भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 202, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 202
कूटानि१८४
$^{१}$र्णस्य $^{२}$सुवर्णस्य च जानकि । प्रेषिता तव रामेण $^{३}$सुवर्णस्य
च मुद्रिका ॥ ८ ॥ निश्चितं $^{३}$सैसुरं कोडपि न $^{४}$कुलीनं ममे-
$^{५}$ऽमतिः । सर्वथा $^{६}$सुरसंबद्धं काव्यं यो नाभिनन्दति ॥ ९ ॥
येनाकारि $^{८}$पराभूतिर्दिननायकसूनवे । यद्गोत्रोत्समभवाकान्त
तन्महं श्रेयसेऽस्तु व ॥ १० ॥ $^{११}$विजितात्मभवद्वेषिगुरु
पादहतो जनः । हिमापहामित्रधैर्य्यासं व्योमाभिनन्दति
॥ ११ ॥ $^{१३}$शंकरं पतितं दृष्ट्वा पार्वती हर्षनिर्भरा । रुरुदुः
पन्नगाः सर्वे हा हा शंकर शंकर ॥ १२ ॥ हनूमति $^{१५}$हता-
रामे वानरा हर्षनिर्भरा । रुदन्ति राक्षसाः सर्वे हा हा राम
हता हता ॥ १३ ॥ $^{१६}$विहंगराजपुत्रारेर्यन्नाम चतुरक्षरम् ।
पूर्वार्धं तव शत्रूणा परार्धं तव संगरे ॥ १४ ॥ $^{१७}$अट्टशूला
जनपदा शिवशूलाश्चतुष्पथाः । प्रमदा केशशूलिन्यो
भविष्यन्ति कलौ युगे ॥ १५ ॥ कुन्दकुङ्कमसु पश्य सरसी-
रुहलोचने । $^{१८}$अर्मुना कुन्दकुङ्केन मखि मे किं प्रयोजनम्
॥ १६ ॥ राजन्कमलपत्राक्ष तत्ते भवतु चाक्षयम् ।
आसादयति यद्रूपं $^{१९}$करेणु करणाविना ॥ १७ ॥ $^{२०}$स्तनमण्डल-
माश्रित्य नभस्य वरयोषिताम् । कदाकर्ण्यते गीतं रमया
सह रङ्गराट् ॥ १८ ॥ $^{२१}$एकोना विंशतिः स्त्रीणा स्नानार्थंसर्यू गता । विंशति पुनरायाता एको व्याघ्रेण भक्षितः
॥ १९ ॥ $^{१}$नैलोके न्योपमनस्याः सम्ने किमिति भाषसे ।
अनन्तरा सा नादिर्वा न तृतीयेति मे मतिः ॥ २० ॥
$^{२}$सुवर्णालंकृता कन्या हेमालंकारवर्जिता । $^{४}$सा कन्या विधवा
जाता गृहे गेदिति तत्पति ॥ २१ ॥ अह च त्व च
राजेन्द्र लोकनाथावुभावपि । बहुव्रीहिगहं राजन्षष्ठीतत्पुरुषो
भवान् ॥ २२ ॥ $^{६}$अप पिबन्प्रपापालीमनुरक्तो विलोकयन् ।
अगस्त्यं चिन्तयामास चतुरः मापि सागरान् ॥ २३ ॥
ब्रह्म नान्तमपि क्लीव मन सान्तं न पश्यति । किं चित्र
लोकजनक वाङ्कान्ता $^{१०}$नैव्वकान्तकम् ॥ २४ ॥ $^{११}$अर्धरात्रे
दिनस्यार्धे अर्धचन्द्रेऽर्धभास्करे । रावणेन हता सीता
कृष्णपक्षे मिताष्टमी ॥ २५ ॥ $^{१२}$शमीगर्भस्य यो गर्भस्तस्य
गर्भस्य यो रिपुः । रिपुगर्भस्य यो भर्ता स मे विष्णु
प्रसीदतु ॥ २६ ॥ $^{१३}$कैहमस्मि गुहावक्ति प्रश्वेऽस्मुष्मिन्कि-
मुत्तरम् । कथमुक्त न जानासि कदर्ययसि यत्सखि ॥ २७॥
विहंगों $^{१४}$ वाहन येषां त्रिकचक्रैधरपाणयः । $^{१६}$पमालासहिता
देवाः सदा तिष्ठन्तु ते गृहे ॥ २८ ॥ शस्त्रं $^{१७}$ नै खलु कर्तव्य-

१ अशीतिरक्तिकापरिमितस्य २ काञ्चनस्य ३ सुरया सहितं मद्यप इत्यर्थः, पक्षे,-ससुर इति पदच्छेदे सुरो देव ४ मत्कुलप्रभूतं , पक्षे, -कोलीन ५ ममे सावौ अमति श्रद्धादहित इति यावत्, पक्षे,-ममे विष्णौ मतिर्यस्य म ६ शोभनरसविशिष्ट बद्ध ग्रथितम्, पक्षे,-असुरे मद्यड युक्तम् ७ कविसुतिम, पक्षे,-शुक्रम् ८ परार्य्य, पक्षे,-परा उत्कृष्टा भृतिरैश्वर्यम ९ कर्णाय सुग्रीवाय यमाय व १० गाखायन्ते ते गोपास्तेषामात्मभवा गोपिकास्तासा कान्त मनोरम् अथ च गोत्राया पृथ्व्या जात्मभवा सीता मा कान्ता यस्य तत् अथ च गोत्रस्य हिमालयस्यात्मभवा पार्वती मा कान्ता यस्य तत् ११ कृष्णाय रामस्य शिवाय च १२ विना गरुडेनामृतानहरणसमये जित इन्द्रस्तस्यात्मवोऽर्जुनस्तद्वेषी कर्णस्तडुरु पिता सूर्यस्तत्पादहस्ततत्किरणस्तप्त हिमापहोऽग्निस्तदमित्र पानीय तडरो मे सूर्यकिरणसतप्तो जनो मेधाच्छन्नमाकाशमभिनन्दतीति तात्पर्यार्थ १३ श्रेष्ठचन्दनम् १४ पर्वतवासिनी स्त्री भिल्ली १५ हते जारा मे रावणस्योद्याने दाहिते सतीत्यर्थ १६ वय पक्षिणस्तेषा राजा गरुडस्तद्वाना विष्णुस्तत्पुत्रो मदनस्तदरि शिवस्तस्य चतुरक्षर नाम 'मृत्युजय' इति तत्पूर्वार्ध मृत्युरीति सगरे तव शत्रूणाम् उत्तरार्ध जय इति तव १७ 'अष्टमञ्च शिवो वेदो ब्राह्मणश्च चतुष्पथ । केगो भग इति प्रोक्त शूलो विक्रय उच्यते ॥' इति १८ मुकाररहितेन मुकुन्दकुञ्जेनेति यावत् १९ करेणु कर शैविना ककार रेफ णकारैर्विना यद्रूपमासादयति प्राप्नोति तत्तेऽक्षय भवत्वित्यन्वय उक्तव्यञ्जनत्रयरहितम् 'अ उ इ' इति स्वरत्रयम् तत्र अ इ इत्यत्र वृद्धौ ऐ उ इत्यत्र आयादेशे 'आयु' इति सिद्धम् २० खस्याकाशस्य मण्डलमाश्रित्य हे कद मेघ' मा स्तन गर्जितं मा कुरु यतो रङ्गराड्रङ्गनाथो रमया सह वरयोषिता गीतमाकर्णयत इत्यन्वय २१ एकोना इति विंशतेर्विशेषणेन विरोधः एको ना नरः इति पदच्छेदेन परिहार.१ कश्चित्स्वनायिका स्तौति न प्रति अन्या प्रतिभाषते हे सखे ' एतस्यास्त्रैलोक्ये उपमा नास्तीति किमिति कुतो भाषसे यत मा उपमैव अनन्तरा मध्यवर्णरहिता उमेति यावत् अथवा नैव उमा अनादि आद्यवर्णरहिता मा लक्ष्मीरिति यावत् उपमा उपमानमस्तीति भाव तृतीया नास्तीति मे बुद्धि २ सुसुवर्णेन कान्त्यालकृता ३ विशुदित्यर्थ ४ विविधा धवा पतयो यस्या सा कुलटेत्यर्थ ५ बहुव्रीहिपक्षे, -लोका जना नाथा स्वामिनो यस्यैवंविधोऽहम याचकत्वात् षष्ठीतत्पुरुषपक्षे,-लोकाना जनाना नाथ एवविधम्त्वम राजत्वेन पालकत्वात् ६ समुद्रमपि करे चुलुकयतो मुने सामर्थ्य मम चेत्स्यात्तर्हि झटिति तुष्टशान्त्यभावाच्चिरमेना पश्यामीति पान्थाभिप्राय यदि चतुर सागरा संनिहिता स्युस्तदानवरत जलधारा विसृजन्ती विरमेत्तद्दर्शनसुखमनुभवेयमिति प्रपापाव्यभिप्राय ७ न विद्यतेऽन्तो यस्य तत्, पक्षे,-नकारान्तम् ८ अन्तेन सहितम्, पक्षे,-सकारान्तम् ९ ककारोऽन्ते यस्या, पक्षे,-कान्ता रमणी १० अकस्य दु खस्यान्तक नाशकम्, पक्षे,- ककारान्तं न भवतीति तत् सान्त मनो नान्त ब्रह्म न पश्यतीनि युक्तमेव पर स्वय कान्ता वाक् अकान्तकमपि लोकजनकत्वात्कान्त ब्रह्म नैतीति चित्रमिति भाव ११ कृष्णपक्षे,- याष्टमी तस्य दिनस्यार्धे रावणेन सीता हता किल्लक्षणाष्टमी ? अर्धरात्रे सिता पु० कि० अर्धचन्द्रे किभूतेऽर्धचन्द्रे अर्धे भा करोति अर्धभास्करस्तस्मिन् १२ शम्याः शमीवृक्षस्य गर्भोऽन्तः सारस्तस्य गर्भोऽग्निस्तन्मन्थनेनोद्भवमानत्वात्, तस्याग्ने रिपुर्जल तद्गर्भो लक्ष्मीस्तस्या सागरमथनेन जलजातत्वात् तस्या भर्तेत्यादि शमीगर्भपदेन अश्वत्थ इत्यपि केचित् तदापि सुवर्णं अश्वत्थस्यापि वह्नियोनित्वात् १३ कहमित्यत्र कथ 'खधथधभास्' इति कात्यायमसूत्रेण प्राकृते थकारस्थाने हकार १४ वि गरुड, हंस, गोः वृषभ १५ त्रिशूलः, कम्बुः चक्रम् १६ पार्वती, सावित्री, लक्ष्मी० १७ नखान् लुनातीति नखलु नखच्छेदकम्.