सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
DevanagariSanskritpublished516 पृष्ठ
पृष्ठ 430, कुल 516 में से
संदर्भ में पढ़ेंपृष्ठ 430
<br>
| सुभाषितरत्नखण्डमञ्जूषा । | २१ |
|---|---|
| स्वगृहे पूज्यते मूर्खः । | स्वामिवन्पञ्च वर्षाणि दश वर्षाणि दासवत् । प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत् ॥ (प्र० भ०) |
| स्वग्रामे पूज्यते प्रभुः । | स्वाम्यायत्ताः सदा प्राणा भृत्यानामर्जिता धनैः । (प० त०) |
| क्वचित्कल्पितो गर्व्वः कस्य केन प्रशाम्यति । (प० त०) | स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिश्चति । (शि० व०) |
| स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते । (कु० स०) | स्वेनाननस्य स्फुटतां यियासोः फूत्कृत्यपेक्षा कियती खलु स्यात् । (शि० व०) |
| स्वजनालोकवातेद्धो दुःखाग्निः कं न तापयेत् । (क० स०) | हंसो यथा क्षीरमिवाम्बुमध्यात् । |
| स्वजातीयविघाताय माहात्म्यं दृश्यते नृणाम् । | हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयन्त्यपः । (अ० शा०) |
| स्वत एव सतां परार्थता ग्रहणानां हि यथा यथार्थता । (शि० व०) | हहो पञ्चसरः कुतः कतिपयैरहैर्विना श्रीस्तव । |
| स्वदेशजातस्य नरस्य नूनं गुणाधिकस्यापि भवेदवज्ञा । | हतं ज्ञानं क्रियाहीनम् । (वृ० चा०) |
| स्वदेशे पूज्यते राजा । (चा० नी०) | हतमश्रोत्रिय श्राद्धं । (चा० नी०) |
| स्वधर्मे निधनं श्रेयः परधर्मो भयावहः । (भ० गी०) | हतं सैन्यमनायकम् । (चा० नी०) |
| स्वधियो निश्चयो नास्ति यस्य स भ्रमति स्वयम् । (वृ० शा०) | हतश्चाज्ञानतो नरः । (वृ० चा०) |
| स्वपन्त्यहो हि निश्चेष्टाः कुतो निद्रा विवेकिनाम् । (क० स०) | हतविधिपरिपाकः केन वा लङ्घनीयः । (मे० दू०) |
| स्वपदाच्च्यवमानस्य कस्याज्ञा को हि मन्यते । (क० स०) | हरति मनो मधुरा हि यौवनश्रीः । (कि० व०) |
| स्वभाव एवैष परोपकारिणाम् । (भर्तृ०) | हसन्नपि नृपो हन्ति । |
| स्वभावतः सर्वमिदं हि सिद्धम् । | हस्तस्य भूषणं दानम् । |
| स्वभावस्वच्छानां पतनमपि भाग्यं हि भवति । | हस्तौ दानविवर्जितौ । (वृ० चा०) |
| स्वभावो दुरतिक्रमः । (प० त०) | हा कष्टं खलु वर्तते कलियुगे धन्या नराः सजनाः । |
| स्वभावो यादृशो यस्य न जहाति कदाचन । (चा० नी०) | हास्यादृते किमन्यत्स्याद्दतितौल्यवतां फलम् । (क० स०) |
| स्वमहिमदर्शनमङ्गेणेर्मुकुरतले जायते यस्मात् । | हा हा तथापि विषयान्न जहाति चेतः । (भर्तृ०) |
| स्वयशांसि विक्रमवतामवता न वधूर्व्वधानि विमृशन्ति धिय । (कि० अ०) | हिंसा बलमसाधूनां । (म० भा०) |
| स्वयमेव हि वातोऽग्नेः सारथ्यं प्रतिपद्यते । (र० व०) | हितप्रयोजनं मित्रम् । |
| स्ववीर्यगुप्ता हि मनोः प्रसूतिः । (र० व०) | हितभुङ्मितभुक् शाकभुक् । |
| स्वसुखं नास्ति साध्वीनां तासा भर्तृसुखं सुखम् । (क० स०) | हितमारण्यमौषधम् । |
| स्वस्थे को वा न पण्डित । (प० त०) | हितं मनोहारि च दुर्लभं वच । (कि० अ०) |
| स्वस्थे चित्ते बुद्धयः संभवन्ति । | हितैषिण सन्ति न ते मनीषिणः । |
| स्वादुभिस्तु विषयैर्हृतस्ततो दुःखमिन्द्रियगणो निवार्यते (र० व०) | हितोपदेशो मूर्खस्य कोपायैव न शान्तये । (क० स०) |
| स्वाधीनकुशलाः सिद्धिमन्तः । (अ० शां०) | हीनान्यनुपकर्तॄणि प्रवृद्धानि विकुर्वते... ...मित्राणि । (र० व०) |
| स्वाधीना दयिता सुतावधि । | हीयते हि मतिस्तात हीनैः सह समागमात् ॥ (हि०) |
| स्वामापदं प्रोञ्छ्य विपत्तिमग्रं शोचन्ति सन्तो ह्युपकारिपक्षम् । (कि० अ०) | हेम्न संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा । (र० वं०) |
| स्वामिन्यसाध्यव्यसने सुखं सन्मन्त्रिणां कुतः । (क० स०) | होतारमपि जुह्वन्त स्पृष्टो दहति पावकः । (प० त०) |
| ह्यर्थो हि लोक पुरुषस्य बन्धु । (भर्तृ०) | |
| ह्रदे गभीरे हृदि चावगाढे शंसन्ति कार्यावतरं हि सन्तः । (नै० च०) |
इति सुभाषितरत्नखण्डमञ्जूषा संपूर्णा ॥