङ्गा न सरस्वती ॥ ३७ ॥ मोर्मोरामममादंद्वेहयागदलनमष । यस्यैतानि न विद्यन्ते स याति परमां गतिम् ॥ ३८ ॥ तातेन कथितं पुत्र लेखं लिख ममाज्ञया । न तेन लिखितो लेखः पितुराज्ञा न लोपिता ॥ ३९ ॥ वासनावासुदेवस्य वासितं भुवनत्रयम् । सर्वभूतनिवासीना वासुदेव नमोऽस्तु ते ॥ ४० ॥ अँत्रिलोचनसम्भूतज्योतिरुद्गमभासिभिः । सदृशं शोभतेऽत्यर्थं भूपाल तव चेष्टितम् ॥ ४१ ॥ मुद्गदाली धृतव्याली कवीन्द्र विदुषा कथम् । भक्तवल्लभसंयोगाज्जाता विगतकञ्चुकी ॥ ४२ ॥ श्रोणभ्राद्विष्णुधामाप्य विषमाश्रः करोत्ययम् । निद्रां महस्रपर्णानां पलायनपरायणाम् ॥ ४३ ॥ कँति ते कबरीभारः सुमैर्नःसङ्गात्प्रियेऽदित ११ नीलत्वात् । भवति च कैलापवत्त्वान्निर्र्जरसेव्यैः कथं न स्यात् ॥ ४४ ॥ यामि विधौवद्युदिते पुनरेष्यामीति यदुदितं भवता । जानँत्युदन्तमैतं नेढ तैनैचेन मुग्धवधूः ॥ ४५ ॥ अँधुना मँधुकरपतिना गिलितोऽप्येपकारदंपती येन । त्रातः स पालयेत्स्वा
१ नतया नम्रीभूतेन २ हे देवर ' अजश्छाग ३ सेतु ४ पानीयम् ५ वास ६ रघुवंशे कुलश्रेष्ठो राजीवलोचनो रामो राक्षसानां कु पृथिवीं मारयति पीडयतीति कुमार पृथ्वीपीडक इति यावत् तादृशं सम्भवमुद्भवं दृष्ट्वा तत्र तेषां नाशे मनोऽदधत् निश्चिकायेत्यर्थ ७ वौ विना पक्षिणा गरुडेन वाहनेन वनमार्गेण जलमार्गेण क्षीराब्धाविति यावत् गच्छन्तौ स्तः, अत्र वाक्ये मया लक्ष्म्या सहितस्य हरेर्विष्णो कृत्यं लपितं प्रोक्तमस्ति, परं दर्शयता दर्शनं कारयन्ति नैषामत्र पश्यत्युक्ते सत्यपि अविमृशङ्गिस्तत्कृत्यं न दृश्यते न ज्ञायते ८ वीना पक्षिणा नायको गरुडस्तस्य पतिर्विष्णुस्तस्य ९ 'हिरण्यकशिपु' इत्यथ १० हिरण्यं सुवर्णम् ११ कशिपुस्तल्पम् तव शत्रवो निद्रिता भवन्त्विति भाव १२ कुमारि श्रीकृष्णो वो युष्मानवतु रक्षतु कथंभूतं कुमारि ? कोलाकृति, कोलकस्य सूकरस्य रूपं यस्य स पु० क०, अपारेव अपारे समारे अवति रक्षति तथा यद्वा,-अपारे समुद्रे बसतीति क्षीरम, मसुद्रशायीत्यर्थ पु० क०, मोरोहस माया लक्ष्म्या उरो वक्षस्तत्र हस इव हस पु० क०, जलोदरी जले उदके उदरं गृहं यस्यास्तीति स पु० क०, आत्तलील आत्ता अङ्गीकृता लीला विलासो येन स पु० क०, वाघल वा निश्चयेन अघं लुनातीति स पु० क०, भूकल भुवं कलयति उद्वरतीति स १३ हे वरानने ! अह रामे अतिरमे कर्मभूते रामे अतिरामे अतिक्रान्ता रामा येनासौ तस्मिञ्छुद्दे ब्रह्मणि पु० क०, मनोरमे मनो रमयतीति तस्मिन् कथंभूत अहम् ? रामरा' राम एव रा द्रव्यं यस्य स यत कारणान्मे मम सहस्रनामभिस्तुल्यं रामनाम अत इति कारणात् । अथवा अह रामे अतिरमे कथंभूते रामे ? वरानने वरमानन यस्यासौ तस्मिन् उत पार्वत्या सबोधनं वा कथभूत रामनाम ? सहस्रनामतत् सहस्रनाम तनोतीति सहस्रनामतत् 'रमन्ते योगिनो यत्र परानन्दे चिदात्मनि । अतो रामपदेनासौ पर ब्रह्माभिधीयते ॥' इति १४ गानसरस्वती यथा कैलासं नगं नयति तथा न गङ्गा न सरस्वती प्रापयति १५ मोहः माया रागः मदः मलः मानं दम्भः द्वेष इति प्रथमाक्षराक्रमेण ग्रहणम्
१ नतेन नम्रीभूतेन २ हे वासन वामयतीति बामनस्तस्य सबुद्धौ त्वं भुवनत्रयं अव रक्ष पालय कथंभूतं भुवनत्रयम् सर्वभूतनिवासि सर्वाणि भूतानि निवसन्त्यस्मिंस्तन् हे असुदेव प्राणेश्वर ! इना कामा दीना वासितं स्य अन्त कुरु हे वासुदेव ! ते तुभ्य नम अस्तु ॥ अथवा अस्तुवे न स्तौतीति अनुत् तस्मै स्तोतुमशक्याय वसुभिदीयतीति वासुदेव' तस्य सबुद्धौ हे वासुदेव ! अथवा वसुदेवशन्दितं शुद्धं सत्व तत्र भवो वासुदेवस्तस्य सबुद्धौ ते तुभ्य नम अस्तु असून्द्रातीति असुदेव, यद्वा, असूना देव असुदेव हे असुदेव ॥ गणेशपक्षे,-हे सर्वभूतनिवासीन सर्वभूतै मह निवासकारी रुद्र नश्न्न पितृत्वान्स्वामी यस्येति तथोक्तस्तथा हे अम्बासुद ! अम्बा पार्वती माता तस्यै सुख ददाति तथोक्त' हे पार्वतीनन्दनेत्यर्थ तथा हे इव ३ महीं वाति भक्ताननुग्रहीतु आप्नोतीति तत्संबुद्धौ ते तुभ्य नमो नतिरस्तु त्व भुवनत्रयं त्रिलोकीं अवसि पालयसि कथभूतं भुवनत्रयम् ? अवासितम् वास आश्रयो जातो यम्येति वासितम्, न वासितं अवासितम् निराश्रमित्यर्थ कया अवसि ? वास एवाश्रय एव नौ दु खसागरतरणाय हेतुभूता तरी तया कि०, सुदे शोभनप्रदे वरदानपरायणे वरदसमूहे अग्रे इति शेष' ॥ हरिपक्षे,-हे इन स्वामिन् ! तथा हे अम्बासुद अम्बावन्मातृवत् सु शोभनं ददातीति हे तथोक्त तथा हे इव इं लक्ष्मीं वाति प्राप्नोति म इव तत्सबुद्धौ यद्वा,-हे अम्बासुदेव इत्येक सबोधन पदम् अम्बा माता असुद प्राणदाता पिता कथ्यते तयैव लक्ष्मीं वानि प्राप्नोतीति हे तथोक्त जगता मातृत्वं पितृत्वं वेति सबोधनाभिप्राय ते नमोऽस्तु ३ चन्द्रविकांसिभिः कुमुदैरित्यर्थः ४ जलदे भ्राजमान ५ आकाशम् ६ सप्ताश्व, सूर्य इत्यर्थे ७ संकोचम् ८ पद्मानाम् ९ क इव ब्रह्मेव आचरति १० पुष्पाणाम्, पक्षे,-देवानाम् ११ अ इव विष्णुरिवाचरति. १२ भव इव शिव इवाचरति-१३ कलापो भूषण तद्वत्त्वात्, पक्षे,-कलापश्चन्द्रस्तद्वत्त्वात् १४ जरारहितैस्तरुणै सेव्यः, पक्षे,-निर्जरैर्देवैः सेव्य.. १५ दैवे; पक्षे,-चन्द्रे १६ वृत्तान्तम्; पक्षे,-उकारान्तम् १७ इद तत्त्वेन सत्यत्वेन-पक्षे,-इदन्तत्वेन इकारान्तत्वेन. १८ अपगतो शुकारो यस्मात्तेन. १९ मधुकरपतिर्भ्रमरपतिस्तेन. २० पकारशून्यो दंपती दन्तीत्यर्थः.
| कूटानि | १८९ |
|---|
विगतविकारो विनायको लक्ष्म्याः ॥ ४६ ॥ उपरिगतं हि सवर्णं हत्वा करतो ददासि रन्तुं मे। धन्यः सरोजयुगलं त्यक्त्वा स्तनयुगमथाऽस्पृशत्कृष्णः ॥ ४७ ॥ अँच्युतभक्तिवशादिह समभावस्तत्प्रमङ्गेन । सारमतेरभ्युदयति रतिरिति नैवाद्भुतं किंचित् ॥ ४८ ॥ मंञ्जुलधौ सभाविंतगुणे क्वचिन्नापदाधारे । अयि सखि तत्रोपपत्तौ मम चेतो न त्वनीदृशे पत्यौ ॥ ४९ ॥ अयि॑ सखि शस्तः सखिवत्पतिरिति किं त्वं न जानासि । शस्तोऽतिसखिवदुपपतिरित्यालि कथं स्वयापि नाबोधि ॥ ५० ॥ द्व॑न्द्वो द्वि॑गुरपि चाहं मद्गेहे नित्यमव्ययीभावः । तैत्पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः ॥ ५१ ॥ त्वंद्दिरहममहमाना निन्दति बाला दिवा- | निशं शंसुम् । राहुमपि रामचन्द्रं रामानुजमपि च पन्नगारातिम् ॥ ५२ ॥ स जयति चित्रचरित्रो यस्य हि वैरचरणपुष्करकरेणुः । महिषीमृषिसिंहस्य प्राजीजनदपि वृषोदये हेतुं. ॥ ५३ ॥ रविसुतकृतगोकर्णं श्रुतिविषयगुणाम्बरो वनात्मधरः । नरकशिर्रा जगदखिलं चिरमव्याद्समंरुकपाणिः ॥ ५४ ॥ स्रायकसहायबाहो म॑ण्डूरध्वर्जानेयमितक्षमाधिपते । अब्जुरुचिभास्वरस्ते भातितरामवनिपे-श्लोकः ॥ ५५ ॥ वौताच्छीतिररिप्रोऽर वो हरतान्महासुरीदयितः । व्रीडनाज्यानौका वावीहाभोऽसमस्नानाः ॥ ५६ ॥ लम्बोदर तव चरणावादरतो यो न पूजयति । स भवति विश्वौमित्रो दुर्वासा गौत॑मंश्चेति ॥ ५७ ॥ अ॑म्बरमम्बुनि पत्रमरातिः पीतमहीनगणस्य ददाह । यस्य वधूरतन्वयं गृहम्बजा पातु स वो हरलोचनवह्निः ॥ ५८ ॥ वैायुमित्रसुतबन्धुवाहनासतिभूषणशिरोवलम्बिवी । तज्जैवैरिभगिनीपतेः सखा पातु मा कमलोचनो हरि ॥ ५९ ॥ अॅर्तवुज्वरपीडितासि बाले तव सौख्याय मतो ममोपैयासः । रैसेमर्पय वैद्यनाथ नाहं भवदावेदितलॅङ्घने समर्था ॥ ६० ॥ अंकुबेरपुरीविलोचनं न धैरांसूनुकरं कदाचन । अथ तन्मतिकारहेतवेऽर्थमयंन्तीपतिलोचनं भज ॥ ६१ ॥ राम सीता लक्ष्मणं जीविकार्थे विक्रीणीते यो नरस्तं च धिग्धिङ्कू । अस्मिन्यद्ये योऽपशब्दान् वेत्ति व्यर्थप्रज्ञं पण्डितं तं च
१ विगतो विकारो यस्मात्म विनायक, नायक इत्यर्थ २ कृष्णो राधिका पृच्छति उपरिगतं सवर्ण समानवर्ण सगोत्रयुगलं करतो हत्वा स्वहस्तेन आहृत्य मे रन्तु ददासि ततो राधया तस्मिन्शत्रु गृहीते मति उवर्णेन परिगत युक्त सवर्णरहित एवादृश मरोजयुगल उरोजयुगलमेव इति धिया कमलयुग त्यक्त्वा स्तनयुगलमेव कृष्णो ऽस्पृशत् ३ इह संसारे अच्युतभक्तिवशात्समभाव समत्व शत्रुमित्रादिषु तत्प्रसङ्गेन भक्तिप्रसङ्गेन सारमते श्रेष्ठबुद्धे पुंस रति प्रीति अभ्युदयति इति न किंचिदत्राद्भुतम् ॥ व्याकरणपक्षे,-'भो अच्युतभ' अच्युता अहीना भा प्रतिभा यस्य क्त्विशात् क्षिप्रत्ययवशात् स प्रसिद्धो मभाव मकारस्याभावो लोप भवतीति शेष तत्प्रसङ्गेन क्षिप्रत्ययप्रसङ्गेन रमतेर्धातौ सा रति अभ्युदयतीत्यपि नाद्भुतम् रमु क्रीडायामित्यस्माद्धातो क्तिनि अनुदात्तोपदेशेति मलोपे रतिरिति रूपं सिध्यति ४ कापि विदुषितरा नायिका सखी प्रति वदति अयि सखि ! तत्र तस्मिन्नुपपत्तौ मम चेत अस्तीति शेष कीदृशे ? मञ्जुलधौ मञ्जु सुन्दर स चासौ लवूधिश्च पु० की० सभावितगुणे सभाविता गुणा सौन्दर्यादयो यत्र पु० की० क्वचित्कदाचिदपि न आपदाधारे आपदांरहिते इत्यर्थ अनीदृशे उक्तगुणरहिते पत्यौ मम चेतो नास्तीति ॥ व्याकरणपक्षे, -उपपत्तौ उपपतिशब्दे मम मनोऽस्ति, की० मञ्जुला घिसंज्ञा'यस्मिन् समाबित 'घेर्ङिती' इति गुणो यस्य ना इति पदस्य 'आडो नास्त्रियाम्' इति सूत्रविहितस्याधारे आश्रये अनीदृशघिसंज्ञागुणनादेशरहिते केवले पति शब्दे ५ अयि सखि ! पति सखिवन् शस्त मित्रवद्विश्वसनीय इति त्व किं न जानासि ? सखी प्रत्याह- हे आलि ! उपपतिरेार अतिसखिवत् अतिशयितमित्रवत् शस्त इति त्वयापि कथ नाबोधि ॥ व्याकरणपक्षे-पतिशब्द शस्त शस इति शस्त पञ्चम्यन्तात्तसि द्वितीयाबहुवचनात्पर सखिवत्सखितुल्यरूपो ज्ञेय नादेशभावेन कार्यैक्यात् उपपतिशब्द शस्त द्वितीयाबहुवचनात्पर अतिसखिशब्दवत् नादेशभाक् ६ यत' स्त्रीपुरुषरूपव्यञ्जिद्वयात्मक ७ द्वौ गावौ यस्य ८ भावो वस्तुमात्रम् अव्ययी व्ययाभाववान मद्गेहे कस्यापि वस्तुनो व्ययो नास्तीत्यर्थ यद्वा अव्ययीभवन अव्ययीभाव ९ तत्प्रसाद्दे पुरुष' येनाह बहुव्रीहिर्बहुधान्यविशिष्ट स्या तत्कर्म धारयेत्यन्वय समासषट्कप्रतिपादनमत्र चित्रम् १० मन्मथावशेषणाच्छुभ्रुम्, चन्द्रावशेषणाद्राहुम्, बलयाद्यविशेषाद्रामचन्द्रम् । मन्मथजनकतवाद्बलरामानुजम्, वायुभक्षिसर्पहननात्पन्नगारार्ति गरुड निन्दितवतीति भाव | १ वर श्रेष्ठो यश्चरणकमलसबन्धी रेणु २ ऋषिश्रेष्ठस्य गौतमस्य पत्नीम् ३ वृष सुकृतम् ४ उत्कृष्टचरणशुण्डाग्रो गजः सिंहस्य महिषी जनयामास वृषो वृषभस्तस्योदये हेतुरिति चित्रम् ५ न नमोऽनमो विषम स चासौ रुक् च समरुक शूलरोग त्रिशूलभित्यायुधविशेष स पाणौ हस्ते यस्य स शूलपाणिः शिव इत्यर्थ ६ खङ्ग ७ समुद्र ८ चन्द्र ९ यज्ञ १० वाताच्छीति वातं अत्ति स वातात् शेषस्तस्मिन्शीति शयन यस्य स अरिघ्न अरि चक्र धरति स वार्वाहम वार्वाहो मेघस्तस्येवाभाति स असमस्नाना-असमस्त खण्डित अन शकट येन स नौक्रा- न सूर्यः ओक-निवासस्थान यस्य स ईदृशित ई लक्ष्मीस्तत्पतिर्विष्णुर हरुत वो युष्माक व्रीडनाज्या व्रीडयन्ति ता व्रीडारूपावहाश्च ता ब्राज्याः अशनकृतससारभ्रमणानि ता ससृवीर्हरतादिति ११ जगतः शत्रुः, १२ मलिनवस्त्र १३ पशु १४ स कृष्णो वो युष्मान्पातु यस्याम्बरं पीतम् यस्य गृहम्बुनि यस्य पत्र वाहनं अहीनगणस्यारातिर्गरुडः, यस्य वधूरब्जा कमला यस्य तनय हरलोचनवह्निः ददाह १५ वायुमित्रमग्निरस्तत्सुत' षण्मुखस्तद्धन्जुर्गजाननस्तद्वाहनं मूषकस्तदरातिसर्पस्तद्भूषण शिवस्तच्छिरोवलम्बिनी गङ्गा तज्जो भीष्मस्तद्वैरी शिखण्डी तद्भगिनी द्रौपदी तस्या पतिरर्जुनस्तत्सखा कृष्ण १६ महान्, पक्षे,-काम . १७ लङ्घनम्, पक्षे, समीपस्थितिः १८ भेषजम्; पक्षे, प्रीतिम् १९ उपवासे; पक्षे, उल्लङ्घने २० अनलका विथवेत्यर्थ २१ मङ्गलकारकम् २२ अनललोचनं शिवम् २३ 'जीविकार्थे चापण्ये' इत्यत्र आपप्ये इत्युक्तत्वाद्धस्तिकाविकाणीते इत्यत्रेव रामक सीतका लक्ष्मणक इति प्रयोगा एव साधव
१९० सुभाषितरत्नभाण्डागारम् [ ४ प्रकरणम् ]
धिग्धिङ् ॥ ६२ ॥ ^१गोगेजवाहनभोजनभक्ष्योध्दतपमित्र- सपत्नजशत्रोः । वाहनवैरिकृहासनतुष्टा मामिह पातु जग- त्रयजुष्टा ॥ ६३ ॥ ^२नदीज लङ्केगवनारिकेतुर्नागाहयोनाम नगारिसूनुः । एषोऽङ्गनावेषधरः प्रमाथी जित्वाव यं नेष्यति चाद्य गा व ॥ ६४ ॥ ^३गोकर्णराडाभरणं यदीय यद्रव्यहव्यादजमाददाह । कु मेनचूडामणिरादिगन्तात्पा- यादपायादुरगात्मजार्वः ॥ ६५ ॥ विलासिनी काञ्चनपट्टि- काया पाटीरपङ्के^४र्विरही विलिख्य । तस्या^५ कपोले व्यलि- खत्पवर्ग^६ तवर्गमोष्ठे^७ चरणे टवर्गम्^८ ॥ ६६ ॥ काचिद्वियो- गानलतप्तगात्री प्राणान्समाधारयितुं लिलेख । बाहोर्भुजंग^९ हृदि राहुबिम्बं नाभौ च कर्पूरमयं महेशम् ॥ ६७ ॥ नेत. प्रयाणोन्मुखता समीक्ष्य नैक्षत्रमुक्तावलिमस्य^१० कण्ठे । अघा- रयत्सा स तु वासराणा सख्यापरोऽभूत्सखि कोऽत्र भावः ॥ ६८ ॥ ^११गौरीक्षणं भूधरजाहिनाथः पत्रं तृतीयं दयितो- पवीतम् । यस्याम्बर द्वादशलोचनास्यः काष्ठा सुतः पातु सदाशिवो व ॥ ६९ ॥ ^१पुंष्पेषुमाता पुरुषायमाणा लज्जावती विश्वसृज विलोक्य । नाभीसरोजे नयन मुरारेर्वामेतर वारयति स्म चित्रम् ॥ ७० ॥ ^२मृगत्रय भाति वपुष्यवेशे फलानि चत्वारि सुमनि पञ्च । कपोलषट्क प्रमदालताया पृच्छन्ति मध्य विदुष कवीन्द्रा. ॥ ७१ ॥ इन्दीवराक्ष्या. स्फुटविद्रु- मोष्ठ्या. सकेतमुद्दिश्य वने चरन्त्या. । चौरै. समस्ताभर- णानि हृत्वा नासामणिर्नोऽपहृतः किमेतत् ॥ ७२ ॥ ^४नृसिं- हदेवे चलिते भरेण प्रत्यर्थिभूतै. क्रियते भरेण । कण्ठे कुठार. कमठे ठकार. शेषे ठकारस्तपने^५ चकार ॥ ७३ ॥ ^५कुभ्रनसुप्री नयनाश्रयाशदग्धोन्मदा दर्दुरहर्षकाले^६ । खंजन्म- भक्षप्रियभोजनाशा^७ नृत्यन्ति भीर्मानुजगोजभाज^८ ॥ ७४ ॥ शिरसि देवनदी पुरवैरिण सपदि वीक्ष्य धगधरकन्यका । निबिडमानवती रमणाङ्कके क्वचन चुम्बनमारभते स्म सा ॥ ७५ ॥ काचिद्विलोलनयना रमणे स्वकीये दूर गते सति मनोभवबाणखिन्ना । त्यक्तुं शरीरमचिगन्मर्लेयाद्रिवायुं^१० सौरभ्यशालिनमहो पिबति स्म चित्रम् ॥ ७६ ॥ ^११काँन्ता रुचि
| १ गवागच्छतीति गोग शिवस्तज्ज कार्त्तिकेयस्तस्य वाहन मयूरस्तस्य भोजन भक्ष्य सर्पस्तस्य भक्ष्य वायुस्तद्भूतो हनूमांस्त पातीति म तत्प सुग्रीवस्तस्य मित्र रामस्तस्य सपत्नो रावणस्तज्ज इन्द्रजित्तस्य शत्रुरिन्द्रस्तस्य वाहन ऐरावतस्तस्य वैरी सिंहस्तत्रोपविष्टा अत एव सर्वोपरि तुष्टा अम्बिका मां पातु रक्षतु २ भो नदीज गङ्गाततनय भीष्म' एष दृश्यमान अङ्गनावेषधर स्त्रीरूपधारी लङ्केशवनारिकेतु रावणवनभञ्जकहनूमच्छ्रज नगाह्वयोऽर्जुननामा नगारिसूनुरिन्द्रपुत्र भो भो कौरवा ! अय प्रमाथी हन्ता अद्य वो युष्माञ्जित्वा गाश्च नेष्यतीत्यर्थ ३ उ शिव कुं धरणि अपायान्नागात्पायाद्रक्षतु स क गोकर्णा मर्पास्तेषा राट् वासुकि यदीय आभरणम् हूयते तद्धव्यम् गोरिदं गव्य, गव्य च तद्धव्य च गव्यहव्यम् गव्यहव्यमत्तीति गव्यहव्याद् वह्नि यस्य शिवस्य गव्यहव्याद्वहिरित्यनेन त्र्यम्बकस्य तृतीयनेत्रोत्थवह्निरित्यर्थ स अज अनङ्ग आददाह यस्य तृतीयनेत्रोत्थो गव्यहव्याद्वह्नि मदन भस्मीचकारेत्यर्थ किभूत भ्राना ऋक्षाणा इन स्वामी चन्द्र स एव चूडामणिर्मुकुटरत्न यस्य म पु० क० अगात्मजा पार्वती अर्धे अर्धे वा यस्य स आदिगन्ताद्दिगन्तेभ्य आ इति दिशामन्त मर्यादीकृत्य आदिगन्त तस्मात् ४ चन्दनद्रवै ५ गल्ले ६ पवर्गस्य ओष्ठस्थानीयत्वात् ओष्ठाभ्या तव चुम्बन करिष्यामीति सूचितम् ७ तवर्गस्य दन्तस्थानत्वाद्दन्तैस्तवौष्ठौ खण्डयिष्यामीति सूचितम् ८ टवर्गस्य मूर्धस्थानत्वाद्यदि त्व रुष्टासि तर्हि त्वा शिरसा नमामीति सूचितम् ९ सर्पत्रासमीलत्या प्राणा स्वतो न निर्गमिष्यन्तीत्याशयेन बाहोर्भुजंग लिलेख चन्द्रश्च स्वभावतया श्रुतिसिद्ध मृताना मनो ग्रहीतुमागच्छेदित्याशयेन हृदि राहुम्, मन्मथत्रासाय शिवं च लिलेखेति भाव १० नक्षत्रमालाधारणने नक्षत्रोदयवेलाया मागमन कर्तव्यमिति तया सूच्यते वासरसख्याकरणेन सप्तदिनमन्य एव मया गम्यत इति तेन सूचितम् ११ स सदाशिवो वो युष्मान्पातु स क ? यस्य मौ वृषभ पत्र रथ तथा ईक्षण तृतीयं यस्य भूधरजा पार्वती दयिता यस्य अहिनाथ शेष उपवीत यस्य अम्बर वस्त्र काष्ठा दिशो यस्य द्वादशलोचनास्य कुमार सुतो यस्य इत्यन्वय • | १ पुष्पेषोर्मदनम्य माता लक्ष्मी पुरुषायमाणा पुरुषवदाचरन्ती, विपरीतंरत कुर्वतीत्यर्थ , विश्वसृज भगवन्नाभिसरोजस्थ ब्रह्माण विलोक्य लज्जावती मती मुरारेर्दक्षिण नयन वारयति स्म यतो भगवन्नेत्रे हि सूर्यचन्द्रात्मके, तत्र दक्षिणस्य सूर्यात्मकत्वात्तद्दारणेन सरोज मुकुलित भवेत् ततश्च ब्रह्मापि मरोजकोशेऽन्तर्हितो भवेन् इति मनसि कृत्वा तद्वारयामासेति भाव २-३ उपरि अक्ष्णो नीलच्छायो अधस्तात् ओष्ठस्य रक्तवर्णच्छाया नयो प्रतिबिम्बिनं नामामौक्तिक गुञ्जाफल मिति मनसि कृत्वा चोरैर्न हृतम् इत्यभिप्राय ४ नृसिंहदेवे सेनाभरेण सह यात्रार्थ चलति प्रत्यर्थिभूतै शत्रुभूषनिभि मेनाभि सह पलायमानैर्भरेण मा•बनाधिक्येन कण्ठे कुठार क्रियते कुठारघाततुल्या पीडाऽनुभूयते तथा च भरेण सेनासमूहगुरुत्वेन कमठे ठकार क्रियते भूमरधर कूर्मावतारोऽङ्गसमर्दमीलत्या पाणिपाङ्मुसमन्त संकोच्य ठकारतुल्योऽभूत् तथा केवल मण्डलाकृतिस्तस्य तथा शेषोऽपि एकस्मिन्नेव भुव प्रदेशेऽधिकभरेण ठकारतुल्यो वक्रीकृतश्रीवकुण्डलिकोऽभूत् तपने सूर्ये च•चकार समुच्चय क्रियते अतिभीत्या तेषा शत्रूणा शतसूर्यं नभस्तल पश्यता इत्यर्थ ५ कु पृथ्वों धरन्ती ने कुध्रा पर्वतास्तेषामिन स्वामी हिमाचलस्तस्य सू पुत्री पार्वती ता प्रीणातीति प्रीर्महादेवस्तस्य नयनस्य आश्रयाशो नेत्रवह्निस्तेन दग्धो य कामस्तेन उन्मदा उन्मत्ता ६ दर्दुराणा मण्डूकाना हर्षकालो वर्षाकालस्तस्मिन् ७ स्वस्माज्जन्म येषा तानि स्वजन्मानि स्वापत्यानि तानि भक्षयन्ति ते स्वजन्मभक्षा सर्पास्त एव प्रिया भोजनस्य आशा येषा व ईदृशा मयूरा इत्यर्थ ८ अत्र भीमानुजगोजभाज इत्यस्य भीमानुजोऽर्जुनस्तत्सशका ये गोजा गो पृथिव्या जायन्ते ते गोजा वृक्षास्तत्सेविन स्फुटिटार्जुनवृक्षा येनाधितिष्ठन्त श्ति यावदित्यर्थ षंषा टीका विदग्धमुखमण्डनेऽपि न्यूनैव ९ सविषे गले १० मलयस्यचन्दनेष्वनिश सर्पनिवासात्तच्छ्वाससपृक्तस्य वायो सविषत्वात्तत्पानेन झटिति मे मरण स्यादिति बुद्ध्या तं पपाविति गूढाशय ११ कान्ता हरौ रुचि धत्ते, मुनिजनो हरौ रुचिं धत्ते, अवियोगी तरुणो हिमकरे रुचिं धत्ते. कामो मकरे निजचिह्नभूते रुचिं धत्ते, रत्नमणिरुज्ज्वलकङ्कणेन सह करे कुचभूषणेन सह पयोधरयुगे च रुचि धत्ते |
कूटानि | १९१
मुनिजनस्तरुणोऽवियोगी कामश्च रत्नमणिरुज्ज्वलकदम्बकेन ।
धत्ते पयोधरयुगे कुचभूषणेन हारे हरे हिमकर मकरे करे
च ॥ ७७ ॥ विकसति नयनाभ्या कैरव पङ्कजं च
श्लथयति चरणाम्बु ब्रह्मचर्यं पयोधे । उरसि लसति
यस्य श्रेयसा सप्रदायः स फणिनमधिशेते पद्मया पद्मनाभः
॥ ७८ ॥ अहिरिपुपतिकान्तातत्सवद्भ्रान्तातत्सुपूज्यका-
हन्तृप्राणदातुर्ध्वजस्य । सखिसुतसुतकान्तातत्तातसत्पूज्यका-
न्तापितुश्शिरसि पतन्ती जाह्नवी नः पुनातु ॥ ७९ ॥
उदितवति परस्मिन्प्रत्यये शास्त्रयोनौ गतवति विलयं च
प्राकृतेऽतिप्रपञ्चे । सपदि पदमुदीतं केवल प्रत्ययो
यस्तदियमिविति च वक्तुं कः क्षमः पण्डितोऽपि ॥ ८० ॥
हरिद्राया राहुप्रसरपिहितेच्छापरिषदि प्रयुक्तालंक्लृप्त्यै
विद्युत उरुता दुर्गकुरटीम् । वय सार्कौपेता. प्रहर इति
सेनाधिपकृताममात्येभ्यो लेखा प्रतिदिशति सिंहक्षितिपतिः
॥ ८१ ॥ गंता सा कि स्थान पथि सह तया का
स्थितवती नृपेणेत्थ पृष्टा सखि चतुरदूती स्थितवती ।
विलोक्यौलंकार निजमथ च शाकं नरपति निराकाङ्क्षं
चक्रे कथय कथमेतत्प्रभवति ॥ ८२ ॥ स्नानान्ते नो हारो
रजतगिरिमूले न धनद सुकेशीनां मध्ये विहरति न
कामो नवयुवा । रसान्ते नैवाऽधिविबुधनगरीसीम्नि न
सुरस्तथान्यस्मिन्पद्ये स्फुटमयतु दैवं किमपि न ॥ ८३ ॥
काचिद्भाला रैमणवसति प्रेक्षयन्ती करण्डं सा तन्मूले
समयमलिखद्धालमस्योपरिष्ठात् । गौरीनाथं पँवनतनयं
चैम्पकं चास्य भावं पृच्छत्यार्यान्प्रति कथमिरुदं मल्लिनाथ
कवीन्द्रः ॥ ८४ ॥ सर्वेज्ञ सन्वदसि बहुधा दीयते दीयते
वै दादातूना भवति सदृश रूपमेषा चतुर्णाम् । द्वौ दानार्थों
भवति च तथा पालने खण्डने वा नो जानीमः कथयति
भवान्कस्य धातोः प्रयोगम् ॥ ८५ ॥ चञ्चद्द्वादश-
नीलनीरजयुतं सप्ताम्बुजोध्दासित नित्य षोडशशोणपद्मरुचिर
धात्रानिश सेवितम् । श्रीराममोधिगृह सहस्रदलसत्पर्यङ्क-
विश्रान्ति यत्पायाद्वः कमलाङ्गसङ्गिशयनं तन्नीलरोचिर्महः
॥ ८६ ॥ रोमं वानरवाहिनी पुररिपुं राहु रखेः सारथि
कुम्भीगर्भसमुद्भवं सुररिपुं मारस्य मौर्वीरवम् । तन्वी
नूतनपल्लवैरिविरचिते शय्यातले शायिनी सख्या वीजितता-
[टिप्पणी / व्याख्या]
१ म पद्मनाभ पद्माया सह फणिनं शेषमधिशेते यस्य नयनाभ्या चन्द्रसूर्यलक्षणाभ्या कैरवं पङ्कज च विकसति यस्य चरणाम्बु गङ्गाजल पयोधेर्ब्रह्मचय्यं श्लथयति दूरीकरोति गङ्गाया समुद्रपत्नीत्वात्, यस्योरसि श्रेयसा सप्रदाय कौस्तुभमणिलंसति एवंविध पद्मनाभ फणिनमधिशेते
२ अहि सर्पस्तद्रिपुर्गंरुदस्तत्पतिर्विष्णुस्तत्कान्ता-लक्ष्मीस्तत्तात समुद्र स मय्यग्बद्धो येन स रामस्तत्कान्ता जानकी तस्या हरो हर्ता रावणस्तत्तनय इन्द्रजित्तद्विहन्ता लक्ष्मणस्तत्प्राणदाता हनूमान्स ध्वजे यस्यैतादृशोऽर्जुनस्तस्य सखा कृष्णस्तत्सुतो मदनस्तत्सुतोऽनिरुद्धस्तत्कान्ता उषा तत्तातओ बाणासुरस्तस्य सम्यक्पूज्य शिवस्तत्कान्ता पार्वती तत्पिता हिमालयस्तच्छिरसि पतन्ती जाह्नवी भागीरथ्यित्यर्थः
३ सिंहक्षितिपति सेनाधिपकॄना लेखा अमात्येभ्य प्रवानेभ्य प्रति दिशति कथयति इति लेखा प्रतीति किम् वय सार्कौपेता अर्कशब्देन इन लक्ष्यते तद्युक्त इन सेनोपेता हरिद्राया निशाया राहुप्रसरपिहितेच्छापरिषदि सत्याम् राहुशब्देन तम, हितशब्देनाच्छादनम् इच्छाशब्देन आशा दिशा, परिवच्छब्देन मण्डलम् प्रयुक्तो योऽलकार हार तस्य क्लृप्त्यै प्रहारार्थम् विद्युत गरुताम् गरुत्पक्ष उच्यते विकारयुक्ताना पक्षाणा विपक्षामान् दुर्गकुरटीम् कुरटीशब्देन नगरी लक्ष्यते दुर्गनगरी प्रहर इत्यर्थः
४ कश्चित्राजा काचिन्न्यायिका स्वगृहमानयत् ततश्च तद्गर्तारमागत दृष्ट्वा ता स्वगृह प्रापयितु दूतीमाज्ञापयति स सा च दूती ता स्वगृह प्राप्य्य पुना राजनिटे आगत्य स्थितवती ता प्रत्याह राजा सा कि न्वस्थान गता गतवत्या तया सह पथि मार्गे का स्थितवती एव राजा पृष्टा चतुरा दूती स्मितवती सती निजमलंकार ‘पोहोची’ इति महाराष्ट्रभाषाप्रसिद्धतथा शाक ‘मेथी’ इति महाराष्ट्रभाषाप्रसिद्ध शाकविशेषं चावलोक्य तावन्मात्रेणैव नरपति निराकाङ्क्षमुत्तरविषये आकाङ्क्षारहित चक्रे एतदलकारशाकावलोकन कथं प्रभवति राशो नैराकाङ्क्ष्य-सपादने कथं समर्थ भवतीति कथयेति कविप्रश्न अत्र प्रथमप्रश्नस्य प्राप्तेत्यर्थकं ‘पोहोची’ इति हिन्दीभाषयोत्तरम् द्वितीयप्रश्नस्य तु अहमासमित्यर्थकं ‘मे थी’ इति हिन्दीभाषयोत्तरमिति तात्पर्ये बोध्यम्।
१-२ प्रियनिवासम्
३ करण्डस्थितपुष्पसौरभ गन्धवाहो हरेदिति तद्रक्षर्कं सर्पम्
४ पुष्पबाणो वाणाय हरेदिति तद्वैर्रिण शिवम्
५ सूर्य पुष्प स्वकरें शोषयेदिति जन्मकाले एव भक्ष्युबुद्ध्या हर्तु प्रवृत्तं भयजननाय हनूमन्तम्
६ तन्मकरन्द भृङ्गो हरेदिति चम्पकमलिखदिति भाव चम्पके भृङ्गो न गच्छन्तीति प्रसिद्धे
७ त्वं सर्वज्ञ सन् बहुधा वारंवार दीयते दीयते इति वदसि दीयते इति रूप चतुर्णामपि दाधातूना सदृशं भवति तन्मध्ये द्वौ दानार्थी, दाण्दाने, डुदाञ्दाने, इति. एक पालने; देङ् रक्षणे इति एक खण्डने, दोऽवखण्डने इति एतन्मध्ये भवान्कस्य धातो प्रयोग कृत्वा वदति त न जानीम
८ तन्नीलरोचि श्यामप्रभ महस्तेज कृष्णलक्षणं वो युष्मान्पायात् तत्किभूतम् कमलाङ्गसङ्गिशयन लक्ष्मीसनाथ शय्यम् पु० कि० सहस्त्रदलसत्पर्यङ्क विश्रान्ति सहस्रफणदिव्यशयनशेषस्थितम् पु० कि० श्रीराम्भोधिगृह दुग्धसमुद्रनिवासम् पु० कि० धात्रा नाभिसरोरुहस्थेन ब्रह्मणा अनिश सेवितमध्यासितम् पु० कि० षोडशशोणपद्मरुचिरं षोटशारुणकमलमिवोहरम् षोडशशोणपद्मामा विवृति-विष्णोश्चत्वारो हस्ता द्वौ चरणौ तावन्त एव ब्रह्मण द्वौ करौ द्वौ चरणौ लक्ष्म्या इत्येवं षोडशशोणपद्मरुचिरम् पु०कि० नित्यमविनाशि पु० कि० सप्ताम्बुजोद्भासित सप्तकमलशोभितम् सप्ताम्बुजाना विवृति - चत्वारि मुखानि ब्रह्मण. एकं नाभिसरोरुहम् एकं विष्णोर्मुखम् एक लक्ष्मीमुखम् इत्येवं सप्ताम्बुजोद्भासितम् पु० किं० चञ्चद्द्वादशनीलनीरजयुतं शोभमानद्वादशनीलोत्पलयुक्तम् द्वादशनीलनीरजाना विवृति -अष्टौ नयनानि ब्रह्मण द्वे विष्णो द्वे लक्ष्म्या इत्येवं द्वादशनीलरजययुतम्
९ कोकिलरक्षककाकावशेषकत्वाद्रामम् मलयान्नवशेषानाडानरवाहिनीम् मन्मथावशेषणात्पुररिपुम् चन्द्रावशेषणाद्राहुम् रवे शीघ्रमस्ताद्रिप्रापणेन रात्रिसंपादनादनूरुम् चन्द्रोत्पादकसमुद्रावशेषणादगस्त्यम् मन्मथोत्पादनान्मुररिपु निनिन्देति भाव कोकिलादीना कामोद्दीपकतवं रसशास्त्रे प्रसिद्धम्.
| १९२ | सुभाषितरत्नभाण्डागारम् | [ ४ प्रकरणम् |
|---|
लुप्तपवना बाला मुहुर्निन्दति ॥ ८७ ॥ सत्यासक्तमना-
प्रवृद्धनरकच्छेदी द्विजेन्द्राश्रयो युक्तानेकसुखोद्भवस्पदमलं
श्रीयंत्र सराजते । यो गंगां च बिभर्ति यश्च सशिवो य-
त्कामदेहाश्रयः सङ्घः साम्यमयं प्रयातु भवता कृष्णेन
रुद्रेण वा ॥ ८८ ॥ येने ध्वस्तमनोभवेन बलिजित्कायः
पुरा स्त्रीकृतो यो गंगां च दधेऽन्धकक्षयकरो यो बर्हिपत्र-
प्रियः । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामाऽमराः
सोऽव्यादिष्टभुजंगहारवलयस्त्वं सर्वदो माधवः ॥ ८९ ॥
'यो व्योमाडिनगोऽहरीडुडुपगोयुग्मः खगप्रोऽपभीर्भीमर्म्मर्श्व-
र्यसुकी रमारतरसो नाभ्यम्बुदासीनकः । योऽसञ्चेववनम्य-
पत्सलिलजो वार्धिस्वपोऽष्टाध्र्दोराधो गदासिवाऽधादस्मृतपाः
पायात्स वः कंदभाः ॥ ९० ॥ लक्ष्मीवन्कृतकूरसू रणद-
हिन्दूधकक्षम् पापडीलाडूढोऽकलधी वडाछन वडी खाजा-
१ अर्थं भवता सङ्घ कृष्णेन रुद्रेण वा साम्यं प्रयातु प्राप्नोतु किम्भू
तेन कृष्णेन अर्थवशाद्विपरिणाम किंभूत १ सत्यासक्तमना सत्यभा-
मायामासक्त मनो यस्यासौ नामैकदेशे नामग्रहणम् प्रवृद्धो नरक
मुरस्तं छिनत्तीति द्विजाना पक्षिणामिन्द्रो गरुडस्तस्याश्रय सेव्य
युक्तान्यनेकमुखानि यस्य ब्रह्मणस्तस्य उद्भवो यस्मात्कमलात्तत् यस्या
स्पदम् अलमत्यर्थं यत्र श्रीर्लक्ष्मी राजते योऽग गोवर्धनं गा पृथ्वीं
च विभर्ति शिवेन सह वर्तमान 'विष्णोश्च हृदयं शिव ' इति वच
नात् य कामदेह प्रद्युम्नस्तस्याश्रय ॥ किभूतो रुद्रः १ सत्याममासक्त
चित्त यस्य 'उमा गौरी सती चण्डी' इत्यभिधानात् प्रवृद्ध यन्नरस्य
ब्रह्मण क शिरस्तस्य छेत्ता द्विजाना ब्राह्मणानामिन्द्रश्चन्द्रस्तस्याश्रय
अनेकसुखानामुद्भवो यस्य कार्तिकेयस्य तदास्पदम् श्रीर्यंत्र सराजते
निधिपतित्वात् यो गङ्गां विभर्ति य शिवया पार्वत्या सह वर्तमान
काम यति खण्डयति एवविधा या ईहा तस्या आश्रय ॥ किभूत
सङ्घ १ सत्या सूनृता वाक् तत्र लग्न मनो यस्य स. प्रवृद्ध यन्नरकं दुःखं
तस्य नाशक द्विजेन्द्रा ब्राह्मणास्तेषामाश्रय युक्तानि योग्यानि यानि
अनेकसुखानि तेभ्य उद्भवो यस्य धर्मवार्ताया तस्या आस्पदम् यत्र
श्रीः शोभा राजते यो गा वाणी धत्ते काम ददातीति कामदा ईहा
इच्छा तदाश्रय २ त्वा सर्वदा स उमाधवोऽव्याद्रक्षतु स क ? येन
बलि जितवानिति बलिजिद्विष्णुस्तस्य काय शरीर पुरा त्रिपुरवधका-
लेऽस्त्रीकृतोऽस्त्रत्वेन संपादित • किभूतेन ध्वस्तो मनोभवो मारो येन
ध्वस्तमदन पु० स क १यो गङ्गां दधे पुन कीदृश १ अन्धकनामा
दैत्यस्तस्यान्तकर पु० कीदृश १ यो बर्ही मयूर एव पत्रं रथो यस्य
स स्कन्द प्रियो यस्य स पु० की० खलुभ्रीमद्य नाम यस्य अमरा
इति आहु इतीति किम् हर इति किभूत १ शशिमच्छिर शशि
रस्ति यस्मिंस्तच्छशिमत् तादृश शिरो यस्य स हाराश्च वलयानि च
हारवलयम् इष्टाश्च ते भुजंगाश्च इष्टभुजगाः ते हारवलयानि यस्य स
इष्टा वल्लभा भुजगा सर्पा हार कण्ठभूषणं वलय कटक बाहुभूषण-
मित्यर्थ . यद्वा,-इष्टानि भुजगा एव हारवलयानि यस्येति ॥ हरिपक्षे,-
सर्वं ददातीति सर्वद स माधवो लक्ष्मीपति मा लक्ष्मीस्तस्या धवो
भर्ता माधव• त्वामव्यात् स क.? भयेन भवेनेत्युत्पन्नमात्रेण धृतविप्र
हेणेश्यंथे अनो ध्वस्तं शकटाकृति दनुज हतवानित्यर्थ अथवा अभ-
वेनेति घोरसंसारसागरे प्राक्तनकर्मानुसारेण विधते भवो जन्म यस्य
स तेन कृष्णलीलामृतविग्रह इति पु० स क.? येनामृतविभागाथं
रुद्रमोहार्थं वा बलिजिन्नसौ कायश्चेति पुरा स्त्रीकृत स्त्रीभावं प्रापित
पु० की० य अग गोवर्धनम् गा पृथ्वीं च दधे पु० की० यः अन्धे
अगाधे के जले शयं गृह करोतीति विष्णूस्तु जलशायीति पु० की०
बर्हिणो मयूरस्य पत्राणि बर्हाणि पिच्छानि प्रियाणि वल्लभाणि यस्य स
पु० की० अमरा यस्य इति स्तुत्यं नाम आहु इतीति किम् शशिम-
च्छिरोहर इति शशिन चन्द्रं मथायतीति शशिमन् राहु तस्य शिर
हरतीति स तथा इष्ट भुजगहा गरुडो यस्य स तथा अर सुद-
र्शनं वलयं यस्य स तथा रवे परब्रह्मणि लयो यस्य स रवलय इति
१ कं जलं ददातीति कदस्तस्यो भा त्व भा यस्य स आकृष्णो वो
युष्मान्पायाद्रक्षतु स क य व्योमाडिनग व्योमाटा पक्षिणा
इनो गरुडस्तेन गच्छतीति स तथा अह्ना ईट् अहरोट् सूर्य उडु-
पश्चन्द्रस्तौ गोयुग्म नेत्रद्वयं यस्य स तथा कु पृथ्वीं अगा गिरय
तान्धरतीति तथा अपगता भीर्भयं यस्मात्स तथा पु० क० भीम-
र्व्वैर्यसुकी क्ष्माणा देवाना अरय ऋम्बरय भीमाश्च ते ऋम्बरयश्च
भीमर्च्वरय भीमर्व्वरीणा असून प्राणान् किरतीति स ऋभव अरय
तेषामरयो दैत्या भीमाश्च ते ऋम्बरयश्च भीमर्व्वरयश्च तेषामसून
किरति कलेवराद्वियोजयति तथा तथा रमा लक्ष्मी तस्या रते
क्रीडाया रस आसक्तिर्यस्य स अप्सु रुहंति इति अम्बुद कमल
नाभावभूदिति आसीन क ब्रह्मा यस्येति तथा पु०क० व्योमदा दवाना
दम्बा सघेन अवनम्य पत्सलिलज चरणकमल यस्य वा धौ स्वपि
नीति तथा अष्टाधं चत्वारो दोषा बाहवो यस्य जाध अनादिगि
लय गदा गदाधर असि खङ्ग वहति मोक्षं ददाति २ हे
लक्ष्मीवन् त्वं मा सेवकं अव्या रक्ष कथंभूतस्त्वम् ? कृतकू कृत
को पृथिव्या ऊ अवनं रक्षण येनामो पु० क० असू सूयते
उत्पद्यते असौ सू न सू असू जञ इत्यप पु० क० रणदहिन्
रण संग्राम ददति ते रणदा शत्रवस्तान्हिनस्ति जहौ शत्रुहा
इत्यव पु० क० दूधकू दुव दुख दहतीति दूथकू पु० क०
क्षम क्षमास्यास्तीति स पु० क० पापडी डल योरभेदात् पापली
पारपं लुनातीनिम पु क० इलाटू इलाया पृथिव्या अटतीति
इलाट् पुरा वामनादिरूपेण बले सकाश प्राप्त उक्तं च-'बहवो
मा न जानन्ति मम मायाविमोहिता । सदाह द्विजस्रूपेण विचरामि
महीतले ॥' इति भारतवचनात् पु० क० विविमुना रूढ वीना
पत्रिणा विमुर्गंरुटस्तेन उढ वाह्यमान इत्यर्थ पु० क० अकलधी
अक दुखं लङ्घयतीति अकलधी पु० क० अवलाञ्छनं अवगतं
लाञ्छन यस्य स अवलाञ्छनस्तस्य सबुद्धौ हे अवलाञ्छन ' अवा
प्योरुपसर्गयोरकारलोप पु० क० वटी वल्यो. डलयोश्च साव-
र्थ्यात् बली बलमस्यास्तीति म पु० क० खाजाम्बुदालीरुचि
खे आकाशे अजन्ति गच्छन्ति ते खाजा गगनचरा ते च ते अम्बु
दाश्च तेषामलि पङ्किस्तस्या रुचिरिव रुचिर्यस्यासौ घनश्याम
इत्यर्थ पु० क० महुशाकारखण्डन महाक्षाणूरादयस्तेषामाशा
वाञ्छा तस्या आकर समूह तं खण्डयतीति स महेच्छासामूहना
शन इत्यर्थ पु० क० क्षीरावस क्षीरे क्षीरसमुद्रे आसमन्ताद्भा-
वेन वसतीति तस्य सबुद्धौ हे क्षीरावस हे अतुत्य नास्ति तुल्यो
यस्य स तस्य सबोधने कीदृशं माम् ' सासुम् असव प्राणास्तै
सह वर्तमानम् पु० क० अलितन्निभाङ्गवसन अङ्गं च वसनं
च अङ्गवसने अलिक्ष तद्विच अलितडितौ तयोर्निभेव निभा ययोस्ते
अलितडिन्निभे अङ्गवसने यस्यासौ अलितडिन्निभाङ्गवसनः पु० क०
सारवान् सारो बलमस्यास्तीति स• पालनसमर्थ इत्यर्थ •