सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 383, कुल 516 में से
संदर्भ में पढ़ें| ३६८ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
तर्जयन्ती रोगाश्च शत्रव इव प्रहरन्ति देहम् । आयुः परिस्रवति भिन्नघटादिवाम्भो लोकस्तथाप्यहितमाचरतीति चित्रम् ॥ ३२ ॥
दैन्यं क्वचित्क्वचन मन्मथजा विकाराः कुत्राप्यनेकविधबन्धुजनप्रपञ्चः । क्वापि प्रभुत्वधनकल्पितमीश्वरत्वमित्येकवैकृतमिदं जगदाविभाति ॥ ३३ ॥
आस्तामकण्टकमिदं वसुधाधिपत्यं त्रैलोक्यराज्यमपि नैव तृणाय मन्ये । निःशङ्कसुप्तहरिणीकुलसङ्कुलासु चेतः परं वलति शैलवनस्थलीषु ॥ ३४ ॥
ते तीक्ष्णदुर्जननिकारशरैर्न भिन्ना धीरास्त एव शमसौख्यमुजस्त एव । सीमन्तिनीभुजलतागहनं व्युदस्य येऽवस्थिताः शमफलेषु तपोवनेषु ॥ ३५ ॥
बुद्धेर्गोचरतया न गिरां प्रचारो दूरे गुरुप्रथितवस्तुकथावतारः । तत्त्वं क्रमेण विदुषा करुणावदाते श्रद्धावता हृदि पदं स्वयमादधाति ॥ ३६ ॥
दधति तावदमी विषयाः सुखं स्फुरति यावदियं हृदि मूढता । मनसि तत्त्वविदां तु विवेचके क्व विषयाः क्व सुखं क्व परिग्रहः ॥ ३७ ॥
क्षणं बालो भूत्वा क्षणमपि युवा कामरसिकः क्षणं वित्तैर्हीनः क्षणमपि च सम्पूर्णविभवः । जराजीर्णैरङ्गैर्नट इव वलीमण्डिततनुर्नरः संसाराङ्के विशति यमधानीजवनिकाम् ॥ ३८ ॥
क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरः क्वचिद्भूमौ शय्या क्वचिदपि च पर्यङ्कशयनः । क्वचिद्भिक्षावृत्तिः क्वचिदपि च मृष्टाशनरुचिर्महात्मा योगज्ञो न गणयति दुःखं न च सुखम् ॥ ३९ ॥
अहौ वा हारे वा बलवति रिपौ वा सुहृदि वा मणौ वा लोष्टे वा कुसुमशयने वा दृषदि वा । तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः क्वचित्पुण्येऽरण्ये शिव शिव शिवेति प्रलपतः ॥ ४० ॥
गतास्तातभ्रातृप्रमुखसुखपीयूषमधुराः पुरा लक्ष्मीक्षैब्यव्यसनसरसास्तेऽपि दिवसाः । अदः शान्तं स्वान्तं सपदि यदि निर्वेदपदवी मजत्यम्यासोऽयं जनयति सुखं भावविसुखम् ॥ ४१ ॥
अवश्यं यातारश्चिरतरमुषित्वापि विषया वियोगे को भेदस्त्यजति न जनो यत्स्वयममून । व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः स्वयं त्यक्तास्वेते शमसुखमनन्तं विदधति ॥ ४२ ॥
न संसारोत्पन्नं चरितमनुपश्यामि कुशलं विपाकः पुण्यानां जनयति भयं मे विमृशतः । महद्भिः पुण्यौघैश्चिरपरिगृहीताश्च विषया महान्तो जायन्ते व्यसनमिव दातुं विषयिणाम् ॥ ४३ ॥
धनं तावल्लब्धं कथमपि तथाप्यस्य नियतं विनाशेऽलाभे वा तव सति वियोगोऽप्युभयथा । अनुत्पादः श्रेयान्किमु कथय तस्याथ विलयो विनाशो लब्धस्य व्यथयतितरा न त्वनुदयः ॥ ४४ ॥
परेषां चेतांसि प्रतिदिवसमाराध्य बहुधा प्रसादं किं नेतुं विशसि हृदय क्लेशकलिलम् । प्रसन्ने त्वय्यन्तः स्वयमुदितचिन्तामणिगुणे विविक्तः सकल्पः किमिह हि फलं पुष्यति न ते ॥ ४५ ॥
यदेतत्स्वच्छन्दं विहरणमकार्पण्यमशनं सहायैः संलापः श्रुतमुपशमैकव्रतफलम् । मनो मन्दस्पन्द बहिरपि चिरश्चापि विमृशन्न जाने कस्यैषा परिणतिरुदारस्य तपसः ॥ ४६ ॥
तडिन्मालालोलं प्रतिदिवसदन्तान्धतमस भवे मौर्य्यं हित्वा शमसुखमुपादेयमनघम् । इति व्यक्तोद्गारं चटुलवचसः शून्यमनसो वयं वीतक्रीडाः शुक इव पठामः परममी ॥ ४७ ॥
यदासौ दुर्वारः प्रसरति मदश्चित्तकरिणस्तदा तस्योद्दामप्रसररसस्रूदैर्व्यवसितैः । क्व तद्धैर्य्यालाने क्व च निजकुलाचारनिगडः क्व सा लज्जारज्जुः क्व विनयकटोराङ्कुशमपि ॥ ४८ ॥
कुरङ्गाः कल्याणं प्रतिविटपमारोग्यमटवि स्रवन्ति क्षेमं ते पुलिनकुशलं भद्रमुपलाः । निशान्तादस्वन्तात्कथमपि विनिष्क्रान्तमधुना मनोऽस्माकं दीर्घामभिलषति युष्मत्परिचितिम् ॥ ४९ ॥
गत कालो यत्र प्रणयिनि मयि प्रेमकुटिलः कटाक्षं कालिन्दीलघुलहरिवृत्तिः प्रभवति । इदानीमस्माकं जरठकमठीपृष्ठकठिना मनोवृत्तिस्तत्किं व्यसनिनि मुधैव ग्लपयसि ॥ ५० ॥
गतः कालो यत्र द्विचरणपशूना क्षितिभुजां पुरः स्वस्तीत्युक्त्वा विषयसुखमास्वादितमभूत् । इदानीमस्माकं तृणमिव समस्तं कलयतामपेक्षा भिक्षायामपि किमपि चेतःक्षपयति ॥ ५१ ॥
अहंकार क्वापि व्रज वृजिन हे मा त्वमिह भूर्भूमिर्दर्पणामहमपसर त्वं पिशुन हे । अरे क्रोध स्थानान्तरमनुसरानन्यमनसां त्रिलोकीनाथो नो हृदि वसतु देवो हरिरसौ ॥ ५२ ॥
अतिक्रान्तः कालो ललितललनाभोगसुखदो भ्रमन्तः शान्ताः स्मः सुचिरमिह संसारसरणौ । इदानीं खैः सिन्धोस्तटभुवि समाक्रन्दनगिरः सुतारैः फूत्कारैः शिवशिवशिवेति प्रतनुमः ॥ ५३ ॥
मैहाशय्या भूमिर्मृदुमुपधानं भुजलता वितानं चाकाशं व्यजनमनुकूलोऽयमनिलः । स्फुरद्दी पश्चन्द्रः स्वधृतिवनितासङ्गमुदितः सुखं शान्तः शेते विगतभवभीतिर्नृप इव ॥ ५४ ॥
कदा वृन्दावन्ये नवघननिभं नन्दनयनं परीतं गोपीभिः क्षणरुचिमनेोज्ञाभिरभितः । गमिष्यामस्तोषणं नयनविषयीकृत्य कृतिनो वयं प्रेमोद्रेकस्खलितगतयो वेपथुभृतः ॥ ५५ ॥
कदा भिक्षाभक्तैः करकलितगङ्गाम्बुतरलैः शरीरं मे स्थास्यत्युपरतसमस्तेन्द्रियसुखम् । कदा ब्रह्माभ्यासस्थिरतनुतयारण्यविहगाः पतिष्यन्ति स्थाणुभ्रमहतधियः स्कन्धशिरसि ॥ ५६ ॥
कदा वृन्दारण्ये विमलयमुनातीरपुलिने चरन्तं गोविन्दं हलधरसुदामादिसहितम् । अये कृष्ण स्वामिन्मधुरमुरलीवादन विभो प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि
१ पद्धतौ २ स्वर्णवा ३ पर्यङ्क ४ मृदु ५ उल्लोच ६ स्वधृति स्वीय धैर्य तदेव वनिता स्त्री तस्या सङ्गेन मुदितो हृष्ट सन्