सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 224, कुल 516 में से
संदर्भ में पढ़ेंपञ्चममन्योक्तिप्रकरणम्
सूर्यान्योक्तयः
रवेरेवोदयः श्लाघ्यः कोऽन्येषामुदयग्रहः । न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति ॥ १ ॥
खद्योतो द्योतते तावद्यावन्नोदयते शशी । उदिते तु सहस्रांशौ न खद्योतो न चन्द्रमाः ॥ २ ॥
तस्यैवाभ्युदयो भूयाद्भानोर्यस्योदये सति । विकासभाजो जायन्ते गुणिनः कमलाकराः ॥ ३ ॥
निमीलनाय पद्मानामुदयायाल्पतेजसाम् । तमसांमवकाशाय भजत्यस्तमसौ रविः ॥ ४ ॥
करस्फोटोडम्बरत्यागस्तेजोहानिः सरागता । वारुणीसंगजावस्था भानुनाप्यनुभूयते ॥ ५ ॥
अजस्रं लसत्पद्मिनीवृन्दसङ्गं मधुनि प्रकाभं पिबन्तं मिलिन्दम् । रविर्मोचयत्यब्जकारागृहेभ्यो दयालुहिं नो दुष्टवदोषदर्शी ॥ ६ ॥
एतावत्सरसिजकुण्डलस्य कृत्यं भित्त्वाम्भोसरसि विनिर्गमो बहिर्यत् । आमोदो विकसनमिन्दिरानिवासस्तत्सर्वं दिनकरकृत्यमाममन्ति ॥ ७ ॥
देवो हरिवह्तु वक्षसि कौस्तुभं तन्मन्ये च काचन पुनर्भुगणेः प्रतिष्ठा । यत्पादसंगतिसमर्पितसौरभाणि धत्ते स एव शिरसा सरसीरुहाणि ॥ ८ ॥
उद्वन्वन्मूर्नि सुवहूनि महामहांसि चन्द्रोऽप्यलं भुवनमण्डलमण्डनाय । सूर्यादृते न तदुदेति न चास्तमेति येनोदितेन दिनमस्तमितेन रात्रिः ॥ ९ ॥
विक्रीमितमोहितजगज्जनरञ्जनादि सर्वे भविष्यति रवेरिव चन्द्रतोऽपि । किं स्वस्तगामिनि रवौ भविता न जाने राजीवजीवनविधौ कतमः प्रकारः ॥ १० ॥
अधिगमनमनेकास्तारका राजमानाः प्रतिगृहमपि दीपाः प्राप्नुवन्ति प्रतिष्ठाम् । दिशि दिशि विकसन्तः सन्ति खद्योतपोताः सवितरि उदितेऽस्मिन्किं तु लोकैरालोकि ॥ ११ ॥
गते तस्मिन्भानौ त्रिभुवनसमुन्मेषविरहव्यथा चन्द्रो नेष्यत्यनुचितमितो नास्ति किमपि । इदं चेतस्तापं जनयतितरामत्र यदमी प्रदीपाः सजातास्तिमिरहतिबद्धोद्धुरशिखाः ॥ १२ ॥
पातः पूष्णो भवति महते नोपता पाय यस्मात्कालेनास्तं क इह न गता यान्ति यास्यन्ति चान्ये । एतावत्तु व्यथयति यदालोकबाह्यैस्तमोभिस्तस्मिन्नेव प्रकृतिमहति व्योम्नि लब्धोऽवकाशः ॥ १३ ॥
पततु नभसो गच्छत्वस्तं निमज्जतु वारिधौ व्रजतु वरुणागारद्वार प्रभाभिरनाहतः । तदपि तरणिर्दत्त्वा पादं शिरःसु महीभृता दलिततिमिरव्रातः प्रातः पुनः सकृदेष्यति ॥ १४ ॥
येनोन्मथ्य तमांसि मासलघनस्पर्धीनि सर्वे जगच्चक्षुष्मत्परमार्थतः कृतमिदं देवेन तिग्मत्विषा । तस्मिन्नस्तमिते विवस्वति कियान्क्रूरो जनो दुर्जनो यद्बध्नाति धृतिं शशाङ्कशकलोके प्रदीपेऽथवा ॥ १५ ॥
यत्पादाः शिरसा न केन विधृताः पृथ्विभृता मध्यस्तस्मिन्भास्वति राहुणा कवलिते लोकत्रयीचक्षुषि । खद्योतैः स्फुरितं तमोभिरुदितं तारामिरुज्जृम्भितं धूकैरुत्थितमः किमत्र करवै किं किं न कैश्चेष्टितम् ॥ १६ ॥
पूर्वाङ्गे प्रतिबोध्य पङ्कजवनन्युत्सार्य नैशं तमः कृत्वा चन्द्रमस प्रकाशरहितं निस्तेजस तेजसा । मध्याह्ने सरिता पयः प्रविततैरापीय दीप्तैः करैः सायाह्ने रविरस्तमेति विवशः किं नाम शोच्यं भवेत् ॥ १७ ॥
दूर यान्तु निशाचराः शशिकराः क्लेशं लभन्तांतारासमुद्द्योतं कलयन्तु हन्त न चिर खद्योतका द्योतले । ध्वान्तं ध्वंसमुपैतु हंसनिवहः पद्माकरे शाम्यतु प्राचीपर्वतमौलिमण्डनमणिः सूर्य समुज्जृम्भते ॥ १८ ॥
चन्द्रान्योक्तयः
आलोकवन्तः सन्त्येव भूयांसो भास्करादयः । कलावानेव तु औंन्द्रावकर्मणि कर्मठः ॥ १ ॥
दैवादद्यपि तुल्योऽभूद्भूतेशस्य परिग्रहः । तथापि किं कैमोलानि तुला यान्ति कलानिधेः ॥ २ ॥
अहो नक्षत्रराजस्य साभिमानं विचेष्टितम् । परिक्षीणस्य वक्रत्वं संपूर्णस्य सुवृत्तता ॥ ३ ॥
व्यज्यमानकलङ्कस्य वृद्धौ सति कलानिधेः । आशास्महे वयं पूर्वो सर्वश्लाघ्या कृशा दशाम् ॥ ४ ॥
क्षीणः क्षीणः समीपत्वं पूर्णः पूर्णोऽतिदूरताम् । उपैति मित्राँचन्द्रो युक्तं तन्मलिनात्मनः ॥ ५ ॥
निशाचरोऽपि दीनोऽपि सकलङ्कोऽपि चन्द्रमाः । चकोरीनयनद्वन्द्वमानन्दयति सर्वदा ॥ ६ ॥
हरमुकुटे सुरतटिनीनिकटस्थितिलामतो
पादटिप्पण्यः (Footnotes)
[स्तम्भ १]: १ ज्योतिरिङ्गण २ सूर्ये ३ किरणा, पक्षे,-हस्ता ४ आकाश, पक्षे,-वस्त्रम् ५ वरुणदिक्, पक्षे,-मद्यविशेष. २७ सु. र भां.
[स्तम्भ २]: १ किरणा., पक्षे,-चरणा . २ शैलानाम्, पक्षे,-राज्ञाम् ३ सूर्ये ४ ग्रस्ते ५ दिवान्धे ६ उत्निद्राणि कृत्वा ७ निशासम्बन्धि ८ प्रकाशवन्तः ९ बहव १० पाषाण ११ समर्थ १२ कपालास्थीनि १३ सूर्यात्, पक्षे,-स्निग्धात् १४ कलङ्किन..