भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 299, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 299

२८४ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्

वाम-भागःदक्षिण-भागः
आलोकये कथं सख्यस्तस्य चन्द्रमसो मुखम् ॥ ४ ॥
विर॑मत विरमत सख्यो नलिनीदलतालवृन्तपवनेन । हृदयगतोऽयं वह्निर्नटिति कदाचिज्ज्वलत्येव ॥ ५ ॥
अनलस्तम्भनविद्या सुभग भवाञ्च्छितमेव जानाति । मन्मथशराग्नितप्ते हृदि मे कथमन्वथा वससि ॥ ६ ॥
अजनि प्रतिदिनमेषा कर्दमशेषा मदङ्गसङ्गेन । प्रतिनिशमपूरि पम्पा दक्षिणसपातिभि. सलिलैः ॥ ७ ॥
मदकलकृतान्तकासरखुरपुटनिधू॑तधूलिसकाशम् । केतकरजो निवार्य सखि यदि कार्ये मम प्राणैः ॥ ८ ॥
आलि बालिशतया बलिरस्मै दीयता बलिभुजे न कदापि । केवलं हि कलकण्ठशिशूनामेष एव कुशलेषु निदानम् ॥ ९ ॥
गरलद्रुमकन्दमिन्दुबिम्बं करुणावारिजवारणो वसन्त. । रजनी खरभूपतेः कृपाणी करणीयं किमत. परं विधातः ॥ १० ॥
हन्तालि संतापन्निवृत्तयेऽस्या किं तालवृन्तं तरलीकरोषि । उत्ताप एषोऽन्तरदाहहेतुर्नतन्वो नँ व्यजनापनोद्य ॥ ११ ॥
वरमसौ दिवसो न पुनर्निंशा ननु निशैव वर न पुनर्दिनम् । उभयमेतदुपैत्वथवा क्षयं प्रियजनेन न यत्र समागमः ॥ १२ ॥
अहमिह स्थितवत्यपि तावकी त्वमपि तत्र वसन्नपि मामकः । न तनुसगम एव सुसगमो हृदयसगम एव सुसगम. ॥१३॥
बकुलमालिकयापि मया न ता तनुरभूषि तदन्तरभीरुणा । तद्‌धुना विधिना कृतमावयोरिगिरिदरीनगरीशतमन्तरम् ॥ १४ ॥
दहनजा न पृथुर्दवधुर्व्यथा विरहजैव यथा यदि नेदृशम् । दहनमाशु विशन्ति कथं स्त्रियः प्रियमपामुसुपासितुमुद्दुरा. ॥ १५ ॥
कति न सन्ति जना जगतीतले तदपि तद्विरहाकुलितं मनः । कति न सन्ति निशाकरतारका. कमलिनी मलिनी रविणा विना ॥ १६ ॥
अरतिरियमुपैति नापि निद्रा गणयति तस्य गुणानन्मनो न दोषान् । विगलति रजनी न सगमाशा व्रजति तनुस्तनुता न चानुरागः ॥ १७॥
प्रियसखि न तथा पटीरपङ्को न च नलिनीदलमारुतोऽपि शीतः । शमयति मम देहदाहमन्तः सपदि कथा हि यथा नरेन्द्रसूनोः ॥ १८ ॥
एतानि निःसहतनोरसमञ्जसानि शून्यं मनः पिशुनयन्ति गतागतानि । एते च तीरतरव प्रथयन्ति तापमालम्बितोज्झिततरुग्लपितैः प्रवालै. ॥ १९ ॥
अन्तर्गता मदनवह्निशिखावली या सा बाधते किमपि चन्दनचर्चितेन । य. कुम्भकारभवनोपरि पङ्कलेपस्तापाय केवलमसौ न च तापशान्त्यै ॥ २० ॥
बत सखि कियदेतप्स्य वैरं खरस्य प्रियविरहकृशेऽस्मिन्रागिलोके तथा हि । उपवनसहकारोद्भासिभृङ्गच्छलेन प्रतिविशिखमनेनोद्दैङ्कितं काल-कूटम् ॥ २१ ॥
कलयति मम चेतस्तल्पमङ्गारकल्पं ज्वलयति मम गात्रं चन्दन चन्द्रकश्च । तिरयति मम नेत्रे मोहजन्मान्धकारो विकृतबहुविकार मन्मथो मा दुनोति ॥ २२ ॥
रिपुरिव सखीसवासोऽय शिखीव हिमानिलो विषमिव सुधारश्मियस्मिन्दुुनोति मनोगते । हृदयमदये तस्मिन्नेदं पुनर्वलते बलात्कुवलयदृशा वाम कामो निकामनिरङ्कुश ॥ २३ ॥
ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी दहतु मदनः किं वा मृत्योः परेण विधास्यति । मम तु दयितः श्लाघ्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवाय जनो न च जीवितम् ॥ २४॥
इदानीं तीव्रामिर्दहन इव भाभि. परिवृतो ममाश्रर्यं सूर्य किमु सखि रजन्यामुदयति । अथ सुग्धं चन्द्रः किमिति मयि तापं प्रकटयत्यनाथाना बाले किमिव विपरीतं न भवति ॥ २५ ॥
पिकाली वाचालीभवति बहुधाऽलीकवचने मृणाली व्यालीव व्यथयतितरामङ्गमनिश्म् । विषज्वालाजालं सखि किरति पीयूषकिरणो जगत्प्राणः प्राणानपहरति केय परिणति ॥ २६ ॥
मनोरागस्तीव्रं विषमिव विसर्पत्यविरतं प्रमाथी निर्धूम ज्वलति विधुतः पावक इव । हिनस्ति प्रत्यङ्ग ज्वर इव गरीयानित इतो न मा त्रातुं तात. प्रभवति न चाम्बा न भवती ॥ २७ ॥
आदौ हालाहलहुतभुजा दत्तहस्तावलम्बो बाल्ये शंभोर्निटिलमहसा बद्धमैत्रीनिरूढ. । प्रौढो राहोरपि मुखविषेणान्तरङ्गीकृतो यः सोऽयं चन्द्रस्तपति किरणैर्मामिति प्राँसमेतत् ॥ २८ ॥
भस्मीभूत कुसुमविशिख. शंभुनेत्राग्निभाभूज्ज्वालादायी तदनु मनसि प्रासजन्मा बभूव । भूयस्तस्मिन्विरहदहनैर्दाहितोऽसौ मयैवं कुत्रोत्पन्नो व्यथयति पुनर्मामहो तन्न वेद्मि ॥ २९ ॥
पञ्चत्व तनुरेति भूतानवहः स्वैरैर्मिलन्तु ध्रुव धातार प्रणिपत्य हन्त शिरसा तत्रापि याचे वरम् । तद्वापीषु पयस्तदीयमुकुरे ज्योतिस्तदीयाङ्गनव्योम्नि व्योम तदीयवर्त्मनि धरा तत्तालवृन्तेऽनिलः ॥ ३० ॥
यास्यामीति समुद्यतस्य गदित विश्रब्धमाकणितं गच्छन्दूरमुपेक्षितो मुहुरसौ व्यावृत्य तिष्ठन्नपि । तच्छून्ये पुनरागतास्मि भवने प्राणास्त एते दृढाः सख्यस्तिष्ठत जीवितव्यसनिनी दम्भादह रोदिमि ॥३१॥
यात्रामङ्गलसविधानरचनाव्यग्रे सखीना जने बाष्पाम्भ.पिहितेक्षणे गुरुजने तद्वत्सुहृन्मण्डले । प्राणेशस्य महीक्षर्णापिर्तदृश. कृच्छ्रादपि क्रामतः किं व्रीडाहतया मया भुजलतापाशो न कण्ठेऽर्पित ॥ ३२ ॥
दाक्षिण्यं मलयाानलस्य विदित शैल्यं सुधादीधितेर्वाचामेव न गोचरे मलयजस्यापि स्फुटं सौष्ठवम् । विश्लेषे तव केन मे परिचिताः

पादटिप्पणी (Footnotes)

वाम-भागस्य: १ विरामं कुरुत
२ एतन्नामक सर इयमपि रामोक्ति
३ नव्यो नवीनो जनस्तरुण , पक्षे,-व्यजनं तालवृन्तम्
४ दत्तम्

दक्षिण-भागस्य: १ ललाटनेत्राग्निना
२ प्रसिद्ध
३ ग्रहणकाले सपत्कातिशयादन्तरङ्गता प्रापित इत्यर्थ
४ न्यायप्राप्तमित्यर्थ .