भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 401, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 401
३८६सुभाषितरत्नभाण्डागारम्[ ७ प्रकरणम् ]
वामभागःदक्षिणभागः
द्रुह्यति ॥ ३४३ ॥ सत्यमेव व्रतं यस्य दया दीनेषु सर्वथा ।
कामक्रोधौ वशे यस्य तेन लोकत्रयं जितम् ॥ ३४४ ॥ परं
क्षिपति दोषेण वर्तमानः स्वयं तथा । यश्च क्रुध्यत्यनीशानः
स च मूढतमो नरः ॥ ३४५ ॥ धनानि जीवितं चैव परार्थे
प्राज्ञ उत्सृजेत् । सन्निमित्तं वरं त्यागो विनाशे नियते सति
॥३४६॥ सनियच्छति यो वेगमुत्थितं क्रोधहर्षयोः। स श्रियो
भाजनं राजन् यश्चापत्सु न मुह्यति ॥ ३४७ ॥ परिचरि-
तव्याः सन्तो यद्यपि कथयन्ति नो सदुपदेशम् । यास्तेषां
स्वैरकथास्ता एव भवन्ति शास्त्राणि ॥ ३४८ ॥ श्रीमङ्गल्य-
त्प्रभवति प्रागल्भ्यात्सप्रवर्धते । दाक्ष्यात्तु कुरुते मूलं संयमा-
त्प्रतितिष्ठति ॥ ३४९ ॥ पञ्चभिः सम्भृतः कायो यदि पञ्चत्व-
मागतः । कर्मभिः स्वशरीरोत्थैस्तत्र का परिदेवना ॥ ३५०॥
धनहेतोर्य ईहेत तस्यानीहा गरीयसी । भूयान्दोषो हि
वित्तस्य यश्च धर्मस्तदाश्रयः ॥ ३५१ ॥ वाचाशौचं च मनसः
शौचमिन्द्रियनिग्रहः । सर्वभूतदयाशौचमेतच्छौचं परार्थिनाम्
॥ ३५२ ॥ हृष्यन्ति देवताः सर्वा गायन्ति ऋषयस्तथा ।
नृत्यन्ति पितरः सर्वे ह्यतिथौ गृहमागते ॥ ३५३ ॥ दुर्वृत्तं
वा सुवृत्तं वा सर्वपापरतं तथा । भर्तारं तारयेत्त्वेव भार्या
धर्मेषु निष्ठिता ॥ ३५४ ॥ न भिक्षा दुष्प्रापा पथि मम
महारामचरिते फलैः सम्पूर्णा भूरपि मृगसुचर्मापि वसनम् ।
सुखैर्वा दुःखैर्वा सदृशपरिपाकः खलु सदा त्रिनेत्रं कस्यक्त्वा
धनलवमदान्धं प्रणमति ॥ ३५५ ॥ यद्यपि भ्रातरः क्रुद्धा
भार्या वा कारणान्तरे । स्वभावतस्ते प्रीयन्ते नेतरः प्रीयते
जनः ॥ ३५६ ॥ ललाटदेशे रुधिरं सवेद्यच्छूरस्य यस्य
प्रविशेच्च वक्त्रे। तत्सोमपानेन समं भवेच्च संग्रामयज्ञे विधिवत्प्र-
दिष्टम् ॥३५७॥ मीनः स्नानपरः फणी पवनभुङ् मेषश्च पर्णा-
शनो गर्ते तिष्ठति मूषिकोऽपि विपिने सिंहो बको ध्यानवान् ।
शश्वद्भ्राम्यति चक्रिगौः परिचरन्देवैः सदा देवलः कि तेषा
फलमस्ति तेन तपसा तद्भावशुद्धि कुरु ॥ ३५८ ॥ बाहुवीर्ये
बलं राज्ञो ब्राह्मणो ब्रह्मविद्वली । रूपयौवनमाधुर्यं स्त्रीणा बल-
मनुत्तमम् ॥३५९॥ नश्यतो युध्यतो वापि तावद्भवति जीवि-
तम् । यावद्धाताऽसृजत्पूर्वे न यावन्मनसेप्सितम् ॥ ३६० ॥
पतिर्भार्यां संप्रविश्य गर्भो भूत्वेह जायते । जायायास्तद्धि
जायात्वं यदस्या जायते पुनः ॥ ३६१ ॥ दग्धं दग्धं त्यजति
न पुनः काञ्चनं कान्तिवर्णं छिन्नं छिन्नं त्यजति न पुनः
स्वादुतामिक्षुदण्डम् । घृष्टं घृष्टं त्यजति न पुनश्चन्दनं चारु-
गन्धं प्राणान्तेऽपि प्रकृतिविकृतिर्जायते नोत्तमानाम् ॥३६२॥
नाल्पीयसि निबध्नन्ति पदमुन्नतचेतसः । येषा भुवनलाभेऽपि
निःसीमानो मनोरथाः ॥ ३६३ ॥ छादयित्वात्मभावं हि
चला हि शठबुद्धयः । प्रहरन्ति च रन्ध्रेषु सोऽनर्थःसुमहान्भवेत् ॥ ३६४ ॥ नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा
विन्दते परम् । नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्व सुखी
भव ॥ ३६५ ॥ तर्षच्छेदो न भवति पुरुषस्येह कल्पशत् ।
निवर्तते तदा तर्षः पापमन्तगतं यदा ॥ ३६६ ॥ दिवसे
सनिधानेन पिशुनप्रेरणा प्रभोः । ईर्ष्यालुना खरैणीव
रक्षितुं यदि पार्यते ॥३६७॥ कर्मणः फलनिर्वृत्तिं स्वयमश्नाति
कारकः । प्रत्यक्षं दृश्यते लोके कृतस्यापकृतस्य च ॥३६८॥
कं पृच्छामः सुराः स्वर्गे निवसामो वयं भुवि । कि वा
काव्यरसः स्वादुः कि वा स्वादीयसी सुधा ॥ ३६९ ॥ उर्वी-
पतेश्च स्फटिकाश्मनश्च शीलोञ्झितस्त्रीहृदयस्य चान्तः । अस-
निधानान्तसतस्थितीनामन्योन्चरागं कुरुते प्रवेशम् ॥३७०॥
आत्मोत्कर्षे न मार्गेत परेषा परिनिन्दया । खगुणेरैव
मार्गेत विप्रकर्षं पृथग्जनात् ॥३७१॥ कृतिनोऽपि प्रतीक्ष्यन्ते
सहायं कार्यसिद्धये । चक्षुष्मानपि नालोकाद्विना वस्तु न
पश्यति ॥ ३७२ ॥ किं देवकार्याणि नराधिपस्य कृत्वा विरोधं
विषयस्थितानाम् । तद्देवकार्यं जपयज्ञहोमा यस्याश्रुपाता न
पतन्ति राष्ट्रे ॥ ३७३ ॥ देयमार्तस्य शयनं स्थितश्रान्तस्य
चासनम् । तृषितस्य च पानीयं क्षुधितस्य च भोजनम्
॥ ३७४ ॥ राजन्नजन्यपाध्यायौ देवी यच्छिष्येद्रहः । तत्र
प्रजागरः कर्तुमसर्वज्ञैर्न शक्यते ॥३७५॥ किं ते धनैर्बान्धवै-
र्वापि किं ते किं ते दारैर्ब्राह्मण यो मरिष्यसि । आत्मानम-
न्विच्छ गुहा प्रविष्टं पितामहस्ते क गतः पिता च ॥३७६॥
न व्याधयो नापि यमः प्राप्तं श्रेयः प्रतीक्षते । यावदेव
भवेत्कल्पस्तावच्छ्रेयः समाचरेत् ॥ ३७७ ॥ न व्याधिर्न विषं
तापस्तथान्याऽपि भूतले । दुःखाय स्वशरीरोत्थं मौर्ख-
मेतद्यथा नृणाम् ॥ ३७८ ॥ सुखाद्बहुतरं दुःखं जीविते
नास्ति संशयः । स्निग्धस्य चेन्द्रियार्थेषु मोहान्मरणमप्रियम्
॥ ३७९ ॥ सामुद्रास्तििमयो नृपाश्च सदृशा एके हृतानम्भस-
स्वसादेव कणाध्वनस्स जहतो जानन्ति ये दातृताम् ।
सर्वस्सास्फुटलुष्ठिताद्वितरतो लेशान्तिक्लान्येऽपि ये दुष्का-
यस्यकुलस्स हन्त कलयन्त्यन्तर्हिताधायिताम् ॥ ३८० ॥
सुखं च दुःख च भवाभवौ च लाभालाभौ मरणं जीवित च ।
पर्यायशः सर्वमेते स्पृशन्ति तस्माद्धीरो न च हृष्येन्न शोचेत्
॥ ३८१ ॥ कृषिका रूपनाशाय अर्थनाशाय वाजिनः ।
शालको गृहनाशाय सर्वनाशाय पावकः ॥ ३८२ ॥
एको बहूना मूर्खाणा मध्ये निपतितो बुधः । पद्मः पय-
स्तरङ्गाणामिव विप्लवते ध्रुवम् ॥ ३८३ ॥ निजात्सुपततः
शत्रून्पञ्च पञ्चप्रयोजनान् । यो मोहान्न निगृह्णाति
तमापद्ग्रसते नरम् ॥ ३८४ ॥ ज्ञानं सता मानमदादिनाशनं
केषांचिदेतन्मदमानकारणम् । स्थानं विविक्तं गमिना
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह) · पृष्ठ 401, कुल 516 में से · BharatKosha