भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 225, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 225

२१० सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्

द्विजेन्द्रेण । अपि गलं फणिफूत्कृतिरीक्षणतीक्ष्णांशुशुक्षणि क्षान्तः ॥ ७ ॥ निजकरनिकरप्रमृष्ट्या धवलय भुवनानि पार्वण शशाङ्क । सुचिर हन्त न सहते हतविधिरिह सुस्थितं कमपि ॥ ८ ॥ यद्यपि शिरोऽधिरोहसि रौद्रं कोवेन मिहिकातनय । त्यजति न शरण यात सागरसूनुर्मृगं तदपि ॥ ९ ॥ प्रोषितवति रजनिकरे बन्धुतया न खलु कैरवाण्यैव । म्लायन्ति किंतु सहसा भुवनान्यपि तमसि मज्जन्ति ॥ १० ॥ शंकरशिरसि निवेशितपदेति मा गर्वमुद्वहेन्दुकले । फलमेतस्य भविष्यति तव चण्डीचरणरेणुमृजा ॥ ११ ॥ या महेशशिरसो विभूषणं या त्रिलोकजनलोचनोत्सव । सेयमिन्दुकलिका दिनात्यये तापिता कमिह नातितापयेत् ॥ १२ ॥ रञ्जिता न ककुभो निवेशिता नार्चिषो वत चकोरचञ्चुषु । कष्टमिन्दुरुदये निपीयते दारुणेन तमसा बलीयसा ॥ १३ ॥ किरति प्रकरं गवां प्रकर्षं सुमनस्खच्छतर विधौ कलानाम् । कति चेत्कलयन्ति यद्वबोध कति चेन्नेति स तत्स्वभाव एव ॥ १४ ॥ विधेः कलानामपि रीतिरेषा मर्माणि मे सस्पृशतीव भूयः । कुतो विशेषात्कुमुदेऽनुरागः कुतो विरागश्च कुशेशयेषु ॥ १५ ॥ निष्पीडितो यद्यपि दैवयोगान्निशाकरश्चापि विधुंतुदेन । तथापि पीयूषविशेषवर्षी सुधाकर कैरवकाननेषु ॥ १६ ॥ वक्रोऽस्तु बाल्ये तदनु प्रवृद्ध कलङ्कवानस्तु जडोऽस्तु चन्द्रः । महेशमौलौ च पदं दधातु जायेत वन्द्यो विविधोपकारात् ॥ १७ ॥ तारागणाश्चन्द्रमसं भजन्ते न जातु नाथं नलिनाकराणाम् । एतावता तस्य किमस्ति हानिर्ज्ञाता तयोरन्तरमेष लोक ॥ १८ ॥ यस्योदयेनैव दिशां प्रसादस्तापापनोदोऽपि जगत्त्रयस्य । चकोरचञ्चुपुटपारणे तु चन्द्रस्य तस्यास्ति कियान्प्रयास ॥ १९ ॥ प्रकुर्वता संगतिमिन्दुनाधुना किं किं च लब्धं जगदीश्वरेण वै । कलङ्कहानिः सुरसिन्धुसंगमः कलाक्षयित्वं च पदं तथोच्चकै ॥ २० ॥ नयनमसि जनार्दनस्य शंभोर्मुकुटमणिः सुदृशां त्वमादिदेवः । त्यजसि न मृगमात्रमेकमिन्दो चिरमिति येन कलङ्किनं वदन्ति ॥ २१ ॥ विरम तिमिर साँहसादमुष्माद्यदि रविरस्तमितः स्वतस्ततः किम् । कलयसि न पुरो महोर्मिधाराद्युतिनिधिरभ्युदयत्ययं शशाङ्कः ॥ २२ ॥ आस्ते विधुः परमनिवृत एव मौलौ शंभोरिति त्रिजगतीजनचित्तवृत्तिः । अन्तर्निर्गूढनयनाननदाहदुःखं जानाति कः परभृते बत शीतरश्मेः ॥ २३ ॥ एकैव सा मृतमयी सुतराममर्ध्या काप्यस्त्यसौ हिमकरस्य कला ययैव । आरोपितो गुणविदा परमेश्वरेण चूडामणौ न गणितोऽस्य कलङ्कदोषः ॥ २४ ॥ श्रेयान्विधोर्बहुहुलपक्षपरिक्षयोऽपि नो पूर्णतापि जलधेरिह वर्णनीया । यद्वारि न स्पृशति हन्त पृथग्जनोऽपि यस्यामृतेर्मखभुजोऽपि मुदं लभन्ते ॥ २५ ॥ मौरस्य मित्रमसि कि च सुधामयूरख शंभावपि प्रणयितां प्रकटीकरोषि । विश्वासपात्रमसि यद्विषतोस्तयोरप्येतत्तव प्रकृतिशुद्धतनोश्चरित्रम् ॥ २६ ॥ रत्नाकरो जनयिता सहजश्च वर्गः किं कथ्यताममृतकोस्तुभपारिजाताः । किं तैरचिन्त्यमिह तत्पुनरन्यदेव तत्त्वान्तरं कुमुदबन्धुरसौ यदिन्दु ॥ २७ ॥ नानन्दि कैरवमवर्धि न वाम्बुराशिरादीपि नाम्बरमहारि न वान्धकारः । धिग्दैवदुर्विलसितं यदसौ सुधाशुरभ्युद्यतश्च तमसा कवलीकृतश्च ॥ २८ ॥ चन्द्रं समाश्रयति नाम तिथिष्वनेका क्षीणस्तु बिम्बपरिपूरणमपूरणाय । एवं पुनः सकलमण्डलपूर्णवर्णं सा पूर्णिमैव खलु पूरयितुं समर्था ॥ २९ ॥ खैरा दिशः कुमुदमुन्निदुरं पिबन्ति ज्योत्स्नाकरम्भमुदरभरयश्चकोराः । आः कीदृगत्रिमुनिलोचनदूषिकाया पीयूषदीधितिरिति प्रथितोऽनुरागः ॥ ३० ॥ हिमकर परभागं भूषयिष्यन्सुमेरोर्व्रजसि यदि तदाहं न क्षमः संनिरोद्धुम् । इति तु बहुविधाभिः काकुभिः प्रार्थये त्वां पुनरपि कुमुदानामत्यान्तायो विषादः ॥ ३१ ॥ कलास्तास्ताः सम्यग्वहसि यदसि त्वं द्विजपतिर्धुतिस्तादृग्भूम्ना जनिरपि च रत्नाकरकुले । बहु ब्रूम किंवा पुरहगशिरोमण्डलमसि त्वदीयं तत्सर्वं शशधर कलङ्काद्विफलितम् ॥ ३२ ॥ पादन्यासं क्षितिधरगुरोर्मूध्निं कृत्वा सुमेरोः कान्तं येन क्षपिततमसा मध्यमं धाम विष्णोः । सोऽयं चन्द्रः पतति गगनादल्पशेषैर्मयूर्खेदूरारोहो भवति महतामप्यपभ्रंशहेतुः ॥ ३३ ॥ त्वं भोः शंभोर्निवाससि शिरोदेशमाश्रित्य निलयं तत्त्वां याचे जगदुपकृतिव्यापृतिक्यग्रमिन्दो । यः सद्भावस्तव परिणतः कैरवे वा चकोरे स्पृश्यस्तेन प्रतिनिशमसौ चक्रवाको वराकः ॥ ३४ ॥ यज्जातोऽसि पयोनिधौ हरजटाजूटे प्रसिद्धोऽसि यद्विश्वस्योद्रदीपकोऽसि विधिना सृष्टोऽसि यच्चामृतैः । भ्रातः शीतमयूरख सर्वमधुना म्लानीकृतं तत्त्वया राजीवं यदपास्य कैरवकुलं नीतं विकासास्पदम् ॥ ३५ ॥ पीयूषं वपुषोऽस्य हेतुरुदयो विश्वस्य नेत्रोत्सवः पुष्टं भानुकरैरिरं त्रिमुवनं ज्योत्स्नांभरेः सिञ्चति । सर्वाशाप्रतिरोधकान्धतमसध्वंसाय बद्धोद्यमो धिग्धातारमिहापि लक्ष्म लिखितुं यस्य प्रवृत्तं मनः ॥ ३६ ॥ उच्चैःस्थानकृतोदयैर्बहुविधेर्ज्यौतिर्मिरुद्यत्प्रभैः शुक्राद्यैः किममीभिरत्र वितथा प्रौढिं दधानैरपि । यावल्लोकतमोपहेन भवता लक्ष्मीर्न विस्तार्यते तावच्चन्द्र कथं


पादटिप्पण्यः (Left Footnotes): १ तृतीयनेत्रस्थितस्तीक्ष्णाग्नि
२ राहुणा
३ राहुणा
४ कुमुदवनेषु
५ सूर्यम्
६ अयथावलमारम्भात्
७ पश्यसि
८ गुप्त

पादटिप्पण्यः (Right Footnotes): १ नदनस्य
२ प्रीतिम्
३ राहुणा
४ नक्षत्रै