स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 112, कुल 204 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः । *यौगन्धरायणः — (स्वगतम्) एवम् । एषा सा मगधराज- पुत्री पद्मावती नाम, या पुष्पकभद्रादिभिरादेशिकैरादिष्टा स्वामिनो देवी भविष्यतीति । ततः, प्रद्वेषो बहुमानो वा सङ्कल्पादुपजायते । भर्तृदाराभिलाषित्वादस्यां मे महती स्वता ॥ ७ ॥ वासवदत्ता -- (स्वगतम्) (क) राअदारिअत्ति सुणिअ भइ- णिआसिणेहो वि मे एत्थ सम्पज्जइ । (ततः प्रविशति पद्मावती सपरिवारा चेटी च) चेटी -- (ख) ऐँदु एदु भट्टिदारिआ, इदं अस्समपदं पविसदु । (ततः प्रविशत्युपविष्टा तापसी) तापसी — (ग) साअदं राअदारिआए । वासवदत्ता — (स्वगतम्) (घ) इअं सा राअदारिआ। अभि- जणाणुरूर्वं खु से रूवं । पद्मावती — (ङ) अय्ये ! वन्दामि । तापसी -- (च) चिरं जीव । पविस जादे ! पविस । तवो- वणाणि णाम अदिहिजणस्स सअगेहं । (क) राजदारिकेति श्रुत्वा भगिनिकास्नेहोऽपि मेऽत्र संपद्यते । (ख) एत्वेतु भर्तृदारिका, इदमाश्रमपदं प्रविशतु । (ग) स्वागतं राजदारिकायाः । (घ) इयं सा राजदारिका । अभिजनानुरूपं खल्वस्या रूपम् । (ङ) आर्ये ! वन्दे । (च) चिरं जीव । प्रविश जाते ! प्रविश । तपोवनानि नामातिथिजनस्य स्वगेहम् । १. 'सा रा' ख. पाठः. २. 'त्री या' क. पाठः. ३. 'टी ए' क. पाठः. ४. 'इदो इंदो भ' ख. पाठः. ५. 'ति ता' ख. पाठः. ६. 'सी प' क. पाठः. * इयं यौगन्धरायणोक्तिः समनन्तरवासवदत्तोक्त्युत्तरं पठ्यते ख. पुस्तके ।