भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 226, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 226

चन्द्रान्योक्तयः, मेघान्योक्तयः | २११


प्रयाति परमां वृद्धिं स रत्नाकरः ॥ ३७ ॥ जन्म क्षीरमहार्णवे सहभुवः श्रीपारिजातादयो बिम्बं यस्य सुधामयं त्रिभु- वनाधीशस्य मूर्ध्नि स्थितिः । इत्थं सर्वचराचरप्रियकरे यस्यो- दये चेद्भवेत्सङ्कोचः कमलस्य दुष्कृतिरसौ निन्द्यो न ताराधिपः ॥ ३८ ॥ इन्दुं निन्दतु नाम वाथ नलिनी निन्दन्तु चक्राह्वया नैवानेन सुधाकरस्य सुषमाहानिर्न वा दुर्यशः । एतेनैव कृतार्थतास्य जनता यन्मोदमालम्बते यच्च्योत्स्नासु चिरं चकोरपरिषच्चञ्चुपुटं न्यस्यति ॥ ३९ ॥ लक्ष्मीकेलिगृहे कुरेशयदशा पाणियुतिद्रोहिणि श्यामासूक्ति- सुधासहोदरमधुप्रस्यन्दसंदोहिनी । जीयातुस्त्रिदिवौकसां त्रिजगतामाप्यायनं चन्द्रमस्त्वं चेदम्बुरुहे न रज्यसि गुण- श्लाघा बतास्तं गता ॥ ४० ॥ यातेयं रजनी सहैव भवता भावी प्रकाशो दिशां सूर्येणापि चिरं चकोरनिचयैः स्थेयं क्वचित्कानने । उद्यद्दारुणचण्डभानुजदवज्वाले जग- न्मण्डले कस्मै चन्द्र समर्प्य कैरवकुलं व्योमान्तमाल- म्बसे ॥ ४१ ॥ नक्षत्राणि बहूनि सन्ति परितः पूर्णोदया- न्यम्बरे किं तैः शान्तिमुपैति दीर्घतिमिरं किं वारिधिरुज्जृ- म्भते । किं स्यादार्तचकोरपारणविधिस्त्रातः सुधादीधिते तन्नूनं भुवनैकतापशमनः श्लाघ्यस्त्वैवोदयः ॥ ४२ ॥ ध्माता भालतलानलैः कवलिता कण्ठस्थहालाहलैरालीढाथ जटा- टवीविलुठितैराशीविषाणां गणैः । छन्ना भस्मभिराहतास्थि- पटलैः क्लिन्नाद्रिचर्मोम्बरेः स्वीयां मुञ्चति माधुरीं हरशिरोरत्नं किमिन्दोः कला ॥ ४३ ॥ श्रीमाहेश्वरमौलिमण्डनमणि- र्वैश्वंभरं लोचनं त्वं रत्नाकरसम्भवः किमपरं भूदेवदेवो भवान् । यद्वालानलसङ्गदोषभ्रमाद्बध्नासे नोन्मोज्जातं तत्किमि- हास्ति ते सुमनसश्चित्रं कलानां निधे ॥ ४४ ॥ येनास- भ्युदितेन चन्द्र गमितः क्लान्तिं रवौ तत्र ते युज्येत प्रति- कर्तुमेव न पुनस्तस्यैव पादग्रहः । क्षीणेनैतदनुष्ठितं यदि ततः किं लज्जसे नो मनागस्त्वेव जडधामता तु भवतो यद्द्योम्नि विस्फूर्जसे ॥ ४५ ॥ जन्म क्षीरनिधौ तथैव विपुलं पीयूषपूर्णं वपुः संतापार्तिहरं हरस्य शिरसि स्थानं सदा सुन्दरम् । तारानाथ निशामुखैकतिलक ख्यातौषधीना- पते चन्द्र त्वां वसनाञ्चलस्य दशया समावयामः कथम् ॥ ४६ ॥ इन्दुर्यद्युदयाद्रिमूर्ध्नि न भवत्यद्यापि तन्मा स्म भून्नासीरेऽपि तमःसमुच्चयसमूरून्मूलयन्ति त्विषः । अप्यक्ष्णोर्मुदमुद्वहन्ति कुमुदैरामोदयन्ते दिशः सप्रत्यूर्ध्वमसौ तु लाञ्छनमभिव्यक्तं प्रकाशिष्यते ॥ ४७ ॥ पूर्णः पङ्कज- लोचनासुखतुलामायासिकलक्रमात्क्षीणोऽपि क्षणदापते पशुपतेरायासि भूषास्पदम् । एतस्मिन्नथ सैंहिकेयकवलक्लेशै र्मनाग्वर्तिनि त्वं साधारणवसुधाकर मुधा हा हन्त किं ताम्यसि ॥ ४८ ॥ भीतो वाडववासतो जननिधौ शम्भोः शिरः स्वीकृतं तत्र त्र्यम्बकमौलित्रासुकिविषज्वालावली- त्रासितः । तञ्चालोकमगाद्दिवं निपतितस्तत्रैव राहोर्मुखं प्रायो गच्छति यत्र भाग्यस्रहितस्तत्रैव यान्त्यापदः ॥ ४९ ॥


मेघान्योक्तयः

प्रावृषेण्यस्य मालिन्यं दोषः कोऽभीष्टवर्षिणः । शारदा- भ्रस्य शुभ्रत्वं वद कुत्रोपयुज्यते ॥ १ ॥ चातकः स्वानु- मानेन जलं प्रार्थयतेऽम्बुदात् । स चौदार्यतया सर्वां प्लावय- त्यम्बुना महीम् ॥ २ ॥ त्वयि वर्षति पर्जन्ये सर्वे पल्लविता द्रुमाः । अस्माकमर्कवृक्षाणां पूर्वपत्रेऽपि संशयः ॥ ३ ॥ आसन्त्यावन्ति याच्ञासु चातकाश्रूणि चाम्बुद । तावन्तोऽपि त्वया मेघ न मुक्ता वारिविन्दवः ॥ ४ ॥ त्वमेव चातका- धार इति केषां न गोचरः । धिग्ममोधर तस्यापि कार्प- ण्योक्तिं प्रतीक्षसे ॥ ५ ॥ यदम्बुकणमादाय प्राप्तोऽसि जल- दोन्नतिम् । तस्योपर्यम्बुधेर्गर्जन् मलिनस्योचितैव ते ॥ ६ ॥ नोपेक्षा न च दाक्षिण्यं न प्रीतिर्न च संगतिः । तथापि हरते तापं लोकानामुद्यतो घनः ॥ ७ ॥ समागमिष्यतो- ऽम्मोद वेत्ति कः समयं तव । रौति नो यदि सारङ्गरतदोष्णैः खे पुरःसरः ॥ ८ ॥ आश्रयः कियतामेष तरु सन्मार्गमा- श्रितः । पाथोद सिञ्चता काले नोपेक्ष्यो दूरभावतः ॥ ९ ॥ सन्ति कूपा स्फुरत्कूपाः सागरः सरितस्तथा । तथापि चातकस्यैकं फलदो जलदोदयः ॥ १० ॥ नदेभ्योऽपि ह्रदे- भ्योऽपि पिबन्त्यन्ये सदा पयः । चातकस्य तु जीमूत भवानेवावलम्बनम् ॥ ११ ॥ एकस्य तस्य मन्ये धन्याम- भ्युन्नतिं जलधरस्य । विश्वं सशैलकाननमाननमवलोकते यस्य ॥ १२ ॥ सम्प्रति न कल्पतरवो न सिद्धयो नापि देवता वरदाः । जलद त्वयि विश्राम्यति सृष्टिरियं भुवन- लोकस्य ॥ १३ ॥ क्षणदृष्टनष्टदलितो निजसम्पत्तेः पयोद- निवहेन । ज्ञातं साधु यदुचितं भुवनेभ्यो वितरता वारि ॥ १४ ॥ जलधर जलभरनिकरैरपहर परितापमुद्धृतं जगतः । नो चेदपसर दूरं हिमकरकरदर्शनं वितर ॥ १५ ॥ अयि जलद यदि न दास्यसि कतिचित्त्वं चातकाय जल- कणिका । तदयमचिरेण भविता सलिलाञ्जलिदान- योग्यस्ते ॥ १६ ॥ नैताः स्वयमुपमोक्ष्यसि मोक्ष्यसि जलदो-


पादटिप्पण्यः (Footnotes): १ समुद्र २ तापिता ३ जटारूपा या अटवी अरण्यं तस्मिन्विलुठितै ४ सर्पाणाम् ५ छेदयुक्ता १ प्रावृट्कालिकस्य २ मलिनता ३ अखिलजनतायाः