भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 315, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 315
३००सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

उन्नतावनतभागवत्तया चन्द्रिका सतिमिरा गिरेरियम् । भक्तिभिर्बहुविधाभिरर्पिता भाति भूतिरिव मत्तदन्तिनः ॥३१॥

एतदुच्छ्वसितपीतमन्दव सोढुमक्षममिव प्रभाकसम् । मुक्त- षट्पदविरावमञ्जसा भिद्यते कुमुदमा निबन्धनात् ॥ ३२ ॥

आननानि हरिणीनयनानामद्भुतानि च समीक्ष्य जगत्याम् । लज्जयेव घनमण्डललीनो मन्दमन्दमहहेन्दुरुदेति ॥ ३३ ॥

व्यानशे शशधरेण विमुक्त केतकीकुसुमकेसरपाण्डुः । चूर्णमुष्टिरिव लम्बितकान्तिर्वासवस्य दिशमंशुसमूहः ॥ ३४ ॥

उज्झती शुचमिवाशु तमिस्रामन्तिकं व्रजति तारकराजे । दिक्प्रसादगुणमण्डनमूहे रश्मिहासविशदं मुखमैन्द्री ॥३५॥

नीलनीरजनिभे हिमगौर शैलरुद्धवपुषः सितरश्मेः । खे रराज निपतत्करजालं वारिधेः पयसि गाङ्गमिवाम्भः ॥३६॥

द्या निरुन्धदतिलोलधनामं ध्वान्तमुद्यतकरेण पुरस्तात् । क्षिप्यमाणमसितेतरभासा शंभुनेव करिचर्म चकासे ॥ ३७ ॥

अन्तिकान्तिकगतेन्दुविसृष्टे जिह्वता^१ जहात दीधितिजाले । निःसृतस्तिमिरभारनिरोधादुच्छ्वसन्निव रराज दिगन्तः ॥३८॥

लेखया विमलविद्रुमभासा सतत तिमिरमिन्दुरुदासे । दंष्ट्रया कनकटङ्कपिशङ्ग्या मण्डलं भुव इवादिवराहः ॥३९॥

दीपयन्नथ नभः किरणौधैः कुङ्कुमारुणपयोधरगौरः । हेम- कुम्भ इव पूर्वपयोधेरुनन्मज्ज शनकैस्तुहिनांशु ॥ ४० ॥

उद्गतेन्दुमविभिन्नतमिस्रा पश्यति स्म रजनीमवितृप्तः । व्यंशुकस्फुटमुखीमतिजिह्ला^२ व्रीडया नववधूमिव लोक ॥४१॥

न प्रसादमुचित गमिता चौर्नोद्धतं तिमिरमद्रिवनेभ्यः । दिक्षुखेषु न च धाम विकीर्ण भूषितेव रजनी हिमभासा ॥ ४२ ॥

श्लिष्यत प्रियवधूरूपकण्ठं तारकास्ततकरस्य हिमांशोः । उद्भमन्नभिरराज समन्तादङ्गराग इव लोहित- रागः ॥ ४३ ॥

प्रेरित शशधरेण करौघः सहतान्यपि नुनाद तमांसि । क्षीरसिन्धुरिव मन्दरभिन्नः काननान्यविर- लोचतरूणि ॥ ४४ ॥

शान्ता गमितया शशिपादैश्छायया विटपिना प्रतिपेदे । न्यस्तशुक्लबलिचित्रतलाम्रिस्तुल्यता वसतिवेश्ममहीभिः ॥ ४५ ॥

गन्धमुद्धतरजःकणवाही विक्षिपन्विकसता कुमुदानाम् । आधुधाव परलीनविहङ्गा यामिनीमरुदपा नवराजी ॥ ४६ ॥

सविधातुमभिषेकमुदासे मन्मथस्य लसद्रंशुकजालैः । यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः ॥ ४७ ॥

ओजसापि खलु नून- मनूनं नासहायमययाति जयश्रीः । यद्विभुः शशियुखसख- सन्नाददे विजयी चापमनङ्गः ॥ ४८ ॥

कलितमम्बरमा- कलयन्करैर्मृदितपङ्कजकोशपयोधरः । विकसदुत्पलनेत्रविलो- कितः सखि निशा सरसीकुरुते विधुः ॥ ४९ ॥

वसुधा- न्तनि स्तमिवाहिपते पटलं फणामणिमहःसुरचाम् । स्फुरदंशु- जालमथ शीतरुच ककुभं समस्कुरुत माधवनीम् ॥ ५० ॥

विशदप्रभापरिगतं विबभावुदयाचलव्यवहितेन्दुवपुः । मुख- मप्रकाशदशनं शनकै सविलासहसामिव शक्रदिश ॥ ५१ ॥

कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमिरौघजटम् । क्षणमभ्यपद्यत जनेर्न मृषा गगनं गणाधिपतिमूर्तिरिति ॥ ५२ ॥

नवचन्द्रिकाकुसुमकीर्णतमःकबरीभृतो मलयजार्द्र- मिव । ददृशे ललाटतटहारि हरेर्हरितो मुखे तुहिनरश्मि- दलम् ॥ ५३ ॥

प्रथमं कलाभवदथार्थमथो हिमदीधिति- र्महदभूदुदित । दधति ध्रुवं क्रमश एव न तु द्युतिशालिनो- ऽपि सहसोपचयम् ॥ ५४ ॥

उदमजि कैटभजितः शय- नादपनिद्रपाण्डुरसरोजरुचा । प्रथमप्रबुद्धनदराजसुता- वदनेन्दुनेव तुहिनद्युतिना ॥ ५५ ॥

अथ लक्ष्मणामुगत- कान्तवपुर्जलधिं विलङ्घ्य शशिदाशरथिः । परिवारितः परित ऋक्षगणैस्तिमिरौघराक्षसकुलं बिभिदे ॥ ५६ ॥

उप- जीवति स्म सततं दधतः परिसुम्धता वणिगिवोडुपतेः । घनवीथिथीथिमवतीर्णवतो निधिरम्भसामुपचयाय कलाः ॥ ५७ ॥

रजनीमवाप्य रुचमाप शशी सपदि व्यभूषय- दसावपि ताम् । अविलम्बितक्रममहो महतामितरेतरोप- कृतिमञ्चरितम् ॥ ५८ ॥

दिवस भृशोष्णरुचिपादहता रुदती- मिवानवरतालिरुतैः । सुहुरामुशन्मृगधरोऽग्रकरैरुदशिश्- सत्कुमुदिनीवनिताम् ॥ ५९ ॥

प्रतिकामिनीति ददृशुश्चकिता. खरजन्मघर्मपयसोपचिताम् । सुदृशोऽभिभर्तृशशिरश्मिगल- जलविन्दुमिन्दुमणिदारुवधूम् ॥ ६० ॥

अमृतद्रवैर्विदधद्- ब्जदृशामपमार्गमोषधिपति स्म करैः । परितो विसर्पि परि- तापि भृशं वपुषोऽवतारयति मानविषम् ॥ ६१ ॥

अम- लात्मसु प्रतिफलन्नभितस्तरुणीकपोलफलकेषु मुहुः । विस- सार सान्द्रतरमिन्दुरुचामधिकामवासितदिशा निकरः ॥६२॥

उपगूढवेमलमघूर्मिमृजैः सरितामचुक्षुमदधीशमपि । रजनी- कर किमिव चित्रमहो यदुरागिणा गमनमङ्गलधुम् ॥ ६३॥

भवनोदरेषु परिमन्दतया शयितोऽलम. स्फटिकयष्टिरुचः । अवलम्ब्य जालकममुखोपगतानुदतिष्ठदिन्दुकिरणान्मदनः ॥ ६४ ॥

अविभावितेषुविषय. प्रथमं मदनोऽपि नूनमभव- त्तमसा । उदिते दिश प्रकटयत्यमुना यदघर्मधाम्नि धनु- राचकृषे ॥ ६५ ॥

युगपद्विकासमुदयाद्गमिते शशिनः शिली- मुखगणोऽलभत । द्रुतमेत्य पुष्पधनुषो धनुष कुमुदेऽङ्गना- मनसि चावसरम् ॥ ६६ ॥

ककुभा मुखानि सहसोज्ज्व- लयन्दधदाकुलत्वमधिकं रतये । अदिदीपदिन्दुरपरो दहनः कुसुमेषुमत्रिनयनप्रभवः ॥ ६७ ॥

ख्याता वयं समधुपा मधुकोशवत्यश्चन्द्रः प्रमारितकरो द्विजराज एषः । अस्म- त्समागमकृतोऽस्य पुनर्द्वितीयो मा भूत्कलङ्क इति सकुचिता


^१ कौटिल्य, तिर्यक्त्व वा
^२ अतिमन्दगामिनीम्