सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 284, कुल 516 में से
संदर्भ में पढ़ेंतरुणीपृथगवयववर्णनम्
लचेलाञ्चलो भाति । सपताकः कनकमयो विजय-
स्तम्भ स्मरस्येव ॥ ३९० ॥ तरुमुरुयुगेन सुन्दरी किमु
रम्भा परिणाहिना परम् । तरुणीमपि जिष्णुरेव ता धनदा-
पत्यतपःफलस्तनीम् ॥ ३९१ ॥ रम्भापि किं चिह्नयति
प्रकाण्डं न चात्मनः खेन न चैतदूरू । खस्यैव येनो-
परि सा ददाना पत्राणि जागर्त्यनयोर्भ्रमेण ॥ ३९२ ॥
विधाय मूर्धानमधश्चरेन्मुञ्चेत्तपोभिः स्वमसारभावम् ।
जाड्यं च नाल्वेकदली बलीयस्तदा यदि स्यादिदमूरुचारु
॥ ३९३ ॥ ऊरुप्रकाण्डद्वितयेन तस्याः करः पराजीयत
वारणीयः । युक्तं ह्रिया कुण्डलनच्छलेन गोपायति स्वं
मुखपुष्करं सः ॥ ३९४ ॥ अस्या मुनीनामपि मोदमूहे भृगु-
र्महान् यत्कुचशैलशैली । नानारदाह्लादि मुखं श्रितोरूर्व्यासो
महाभारतसर्गयोग्यः ॥ ३९५ ॥ पश्यन्हतो मन्मथबाणपातैः
शक्तो विधातुं न निमील्य चक्षुः । ऊरू विधात्रा हि कथं
कृतौ तौ विन्यासवत्या सुमतेर्वितर्के ॥३९६॥ नागेन्द्रहस्त-
स्त्वचि कर्कशत्वादेकान्तशैत्यात्कदलीविशेषाः । लब्ध्वापि लोके
परिणाहि रूपं जातास्तदूरूपममानबाह्याः ॥ ३९७ ॥ कदली
कदली करभः करभः करिराजकरः करिराजकरः । भुवन-
त्रितयेऽपि बिभर्ति तुलामिदमूरुयुगं न चमूरुदृशः ॥ ३९८ ॥
जङ्घे
जङ्घे तदीये सतापं यज्जनस्यानुरागिणः । जनयाञ्चक्रतु-
स्तीव्रं तत्र हेतुर्विलोमता ॥ ३९९ ॥ हेममञ्जीरमालाभ्यां
भाति जङ्घालताद्वयम् । लावण्याय कृतास्नानं कुङ्कुमेनेव
सुभ्रुवः ॥ ४०० ॥ वृत्तानुपूर्वे च न चातिदीर्घे जङ्घे शुभे
सुष्ठवतस्तदीये । शेषाङ्गनिर्माणविधौ विधातुर्लावण्य उत्पाद्य
इवास यत्नः ॥ ४०१ ॥ क्रमोद्गता पीवरताधिजङ्घं वृक्षाधि-
रूढं विदुषी किमस्याः । अपि भ्रमीभङ्गिभिरावृताङ्गं वासो
लतावेष्टितकप्रवीणम् ॥ ४०२ ॥
चरणौ
अमूल्यस्य मम स्वर्णतुलाकोटिद्वयं कियत् । इति
कोपादिवाताम्रं पादयुग्मं मृगीदृशः ॥ ४०३ ॥ जाग्रतः
कमलालक्ष्मीं यज्जग्राह तदद्भुतम् । पादद्वन्द्वस्य मत्तेम-
गतिस्तेये तु का स्तुतिः ॥ ४०४ ॥ स्तनभारोऽत्र वक्त्रेन्दु-
चन्द्रिकावरणं मम । इति तत्पादयोर्लग्ना वेन्नि प्राङ्गणपद्मिनी
॥ ४०५ ॥ अल्पपूर्वस्य रागस्य पूर्वपक्षाय पल्लवाः ।
पद्मानि पादयुग्मस्य प्रत्युदाहरणानि च ॥ ४०६ ॥ दृश्यन्ते
मानसोत्तंसा राजहंसाः क्वचिद्यदि । गतौ चरणयोस्तस्याः
प्रक्ष्यते यावदन्तरम् ॥ ४०७ ॥ नितम्बपीड्यमानेन पाद-
युग्मेन सुभ्रुवः । कृता भृकुटिभङ्गीव नीलनूपुरमालया
॥ ४०८ ॥ चरणकमले तदीये लाक्षाबालातपेन सवलितम् ।
अध्यास्त भृङ्गमालावेलिभिर्मणिलचितनूपुरव्याजान् ॥४०९॥
अनुरणन्मणिमेखलमविरलसिञ्जानमञ्जुमञ्जीरम् । परिसरण-
मरुणचरणे रणरणकमकारणं कुरुते ॥ ४१० ॥ दशकैरवबा-
न्धवान्दधानौ जडसंसर्गविमुक्तिसावधानौ । चरणौ नलिनेन
तोलयन्तः कथमस्या कवयो न यान्ति लज्जाम् ॥ ४११ ॥
अभ्युद्यताङ्गुष्ठनखप्रभाभिर्निक्षेपणाद्रागमिवोद्विरन्तौ । आज-
ह्रतुस्तच्चरणौ पृथिव्यां स्थलारविन्दश्रियम्व्यवस्थाम् ॥४१२॥
अस्याः पदौ चारुतया महान्तावपेक्ष्य सौक्ष्म्याल्लवभावभाजः ।
जाता प्रवालस्य महीरुहाणां जानीमहे पल्लवशन्द-
लब्धिः ॥ ४१३ ॥ जगद्वधूमूर्धसु रूपदर्पायदेतयाधायि
पदारविन्दम् । तत्सान्द्रसिन्दूरपरागरागैर्द्वयं प्रवालप्रबलारुणं
तत् ॥ ४१४ ॥ यानेन तन्व्या जितदन्तिनाथौ पदाम्बु-
राजौ परिशुद्धपार्ष्णी । जाने न शुश्रूषयितुं स्वमिच्छू नतेन
मूर्ध्ना कतरस्य राज्ञः ॥ ४१५ ॥ प्रियासखीभूतवतो मुदेदं
व्यधाद्विधिः साधुदशत्वमिन्दोः । एतत्पदच्छद्मसरागप-
द्मसौभाग्यभाग्यं कथमन्यथा स्यात् ॥ ४१६ ॥
गुल्फौ
अरुन्धतीकामपुरंध्रिलक्ष्मीजम्भद्विषद्दारनवाम्बिकानाम् ।
चतुर्दशीयं तदिहोचितैव गुल्फद्वयासा यददृश्यसिद्धिः ॥४१७॥
पादाङ्गुल्यः
एष्यन्ति यावद्गुणनादिगन्तान्नृपाः स्मरार्ताः शरणं प्रवेष्टुम् । इमे
पदाम्जे विधिनापि सृष्टास्तावत्य एवाङ्गुलयोऽत्र रेखाः ॥४१८॥
नखाः
तस्याः पादनखश्रेणी शोभते किल सुभ्रुवः । रत्नावलीव
लावण्यरत्नाकरसमुद्गता ॥ ४१९ ॥ तत्पादनखरखानां
यदवलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः
॥ ४२० ॥ तद्वक्त्रं नेत्रपद्मं प्रकटितममकृत्सार्पितं यन्मथैत-
ज्जातं तस्मात्कृशाश्वं ग्रहणमपि ततो जायमानः कलङ्कः ।
तत्सर्वं क्षम्यतां मे पुनरपि न करोम्येवमुक्त्वा तु तस्या गाढं
लग्नः शशाङ्कश्चरणनखमणिच्छद्मना पादयुग्मम् ॥ ४२१ ॥
गमनम्
सलीलमिममायान्ती कामिनी गजगामिनी । उन्नतं
हि नखज्योतिः पुष्पैर्भुवमिवार्चति ॥ ४२२ ॥ मारयन्त्या
जनं सर्वं निरागसमिवाज्ञया । मातङ्गानां गतिर्याहक्ता-
दृगासीदस्यायम् ॥ ४२३ ॥ सा राजहंसैरिव सन्नताङ्गी
गतेषु लीलाञ्चितविक्रमेषु । व्यनीयत प्रत्युपदेशलुब्धैरादि-
त्सुभिर्नूपुरसिञ्जितानि ॥ ४२४ ॥ गुरुतरकलनूपुरानुनादं
सललितनर्तितवामपादपद्मा । इतरदनतिलोलमादधाना
पदमथ मन्मथमन्थरं जगाम ॥ ४२५ ॥
जृम्भा
चक्रीकृतभुजगतिकं वक्रीकृतवक्त्रमुन्नमद्ग्रीवम् । नो
हरति कस्य हृदयं हरिणदृशो जृम्भणारम्भः ॥ ४२६ ॥
¹ शुण्डा ² नियमेन ³ सुवर्णस्य विंशतिपलात्मकस्य तुला-कोटिद्वयम्, पक्षे,-पादाङ्गदद्वयम्