सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
DevanagariSanskritpublished516 पृष्ठ
पृष्ठ 417, कुल 516 में से
संदर्भ में पढ़ेंपृष्ठ 417
८ | सुभाषितरत्नभाण्डागारम्
| ज्ञानमार्गे ह्यहंकारः परिघो दुरतिक्रमः । (क० स०) | दयितास्तनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने । (कु० स०) |
| ज्ञानमेव शक्तिः । | दरिद्रता धीरतया विराजते । |
| ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति । (भर्तृ०) | दर्दुरा यत्र वक्तारस्तत्र मौनं हि शोभनम् । |
| ज्ञानस्याभरणं क्षमा । | दशाननोऽहरत्सीतां बन्धनं च महोदधेः । |
| ज्येष्ठभ्राता पितुः समः । | दारिद्र्यदोषेण करोति पापम् । |
| ज्वलयति महतां मनांस्यमर्षे न हि लभतेऽवसरं सुखाभिलाषः । (कि० अ०) | दारिद्र्यदोषो गुणराशिनाशी । (घ० ख०) |
| झटिति पराशयवेदिनो हि विज्ञाः । (नै० च०) | दारिद्र्यं परमाञ्जनम् । (भा० व०) |
| तक्रान्तं खलु भोजनम् । | दावानलप्लोषविपत्तिमन्त्योऽरण्यस्य हर्तुं जलदाम्रभुः किम् । (कु० सं०) |
| तत्कामुकं कर्मसु यस्य शक्तिः । | |
| तत्क्षणं किं नु कुर्याद्धि प्रसादं पारमेश्वरः । (क० स०) | दिक्शून्या चेद्बान्धवाः । |
| तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः । (उ० च०) | दिवि गगनरत्नं दिनकरः । (प्र० भ०) |
| तत्र सौरभनिर्माणे चतुरश्चतुराननः । | दिशत्यपायं हि सतामतिक्रमः । (कि० अ०) |
| तदेव दुःसहं स्त्रीणामिह प्रणयखण्डनम् । (क० स०) | दुःखान्धा हि पतन्त्येव विपच्छृङ्गेषु कातराः । (क० स०) |
| तपः सीमा मुक्तिः । (प्र० भ०) | दुग्धधौतोऽपि किं याति वायसः कलहंसताम् । |
| तपोधनानि श्रेयांसि ह्युपायोऽन्यो न विद्यते । (क० स०) | दुरधिगमा हि गतिः प्रयोजनानाम् । (कि० अ०) |
| तपोधीना हि संपदः । (क० स०) | दुरधीता विषं विद्या । (हि०) |
| तमस्तपति घर्मांशौ कथमाविर्भविष्यति । (अ० शा०) | दुरितभ्रतप शुद्धिसव्यपेक्षा हि सिद्धयः । (क० स०) |
| तरुणीकच इव नीचः कौटिल्यं नैव विजहाति । | दुर्गहीनस्तथा नृपः । (हि०) |
| तस्करस्य कुतो धर्मः । | दुर्जनः परिहर्तव्यो विद्ययाऽलंकृतोऽपि सन् । |
| तस्माच्छेषं न रक्षयेत् । | दुर्जनस्य कुतः क्षमा । |
| तस्माज्जात्या महान्तोऽधमजनविषये मौनमेवाश्रयन्ते । | दुर्जनस्यार्जितं वित्तं भुज्यते राजतस्करैः । |
| तस्मात्सर्वं परित्यज्य पतिमेकं भजेत्सती । | दुर्जेया हि विषया विदुषामपि । (नै० च०) |
| तस्य तदेव हि मधुरं यस्य मनो यत्र संलग्नम् । | दुर्बलस्य बलं राजा । (हि०) |
| तस्य विस्तारिता बुद्धिस्तैलविन्दुरिवाम्भसि । | दुर्मन्त्री राज्यनाशाय । (प० त०) |
| तस्य संकुचिता बुद्धिर्घृतबिन्दुरिवाम्भसि । | दुर्लक्ष्यचिह्ना महता हि वृत्तिः । (कि० अ०) |
| तिष्ठत्येका निशा चन्द्र श्रीमत्सम्पूर्णमण्डलः । | दुर्लभः क्षेमकृत्सुतः । |
| तीव्रसत्त्वस्य न चिराद्भवन्त्येव हि सिद्धयः । (क० स०) | दुर्लभं भारते जन्म मानुष्यं तत्र दुर्लभम् । |
| तुदति कुसुममासो मन्मथोत्तेजनाय । (का० दा०) | दुर्लभः स गुरुर्लोके शिष्यचिन्तापहारकः । |
| तुल्यप्रतिद्वन्दि बभूव युद्धम् । | दुर्लभः स्वजनप्रियः । |
| तृप्यन्ति भोजनैर्विप्राः । | दुष्टं हि जन्तुमुत्थाप्य कस्यात्मनि सुखं भवेत् । (क० स०) |
| तृष्णैका तरुणायते । (प० त०) | दुष्टेऽपि पत्नौ साध्वीनां नान्यथावृत्ति मानसम् । (क० स०) |
| तेजसा हि न वयः समीक्ष्यते । (र० व०) | दूरतः पर्वता रम्याः । |
| ते भूमण्डलमण्डनैकतिलका सन्तः कियन्तो जनाः । | दुरारोहपरिश्रंशविनिपातो हि दारुणः । |
| तेषामिन्द्रियनिग्रहो यदि भवेद्विन्ध्यस्तरेत्सागरम् । | दृष्टतत्त्वश्च न पुनः कर्मजालेन बध्यते । (क० स०) |
| त्यजन्त्युत्तमसत्त्वा हि प्राणानपि न सत्पथम् । (क० स०) | दृष्टो हि वृष्णवकल्पप्रमाणोऽप्याशाः पुरोवातमवाप्य मेघः । (र० व०) |
| त्यजेदेकं कुलस्यार्थे । (प० त०) | |
| त्यागाज्जगति पूज्यन्ते पशुपाषाणपादपाः । | देवद्विजसपर्या हि कामधेनुर्मता सताम् । (क० स०) |
| त्राणाभावे हि शापाज्ञा कुर्वन्ति तपसो व्ययम् । (र० व०) | देवा हि नान्यद्वितरन्ति किं तु प्रसङ्ग ते साधुधियं ददन्ते । (नै० च०) |
| त्रिभुवनविषये कस्य दोषो न चास्ति । | |
| त्रैलोक्ये दीपको धर्मः । | देवो दुर्बलघातकः । |
| ददाति तीव्रसत्त्वानामिष्टमीश्वर एव हि । (क० स०) | देहपातमपीच्छन्ति सन्तो नाविनयं पुनः । (क० स०) |
| दया मांसाशिनः कुतः । (प० त०) | देहस्नेहो हि दुस्त्यजः । (क० स०) |
| दयितं जनं खलु गुणीति मन्यते । (शि० व०) | दैवमेव हि साहाय्यं कुरुते सत्त्वशालिनाम् । (क० स०) |