सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
DevanagariSanskritpublished516 पृष्ठ
पृष्ठ 410, कुल 516 में से
संदर्भ में पढ़ेंपृष्ठ 410
सुभाषितरत्नखण्डमञ्जूषा
| अकाण्डपातोपनता न कं लक्ष्मीर्विमोहयेत् । (कै० स०) | अनपेक्ष्य गुणागुणौ जनः स्वरुचिं निश्चयतोऽनुधावति । (शि० व०) |
| अकालमेघवद्वृत्तमकस्मादेति याति च । (क० स०) | |
| अकृत्यं मन्यते कृत्यम् । (प० त०) | अनवसरे याचितमिति सत्पात्रमपि कुप्यते दाता । |
| अक्षोभ्यतैव महतां महत्त्वस्य हि लक्षणम् । (क० स०) | अनाथा कृच्छ्रपतिता विदेशे स्त्री करोति किम् । (क०स०) |
| अगच्छन्वैनतेयोऽपि पदमेकं न गच्छति । | अनार्यं परदारव्यवहारः । (अ० शा०) |
| अगम्यं मन्यते सुगम् । | अनार्यजुष्टेन पथा प्रवृत्तानां शिवं कुतः । (क० स०) |
| अगाधजलसंचारी न गर्वं याति रोहितः । (प० त०) | अनार्यसङ्गमाद्दूरं विरोधोऽपि समं महात्मभिः । (कि० उ०) |
| अगुणस्य हतं रूपम् । | अनाश्रया न शोभन्ते पण्डिता वनिता लताः । |
| अङ्कमारुह्य सुप्तं हि हत्वा किं नाम पौरुषम् । | अनियुक्तोऽपि च ब्रूयाद्यदोच्छेत्स्वामिनो हितम् । (क० स०) |
| अङ्गीकृतं सुकृतिनः परिपालयन्ति । | अनिर्वर्णनीयं परकलत्रम् । (अ० शा०) |
| अचिन्त्य शीलवृत्तानां चरितं कुलयोषिताम् । (क० स०) | अनिश्चितावधि धीरा सहन्ते विरहं चिरम् । (क० स०) |
| अचिन्त्यं हि फलं सूते सद्यः सुकृतपादपः । (क० स०) | अनुक्तेऽपि कलत्रे नीचः परदारलम्पटो भवति । |
| अचिन्त्यो बत दैवेनाप्यापातः सुखदुःखयोः । (क० स०) | अनुगृह्णन्ति हि प्रायो देवता अपि तादृशम् । (क० स०) |
| अचिरांशुविलासचञ्चला ननु लक्ष्मीः फलमानुषङ्गिकम् । | अनुत्सेकः खलु विक्रमालङ्कारः । |
| अजागलस्तनस्येव तस्य जन्म निरर्थकम् । (प० त०) | अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं शमयति परितापं छायया संश्रितानाम् । (अ० शा०) |
| अजानतो हठात्कुर्वन्नाज्ञमानी विनश्यति । (क० स०) | अनुरागपरायत्ताः कुर्वते किं न योषितः । (क० स०) |
| अजीर्णे भोजनं विषमन् । (हि०) | अनुरागान्धमनसां विचारः सहसा कुतः । (क० स०) |
| अज्ञता कस्य नामेह नोपहासाय जायते । (क० स०) | अनुसृत्य सतां वर्त्म यत्स्वल्पमपि तद्बहु । |
| अज्ञानामृतचेतसामतिरुषा कोऽर्थस्थिरश्चा गुणे. । | अनुहुंकुरुते घनध्वनिं नहि गोमायुरुतानि केसरी । (शि० व०) |
| अतर्क्या कुट्टनी कूटरचना हि विधेरपि । (क० स०) | अन्तरापाति हि श्रेयः कार्यसंपत्तिसूचकम् । (क० स०) |
| अतिदानाद्बलिर्बद्धः । (भाग०) | अन्तर्विषमया ह्येता बहिश्चैव मनोरमाः । (प० त०) |
| अतिपरिचयादवज्ञा संततगमनादनादरो भवति । | अन्त सारविहीनानामुपदेशो न विद्यते । |
| अतिभुक्तिरतीवोक्तिः सद्यः प्राणापहारिणी । | अन्धस्य दीपो बधिरस्य गीतम् । |
| अतिलोभो न कर्तव्यश्चक्रं भ्रमति मस्तके । (प० त०) | अन्यस्माल्लब्धपदो नीचः श्रयेण दुःसहो भवति । |
| अति सर्वत्र वर्जयेत् । (प० त०) | अन्यायं कुरुते यदा क्षितिपतिः कस्तं निरोद्धुं क्षमः । |
| अतृणे पतितो वह्निः स्वयमेवोपशाम्यति । (प० त०) | अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः । |
| अत्यारूढो हि नारीणामकालज्ञो मनोभवः । (र० व०) | अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः । (र० व०) |
| अत्युच्चैर्भवति लघीयसा हि धाष्टर्यम् । (शि० व०) | अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति । |
| अथास्य तत्त्वेषु कृतेऽवभासे समुन्मिमीलेव चिराय चक्षुः । | अपवाद एव सुलभो द्रष्टुर्गुणो दूरतः । |
| अदाता वंशदोषेण । | अपायो हस्तकस्थो हि विषयग्रस्तचेतसाम् । (क० स०) |
| अधरेऽवमृतं हि योषितां हृदि हालाहलमेव केवलम् । | अपां हि तृप्ताय न वारिधारा, स्वादु सुगन्धिः स्वदते तुषारा । (नै० च०) |
| अधर्मयुद्धेन जयं को हीच्छेत्क्षत्रियो भवन् । (क० स०) | अपि गङ्गाजलस्नानादधः केशः कुशायते । |
| अधर्मविषवृक्षस्य पच्यते स्वादु किं फलम् । (क० स०) | अपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम् । (मा० मा०) |
| अधिकस्याधिकं फलम् । | अपि धन्वन्तरिर्वैद्यः किं करोति गतायुषि । |
| अनध्वा वाजिनां जरा । (प० त०) | अपि मुदमुपयान्तो वाग्विलासैः स्वकीयैः परभणितिषु तृप्तिं यान्ति सन्तः कियन्तः । |
| अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा । (कु० स०) | अपि स्वदेहात्किमुतेन्द्रियार्थाद्यशोधनानां हि यशो गरीयः । (र० व०) |
| अनन्यगामिनी पुंसां कीर्तिरेका पतिव्रता । | |
| अनपायिनि संश्रयद्रुमे गजभङ्गे पतनाय वल्लरी । (कु०स०) |
१ एतत्सांकेतिकचिह्नानां विवरणं 'सांकेतिकचिह्नपरिचयात्' अवसेयम् ।
1 सु० र० भा०