भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 196, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 196

चतुर्थं चित्रप्रकरणम्

समस्याख्यानम्

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । दलितश्चकि-
तश्छन्नस्तव सैन्ये विसर्पति ॥ १ ॥ कामं कामदुधं धुङ्क्ष्व
मित्राय वरुणाय च । वयं धीरेण दानेन सर्वान्कामानशी-
महि ॥ २ ॥ असमाने समानत्वं भविता कलहे मम ।
इति मत्वा ध्रुव मानी मृगात्सिंहः पलायते ॥ ३ ॥ हीन-
हत्या दधात्येव लाघव महतामपि । इति मत्वा द्विपद्वेषी
मृगात्सिंहः पलायते ॥ ४ ॥ तिष्ठार्जुनोद्य सङ्ग्रामे त्वा हनि-
ष्याम्यह शरैः । तिष्ठामि कर्ण किं मूढ मृगात्सिंहः पलायते
॥ ५ ॥ ऋषेरस्याश्रमे पुण्ये शापसन्त्रस्तमानसः । सुद्रुग्ध-
तोऽपि प्रायोऽद्य मृगात्सिंहः पलायते ॥ ६ ॥ अयं मृग समा-
याति त्वरितैस्त्वरितैः पदैः । ततो वेगात्पलायस्व मृगात्सिंह
पलायते ॥ ७ ॥ विधाया दुर्मदो येषा कार्पण्यं विभवे
सति । तेषा दैवामिशक्षाना सलिलादग्निरुत्थितः ॥ ८ ॥
सीतासमागमोत्कण्ठाकर्णान्ताकृष्टधन्वनः । राघवस्य शरा-
सारै समुद्रादमिरुत्थितः ॥ ९ ॥ दामोदरकराघातविहली-
कृतचेतसा । दृष्ट चाणूरमल्लेन शतचन्द्रं नभस्तलम् ॥ १० ॥
चलत्तरङ्गरङ्गाया गङ्गाया प्रतिबिम्बितम् । सचन्द्रं शोभते-
ऽत्यर्थं शतचन्द्र नभस्तलम् ॥ ११ ॥ विधे पिधेहि शीतांशुं
यावन्नायाति मे प्रियः । आगते दयिते कुर्याः शतचन्द्रं
नभस्तलम् ॥ १२ ॥ सुमेरुशिखरप्रान्तस्फुरद्दिव्यवधूमूखम् ।
परितः स्फुरितैः शङ्के शतचन्द्र नभस्तलम् ॥ १३ ॥ घृतं
न श्रूयते कर्णे दधि खंर्गोऽपि दुर्लभम् । मुग्धे दुग्धस्य का
वार्ता तक्रं शक्रस्य दुर्लभम् ॥ १४ ॥ अक्रूरवङ्गमत्तस्तक्र
न शतक्रतुना हुतम् । नात्तमिति वाक्यार्थात्तक्र शक्रस्य
दुर्लभम् ॥ १५ ॥ भीष्मेग्रीष्मर्तुसतप्तशून्यरथ्यान्तरस्थयोः ।अन्योन्यालापसुखिनोर्यूनोश्चन्द्रायते रविः ॥ १६ ॥ स्वस्ति
क्षत्रियदेवाय जगद्देवाय भूसुजे । यशशःपुण्डरीकान्तर्गगनं
भ्रमरायते ॥ १७ ॥ स्फुरिते जठरे विष्णोर्नवनीतभुज-
त्रिशोः । मक्षिकापादघातेन कम्पित भुवनत्रयम् ॥ १८ ॥
अतसीपुष्पसकाशं खं वीक्ष्य जलदागमे । ये वियोगेऽपि
जीवन्ति न तेषा विद्यते भयम् ॥ १९ ॥ वागर्थाविव
सम्पृक्तौ शतकोटिप्रविस्तरम् । तुंरासाह पुरोधाय नेमु. मर्वे
सुरा. शिंवौ ॥ २० ॥ आषाढी कार्तिकी माघी वचा शुण्ठी
हरीतकी । गयाया पिण्डदानेन पुण्या श्लेष्महरानृणी
॥ २१ ॥ जम्बूफलानि पक्कानि पतन्ति विमले जले ।
कपिकम्पितशाखाभ्यो गुलुगुग्गुलुगुग्गुलू ॥ २२ ॥ विदग्ध्धे
सुमुखे रक्ते नितम्बोपरि संस्थिते । कामिन्याश्लिष्टसुगले
कूजितं रतिकूजितम् ॥ २३ ॥ प्रलयसहायकरा इति गोला-
नाचम्य सकलभूमिरुहाम् । विलसति दवदहनावेलिरिह
जलवाहः पर शरणम् ॥ २४ ॥ निजपतिराध. प्रणयी
हरिर्द्वित्तीय. करोमि कि गोपि । शृणु मखि पाणिनिसूत्रं
विप्रतिषेधे पर कार्यम् ॥ २५ ॥ दैत्याना मनसि दया
जाता कृष्ण हि रक्षितु कसात् । द्रष्टुं देवमजसं दैत्यस्त्रीणा-
मपि प्रीतिः ॥ २६ ॥ श्रीनाथ नः श्रुतमिति बहुधा भ्रमता
मया नृलोकेषु । शीलं वारवधूना दैत्यस्त्रीणामपि प्रीति-
॥ २७ ॥ रामाभिषेके मदविह्वलाया हस्ताच्च्युतो हेमघट-
स्तरुण्याः । सोपानमासाद्य करोति शब्दं ठंठंठंठंठंठंठंठंठंठः

(१) 'सहस्रशीर्षा पुरुष सहस्राक्ष सहस्रपाद्' इति समस्या (२) 'काम कामदुघ धुङ्क्ष्व', 'मित्राय वरुणाय च', 'सर्वान्कामानशीमहि' इति च समस्या (३, ४, ५, ६, ७,) 'मृगात्सिह पलायते' इति समस्या (८) 'सलिलादग्निरुत्थित' इति समस्या (९) 'समुद्रादग्नि-रुत्थित ' इति समस्या (१०, ११, १२, १३,) 'शतचन्द्र नभस्तलम्' इति संमस्या (१४, १५) 'तर्क शक्रस्य दुर्लभम्' इति समस्या(१६) 'यूनोश्चन्द्रायते रविः' इति समस्या (१७) 'गगनं भ्रमरायते' इति समस्या (१८) 'मक्षिकापादघातेन कम्पित भुवनत्रयम्' इति च समस्या (१९) 'अतसीपुष्पसकाशम्', 'न तेषा विद्यते भयम्' इति च समस्या (२०) 'वागर्थाविव सम्पृक्तौ', 'शतकोटिप्रविस्तरम्' इति च समस्या (२१) 'पुण्या श्लेष्महरानृणी' इति समस्या (२२) 'गुलुगुग्गुलुगुग्गुलू' इति समस्या (२३) 'कूजित रतिकूजितम्' इति समस्या (२४) 'प्रलयसहायकरा इति गोलानाचम्य' इति समस्या (२५) 'विप्रतिषेधे पर कार्यम्' इति समस्या. (२६, २७) 'दैत्यस्त्रीणामपि प्रीतिः' इति समस्या

१ शरा एवाङ्गारा    २ अयङ्गाङ्गम    ३ इन्द्रेण    ४ दारुण१ अन्योन्यभाषणेन जाताह्लादयो .    २ इन्द्रम्    ३ पार्वतीशंकरौ
४ आषाढी कार्तिकी माघी एकादशी पुण्या वचा शुण्ठी हरीतकी श्लेष्महरा गयाया पिण्डदानेनानृणी पितॄर्णान्मुक्त इति योजना