भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 416, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 416
सुभाषितरत्नखण्डमञ्जूषा
सुभाषितम्सन्दर्भःसुभाषितम्सन्दर्भः
ख(फ)टाटोपो भयंकरः ।(प० त०)चाण्डाल पक्षिणा काकः ।
खण्डिता एव शोभन्ते वीराधरापयोधराः ।चाण्डालोऽपि नरः पूज्यो यस्यास्ति विपुल धनम् ।
खलसङ्गेऽपि नैष्ठुर्यं कल्याणप्रकृतेः कुत ।चाराञ्जानन्ति राजान ।
गणयन्ति न राज्यार्थेऽपत्यस्नेहं महीभुजः ।(क० स०)चित्त जानाति जन्तूना प्रेम जन्मान्तरार्जितम् ।(क० स०)
गतं न शोचामि कृतं न मन्ये ।चित्तमेतदमलीकरणीयम् ।
गतस्य शोचन नास्ति ।चित्ते वाचि क्रियाया च साधूनामेकरूपता ।
गतानुगतिको लोको न लोकः पारमार्थिकः ।चित्रा गतिः कर्मणाम् ।
गन्तव्य राजपथे ।चिन्ता जरा मनुष्याणाम् ।
गहना कर्मणो गतिः ।(भ० गी०)चिन्तासम नास्ति शरीरशोषणम् ।
गुणलुब्धाः स्वयमेव संपद ।(कि० अ०)चेष्टाप्रतिरूपिका कामिजनमनोवृत्तिः ।(अ० शा०)
गुणसहते समतिरिक्तग्रहो निजमेव सत्त्वमुपकारि सताम् ।(कि० अ०)चोराणामनृतं बलम् ।
गुणान्भूषयते रूपम् ।चौरे गते या किसु सावधानम् ।
गुणानुजोत्थ्यायविरुद्धबुद्धयः प्रकृत्यमित्रा हि सतामसाधवः ।(कि० अ०)छाया न मूर्च्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा ।(अ० शा०)
गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः ।(उ० च०)छाया हि भूमेः शशिनो मलत्वेनारोपिता शुद्धिमतः प्रजाभि ।(र० व०)
गुणिनेि गुणज्ञो रमते नागुणशीलस्य गुणिनेि परितोषः ।छायेव मैत्री खलसज्जनानाम् ।(प० त०)
गुणी गुण वेत्ति न वेत्ति निर्गुणः ।(म० स्मृ०)छिद्रेष्वनर्था बहुलीभवन्ति ।(प० त०)
गुणैर्विहीना बहु जल्पयन्ति ।जगति बहुमताः कस्य नाभ्यर्थनीयाः ।
गुहता नयन्ति हि गुणा न संहतिः ।(कि० अ०)जठरं को न बिभर्ति केवलम् ।
गुर्वीपि विरहदुःखमाशाबन्ध साहयति ।(अ० शा०)जनानने कः करमर्पयिष्यति ।(नै० च०)
गृहानुपैतुं प्रणयादमीप्सवो भवन्ति नापुण्यकृतां मनीषिणः ।(शि० व०)जनानुरागप्रभवा हि संपदः ।
गृहे या पुण्यनिष्पत्तिः साध्वनि भ्रमतः कुतः ।(क० स०)जनो बहु क्षपयति स्वल्पस्यार्थे धनान्यधीः ।(क० स०)
ग्रसते हि तमोपहं मुहुर्न तु राह्वङ्गमपहर्त्ति तमः ।(शि० व०)जपतो नास्ति पातकम् ।
ग्रहीतुमार्यान्परिचर्यया मुहुर्महानुभावा हि नितान्तमर्थिनः ।(शि० व०)जरा रूपं हरति ।
ग्रामनाशाय कुञ्जर ।(वृ० चा०)जलदसमय एष प्राणिनां प्राणभूतः ।(का० दा०)
ग्रामस्यार्थे कुल त्यजेत् ।(प० त०)जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।
ग्रावाणोऽप्यार्द्रता सम्यग्भजन्त्यभिमुखे विधौ ।(क० स०)जातं तु जातं न पुन प्रयाति ।
ग्लपयति यथा शशाङ्क न तथा हि कुमुद्वतीं दिवसः ।(अ० शा०)जातस्य हि ध्रुवो मृत्युः ।(यो० वा०)
घनाम्बुना राजपथे हि पिच्छिले क्वचिद्बुधैरप्यपथेन गम्यते ।(नै० च०)जातापत्या पतिं द्वेष्टि ।
घनाम्बुभिर्बहुल्लितनिन्नगाजलैर्जलं नहि व्रजति विकारमम्बुधेः ।(शि० व०)जातौ जातौ नवाचाराः ।
घ्नन्ति सहजमपि भूरिभियः सममागताः सपदि वैरमापद ।(कि० अ०)जानन्ति पशवो गन्धम् ।
चकास्ति योग्येन हि योग्यसंगमः ।(नै० च०)जामाता दशमो ग्रहः ।
चक्रवत्परिवर्तन्ते दु खानि च सुखानि च ।(यो० वा०)जायन्ते बत मूढाना संवादा अपि तादृशाः ।(क० स०)
चक्षुःपूतं न्यसेत्पादम् ।(चा० नी०)जारस्त्रीणां पति शत्रुः ।
चन्द्रचन्दनयोर्मध्ये शीतला साधुसंगतिः ।जितक्रोधेन सर्वं हि जगदेतद्विजीयते ।(क० स०)
चपलौ किल शूराणा रणे जयपराजयौ ।(क० स०)जितक्रोधो न दुःखास्यादीभवेत् ।(क० स०)
जितशान्तेषु धीराणां स्नेह एवोचितोऽरिषु ।(क० स०)
जिह्वालक्षशतैककोटिनियमो नो दुर्जनाना मुखे ।
जीवन्तमेव कुष्णाति काकीव कुकुटुम्बिनी ।(क० स०)
जीवन्तोऽसति मूढोऽर्थान्यावदर्थैः स नोञ्झितः ।(क० स०)
जीवन्हि धीरोऽभिमतं किं नाम न यदामुयात् ।(क० स०)
जीवो जीवस्य जीवनम् ।
ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः ।(मे० दू०)