सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 193, कुल 516 में से
संदर्भ में पढ़ें| १७८ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
वनं ततः । तदपि सुचिरं स्थित्वा तेभ्यः प्रयाति सरोरुहं परिचितजनद्वेषी लोको नवं नवमीहते ॥ ९९८ ॥ दद्या- त्साधुर्यदि निजपदे दुर्जनाय प्रवेशं तन्नाशाय प्रभवति ततो वाञ्छमानः स्वयं सः । तस्माद्देयो विपुलमतिभिर्नावका- शोऽधमानां जारोऽपि स्याद्गृहपतिरिति श्रूयते वाक्यतोऽत्र ॥ ९९९ ॥ मौने मौनी गुणिने गुणवान्पण्डिते पण्डितोऽसौ दीने दीनः सुखिनि सुखवान्भोगिनि प्राप्तभोगः । मूर्खे मूर्खो युवतिषु युवा वाग्मिषु प्रौढवाग्मी धन्यः कोऽपि त्रिभुवन- जयी योऽवधूतेऽवधूतः ॥ १००० ॥ विद्यातीर्थे जगति विबुधाः साधवः सत्यतीर्थे गङ्गातीर्थे मलिनमनसो योगिनो ध्यानतीर्थे । धारातीर्थे धरणिपतयो दानतीर्थे धनाढ्या लज्जा- तीर्थे कुल्युवतयः पातकं क्षालयन्ति ॥ १००१ ॥ साध्वीस्त्रीणां दयितविरहे मानिनां मानभङ्गे श्लोकानामपि जनरवे निग्रहे पण्डितानाम् । अन्योद्रेके कुटिलमनसां निर्गुणानां विदेशे भृत्याभावे भवति मरणं किं तु संभावित्तानाम् ॥ १००२ ॥ शीतेऽतीते वसनमशनं वासरान्ते निशान्ते क्रीडारम्भं कुव- लयदृशां यौवनान्ते विवाहम् । सेतोर्बन्धं पयसि चलिते वार्धके तीर्थयात्रां वित्तेऽतीते वितरणमतिं कर्तुमिच्छन्ति मूढाः ॥ १००३ ॥ श्रेयो नूनं व्रजति स पुमांश्शिक्षया वर्धितो यः स्वच्छन्दं यश्चरति स पराभूतिमाप्नोति काले । पूज्यो वेणुर्भवति च नतिं प्रापितो भूपतीनामन्यन्नृत्योचित- मिति करे नर्तकाः कल्पयन्ति ॥ १००४ ॥ बाले बाला विदुषि विबुधा गायने गायनेगाः शूरे शूरा निगमविदि चान्नायलीलागृहाणि । सिद्धे सिद्धा मुनिषु मुनयः सत्सु सन्तो महान्तः प्रौढे प्रौढाः किमिति वचसा तादृशा यादृ- शेषु ॥ १००५ ॥ चान्द्रीं लेखां दशति दशनैर्दारुणः सैहि- केयो नव्यां वल्लीं दवदहनकश्चान्दनीं दन्दहीति । अप्यु- न्मत्तः कुवलयमयीं मालिकामारुनीते मूलादुन्मूलयति नलिनीं दुष्टहस्ती करेण ॥ १००६ ॥ यावत्स्वस्थमिदं शरीर- मरुजं यावज्जरा दूरतो यावच्चेन्द्रियशक्तिरप्रतिहता याव- त्क्षयो नायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्संदीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥१००७॥ निर्वृत्तौध्वरकृत्य ऋत्विजमहो तीर्णोपगो नाविकं युद्धान्ते सुभटं च सिद्धविजयो वोढारमाप्तस्थलः । वृद्धं वारवधूंजनं च कितवो निर्द्यूततद्यौवनो ध्वस्तां तङ्गचयश्चिकित्सकमपि द्वेष्टि प्रदेयार्थिनम् ॥ १००८ ॥ मित्रं स्वेच्छतया रिपुं नयैर्बलैर्लुब्धं धनैरीश्वरं कार्येण द्विजमादरेण युवतिं प्रेम्णा शर्मैर्बान्धवान् । अत्युग्रं स्तुतिभिर्गुरुं प्रणतिभिर्मूर्खं कथा- भिर्बुधं विद्याभी रसिकं रसेन सकलं शीलेन कुर्याद्वशम् ॥ १००९ ॥ दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः सङ्गात्सुतो लालनाद्विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् । स्त्री मद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्रयान्मैत्री चाप्रण- यात्समृद्धिरनयात्त्यागात्प्रमादाद्धनम् ॥ १०१० ॥ कोऽर्था- न्प्राप्य न गर्वितो भुवि नरः कस्यापदोऽस्तं गताः स्त्रीभिः कस्य न खण्डितं बत मनः को नाम राज्ञां प्रियः । कः कालस्य न गोचरो धनकृते कोऽर्थी गतो गौरवं को वा दुर्जनवागुरानिपतितः क्षेमेण यातो गृहम् ॥ १०११ ॥ वैद्यं पानरतं नटं कुपठिनं स्वाध्यायहीनं द्विजं योवं कापु- रुषं हयं गतरयं मूर्खं परिव्राजकम् । राजानं च कुमन्त्रिभिः परिवृतं देशं च सोपद्रवं भार्यां यौवनगर्वितां पररतां मुञ्च- न्ति ते पण्डिताः ॥ १०१२ ॥ वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसा निर्द्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं मन्त्रिणः । पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः सर्वः कार्यवशाज्जनोऽभिरमते तत्कस्य को वल्लभः ॥ १०१३ ॥ सन्तश्चेदमृतेन किं यदि खलस्तत्का- लकूटेन किं दातारो यदि कल्पगास्त्रिभिरलं यद्यर्थिनः किं तृणैः । किं कर्पूरशलाकया यदि दृशः पन्थानमेति प्रिया संसारोऽपि सतीन्द्रजालमपरं यद्यस्ति तेनापि किम् ॥ १०१४॥ लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः सत्यं चेत्त- पसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् । सौजन्यं यदि किं गुणैः स्वमहिमा यद्यस्ति किं मण्डनैः सद्धिद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ १०१५ ॥ छेदनन्दनचूतचम्पकबने रक्षापि शाखोटके हिंसा हंस- मयूरकोकिलकुले काकेषु नित्यादरः । मातङ्गेन खरक्रयः समतुला कर्पूरकार्पासयोरेषा यत्र विचारणा गुणिगणे देशाय तस्मै नमः ॥ १०१६ ॥ या राका शशिशोभना गतघना सा यामिनी यामिनी या सौन्दर्यगुणान्विता पतिरता सा कामिनी कामिनी । या गोविन्दरसप्रमोदमधुरा सा माधुरी माधुरी या लोकद्वयसाधनी तनुभृतां सा चातुरी चातुरी ॥ १०१७॥ किं तीर्थं हरिपादपद्मभजनं किं रत्नमच्छा मतिः किं शास्त्रं श्रवणेन यस्य गलति द्वैतान्धकारोदयः । किं मित्रं सतततो- पकाररसिकं तत्त्वावबोधः सखे कः शत्रुर्वद खेददानकुशलो दुर्वासनासञ्चयः ॥ १०१८ ॥ क्षान्तिश्चेत्कवचेन किं किम- रिभिः क्रोधोऽस्ति चेद्देहिनां ज्ञातिश्चेदनलेन किं यदि सुहृ- द्दिव्यौषधैः किं फलम् । किं सर्पैर्यदि दुर्जनाः किमु धनैर्वि- द्यानवद्या यदि व्रीडा चेत्किमु भूषणैः सुकविता यद्यस्ति
१ रुजारहितम् २ उद्योग ३ संपादितयज्ञकृत्य ४ उत्तीर्णो नदी येन स ५ वोढारम् ६ धूर्ते ७ निरस्तरोगसच्य . ८ वेधम् ९ नीतिशक्तिभिः । १ स्वार्थपरत्वात् २ दुष्टा ३ सहनशीलता.