सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
DevanagariSanskritpublished516 पृष्ठ
पृष्ठ 428, कुल 516 में से
संदर्भ में पढ़ेंपृष्ठ 428
| सुभाषितरत्नखण्डमञ्जूषा | १९ |
|---|
| सत्त्वानुरूपं सर्वस्य धाता सर्वं प्रयच्छति । (क० स०) | समीरणो नोदयिता भवेति व्यादिश्यते केन हुताशनस्य । (कु० स०) |
| सत्पुत्र एव कुलसद्मनि कोऽपि दीपः । | सपत्सु हि सुसत्त्वानामेकहेतुः स्वपोषणम् । (क० स०) |
| सत्यः प्रवादो यच्छिद्रेष्वनर्था यान्ति भूरिताम् । (क० स०) | सम्पूर्णकुम्भो न करोति शब्दम् । |
| सत्यनियतवचस वचसा सुजनं जनाश्चलयितुं क ईशते । (शि० व०) | संभवत्यभिजातानामभिमानो ह्यकृत्रिमः । (क० स०) |
| सत्यपूता वदेद्वाणीम् । | संभावना ह्यविकृतस्य तनोति तेजः । (कि० अ०) |
| सत्यं सम्यक्कृतोऽल्पोऽपि धर्मो भूरिफलो भवेत् । (क० स०) | संभावितस्य चाकीर्तिर्मरणादतिरिच्यते । (भ० गी०) |
| सत्यं कण्ठस्य भूषणम् । | समुपनो हि जयो रन्ध्रप्रहारिणाम् । (र० व०) |
| सत्य न तद्यच्छलमभ्युपैति । | सरित्पतिर्नहि समुपेति रिक्तताम् । (शि० व०) |
| सत्यमेव जयते । (वृ० चा०) | सरित्पूरप्रपूर्गोऽपि क्षारो न मथुरायते । (वा० वा०) |
| सत्येन तपते रविः । (वृ० चा०) | सर्पः क्रूरः खलः क्रूरः सर्पात्क्रूरतरः खलः । (चा० नी०) |
| सत्येन धार्यते पृथ्वी । (वृ० चा०) | सर्वं स्नेहात्प्रवर्तते । (म० भा०) |
| सत्येन पूर्यते साक्षी । | सर्वं कान्तमात्मीयं पश्यति । (अ० शा०) |
| सत्येन वाति वायुश्च । (वृ० चा०) | सर्वं कालवशेन नश्यति । |
| सत्संगतिः कथय किं न करोति पुंसाम् । (भर्तृ०) | सर्वं कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् । (भर्तृ०) |
| सदसद्वा नहि विदुः कुक्षीवचनमोहिताः । (क० स०) | सर्वः प्रार्थितमर्थमविगम्य सुखी संपद्यते जन्तुः । |
| सदाभिमानैकधना हि मानिनः । (शि० व०) | राज्ञा तु चरितार्थता दुःखोत्तरैव । (अ० शा०) |
| सदा स्याद्योऽत्र यच्चित्तन्मयत्वमुपैति सः । (क० स०) | सर्वं प्रियं खलु भवत्यनुरूपचेष्टे । (शि० व०) |
| सदोभूषा सूक्तिः । | सर्वं कार्यवशाज्जनोऽभिरमते तत्कस्य को वल्लभः । (भर्तृ०) |
| सद्भावाद्रैः फलति न चिरेणोपकारो महत्सु । (म० दू०) | सर्वं जीवद्भिराप्यते । (क० स०) |
| सद्भिः कुर्वीत संगतिम् । | सर्वं यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः । |
| सद्भिरेव सहासीत । | सर्वं रत्नमुपद्रवेन सहितं निर्दोषमेकं यशः । |
| सद्भिर्विवादं मैत्रीं च । | सर्वं शून्यं दरिद्रस्य । (प० त०) |
| सद्भिस्तु लीलया प्रोक्तं शिलालिखितमक्षरम् । | सर्वं सत्ये प्रतिष्ठितम् । (चा० नी०) |
| सद्यः फलति गान्धर्वम् । | सर्वं सावधि नावधि कुलभुवां प्रेम परं केवलम् । |
| सद्य एव सुकृता हि पच्यते कल्पवृक्षफलधर्मि काङ्क्षितम् । (र० व०) | सर्वनाशाय मातुलः । (चा० नी०) |
| स धार्मिको यः परधर्मं न स्पृशेत् । | सर्वमत्यन्तगर्हितम् । |
| स धीरो यो न संमोहमापत्कालेऽपि गच्छति । (क० स०) | सर्वलोकप्रतिष्ठाया यतन्ते बहवो जनाः । |
| सन्तः परीक्ष्यान्यतरद्भजन्ते । | सर्वशून्या दरिद्रता । |
| सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाम् । (म० भा०) | सर्वश्चित्तप्रमाणेण सदसद्वाभिवाञ्छति । (क० स०) |
| संततिः शुद्धवंश्या हि परत्रेह च शर्मणे । (र० व०) | सर्वस्यौषधमस्ति शास्त्रविहितं, मूर्खस्य नास्त्यौषधम् । (प० त०) |
| संतोष एव पुरुषस्य परं निधानम् । | सर्वाङ्गे दुर्जनो विषम् । |
| संतोषतुल्यं धनमस्ति नान्यत् । | सर्वारम्भास्तण्डुलप्रस्थमूलाः । |
| संतोषे ब्राह्मणः शुचिः । | सर्वास्ववस्थासु रमणीयत्वमाकृतिविशेषाणाम् । (अ० शा०) |
| संदीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः । (भर्तृ०) | सर्वे गुणाः काञ्चनमाश्रयन्ते । (भर्तृ०) |
| संधत्ते भृशमरतिं हि सद्वियोगः । | सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । (म० भा०) |
| संधिं कृत्वा तु हन्तव्यः सम्प्राप्तेऽवसरे पुनः । (क० स०) | सर्वो हि नोपगतमप्यपचीयमानं वर्धिष्णुमाश्रयमनागतमभ्युपैति । (शि० व०) |
| संनिकृष्टे निकृष्टेऽपि कष्टं रच्यन्ति कुक्षियः । (क० स०) | सलज्जा गणिका नष्टा । |
| सभारत्नं विद्वान् । (प्र० भ०) | स सुहृद्व्यसने यः स्यात् । (प० त०) |
| समये हि सर्वमुपकारि कृतम् । (शि० व०) | सहते मादृश को हि तादृशं धर्मविप्लवम् । (क० स०) |
| समर्थो यो नित्यं स जयतितरा कोऽपि पुरुषः । | सहने विपत्सहस्रं मानी नैवापमानलेशमपि । (म० भा०) |
| समानशीलव्यसनेषु सख्यम् । (हि० प०) | सहते विरहक्लेशं यशस्वी नायशः पुनः । (क० स०) |