सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 350, कुल 516 में से
संदर्भ में पढ़ेंवसन्तवर्णनम्, ग्रीष्मवर्णनम् | ३३५
पङ्कद्रवैर्लिंप्ते केरलकामिनीकुचतटे खञ्ज. शनैर्गच्छति ॥ १३३ ॥ प्रातः प्राज्यमिव श्रमं जलजिनी- सौरभ्यभारं वहन्वृद्धामस्त्वकमानमन्नवलतालक्ष्मीमिवालोकयन् । स्वीकुर्वन्मदमन्थरानिव गतेर्वामभ्रुवा विभ्रमान्मन्दं मन्द- मुपाजगाम पवन पाटीरवाटीतटात् ॥१३४॥ पानीयं नारि- केलीफलकुहरकुहूत्कारि कल्लोलयन्त कावेरीतीरतालद्रुम- भरितसुराभाण्डभाङ्कारचण्डाः । एते तन्वन्ति वेलावनललित- लताताण्डवं द्राविडीकर्पूरापाण्डुगण्डस्थलुलुठितरया वायवो दाक्षिणात्याः ॥ १३५ ॥ कावेरीतीरभूमौ रहसि भुजगवधू- मुक्तमुक्तावशिष्ट. कर्णीटीचीनपीनस्तनवसनदशान्दोलनस्पन्द- मन्द. । लोलह्लाटीलतालालकललितलतालास्यलीलाविलोलः कष्टं भो दाक्षिणात्य. प्रसरति पवनः पान्थकान्ताकृतान्तः ॥ १३६ ॥ ये दोलाकेलिकारा. किमपि मृगदृशा मानतन्तु- च्छिदो ये सद्य. शृङ्गारदीक्षाव्यतिकरगुरवो ये च लोकत्रयेऽपि । ते कण्ठे लोठयन्त. परभृतवयसा पञ्चमं रागराजं वान्ति स्वैरं समीरा. स्मरविजयमहासाक्षिणो दाक्षिणात्याः ॥ १३७ ॥
वसन्तपथिकाः
वक्रेण शिरसि पतता नित्यं रुधिरारुणेन दुर्वार. । मत्त- द्विप इव पथिक. किंशुककुसुमाङ्कुशेन भृतः ॥ १३८ ॥ समवलोक्य विलासवमस्थलीं न पथिकैः पथि कैः पतितं भुवि । मलयजद्रुममौरभमेदुरोदरसमीरसमीरितवल्लरीम् ॥ १३९ ॥ वसन्तप्रारम्भे चिरविरहखिन्ना सहचरी यदि प्राणान्मुञ्चेत्तदिह वधभागी भवति कः । वयो वा स्नेहो वा कुसुमविशिखो वेति विमृशंस्तैहीति प्रव्यक्तं पिकनिकर- झाङ्कारमशृणोत् ॥ १४० ॥ रे पान्था. स्वगृहाणि गच्छत सुखं सेवाक्षणो मुच्यता मानं मानिनि मुञ्च वल्लभजने कोषानुबन्धेन किम् । आयात: कुसुमैकभरः क्षपयति प्राणा- न्वियोगातुरेण्वित्येवं परपुष्टनादपटहो वक्तीव कामाज्ञया ॥ १४१ ॥ सा तन्वीति धनस्तनीति विकसन्नीलाब्जनेत्रेति चं स्वैरं सचरतीति वक्ति मधुरां वाचं विचित्रामपि । इत्थं विद्रुमपाटलाधरपुटा सीमन्तिनी ध्यायतो रोमाञ्चो रुदितं स्मितं प्रलपितं पान्थस्य सजायते ॥ १४२ ॥ अध्वन्यस्य वधूर्वियोगविधुरा भर्तु. स्मरन्ती यदि प्राणानुज्झति कस्य तत्खलु महत्सजायते पातकम् । यावन्नो कृतमध्यगेन हृदये तावत्तरोर्मूर्धनि प्रोद्बुद्धं परपुष्टया तव तवेत्युच्चैर्वचोऽनेकदा. ॥१४३॥ उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुरक्रीडत्को- किलकाकलीकलकलैरुद्दीर्णकर्णज्वरा. । नीयन्ते पथिकै. कथं कथमपि ध्यानावधानक्षणप्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥ १४४ ॥ अध्वन्यैर्मकरन्दशीकरसुरामत्तभ्रमत्को-
किले मार्गे मार्गनिरोधिनी परिहृता शङ्केऽशुभाशङ्कया । पान्थस्त्रीवधपातकादुपनतं चण्डालचिह्नं मयोरेखा ^१खिङ्गिणि- केव षट्पदमयी झाङ्कारिणी सहति. ॥ १४५ ॥ सव्याधे. कृशता क्षतस्य रुविर दृष्टस्य लालामृति. किंचिन्नैतदिहास्ति तत्कथममौ पान्थस्तपस्वी मृत. । आ ज्ञात मधुलम्पटैर्मधुकरै- रारब्धकोलाहले नून साहसिकेन चूतमुकुले दृष्टि. समारोपिता ॥ १४६ ॥ एतस्मिन्दक्षिणागानिलचलितलतालीनमत्तालि- मालापक्षक्षोभावधूतच्युतबहुलरजोह्लादिदृष्टे वसन्ते । प्रेम- खेदांग्रबाहुश्वथवलयलसत्प्रौढसीमन्तिनीना मन्दः कण्ठ- ग्रहोऽपि ग्लपयति हृदयं किं पुनर्विप्रयोगः ॥ १४७ ॥
ग्रीष्मवर्णनम्
रेजे पुष्पैर्ग्रीष्ममामाद्य मल्ल मल्ल सद्यः संश्रयन्ते स्म भृङ्गा. । भृङ्गैस्तत्रारम्भि हर्षेण गानं गाने लौल्यं लेभिरे योगिनोऽपि ॥ १ ॥ अत्युल्लसद्विसरहस्ययुजा भुजेन वक्त्रेण शारदसुवाशुसरोरुहेण । पीयूषपोषसुभगेन च भाषितेन त्वं चेत्प्रसीदसि मृगाक्षि कुतो निदाघः ॥ २ ॥
ग्रीष्मसमयस्वभावव्याख्यानम्
प्रतिगतमर्थिजनाना विच्छिन्नाशं समूहभवलोक्य । स्फुटि- तमपयसस्तापादिव हृदयमलं तडागस्य ॥ ३ ॥ सुभगसलिला- वगाहाः पाटलसंसर्गसुरभिवनवाताः । प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ॥ ४ ॥ देशे देशे जेडिमकुरङ्गा- स्तेजोभलैर्दिनकरभिले । धांवं धावं प्रहरति राज्ञा धारागेहं शरणमवापु ॥ ५ ॥ सजातपत्रैर्ब्रकरान्वितानि समुद्वहन्ति स्फुटपाटलत्वम् । विर्कस्वरान्यर्ककराभिमर्शान्दिनानि पद्मानि च वृद्धिमीयुँ. ॥ ६ ॥ प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः सदाव- गाहक्षतवारिसचय. । दिनान्तरम्योऽभ्युपशान्तमन्मथो निदाघ- कालोऽयमुपागतः प्रिये ॥ ७ ॥ दुःप्रेक्ष्यमुच्चैर्गगनं निदाघे कोपाकुलसेव मुखं नृपस्य । हरेः शयानस्य मृणालबुद्ध्या कर्षन्ति पुच्छं करिणः करेण ॥ ८ ॥ प्रायश्चरित्वा वसुधामशेषा छायासु विश्रम्य ततस्तरूणाम् । प्रौढि गते सप्रति तिग्मंभानौ शैत्यं शनैरन्तर्रपामियासीत् ॥ ९ ॥ रवि- तुरङ्गतनूरुहतुल्यता दधति यत्र शिरीषरजो रुच. । उपययौ विदधन्नवमल्लिकाः शुचिरसौ विरसौरभसपदः ॥१०॥ दलित- कोमलपाटलकुञ्जले निजवधूश्वसितानुविधायिनि । मरुति वाति विलासिभिरुन्मदभ्रमदलै मदलौल्यमुपाददे ॥ ११ ॥
पादटिप्पणी:
१ तुहीति हिन्दुस्थानीभाषया त्वमेवेत्यर्थे
२ वसन्तर्तुं
३ पान्य
१ चण्डालवल्लकी
२ हिमा-येव कुरङ्गा मृगा
३ धावित्वा धावित्वा
४ समूहा
५ वृक्षविशेष, पक्षे,-पाटलवर्णानि
६ भासुराणि; पक्षे,-विकासशालीनि
७ आपु
८ हेमन्ते इत्यर्थे
९ वसन्ते इत्यर्थे
१० ग्रीष्मे
११ जलानाम्