स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 113, कुल 204 में से
संदर्भ में पढ़ें६ स्वप्नवासवदत्ते पद्मावती — (क) भोदु भोदु। अय्ये! विस्ससि(हे?)हि। १ इमिणा बहुमाणवअणेण अणुग्गहिदह्मि। वासवदत्ता — (स्वगतम्) (ख) ण हिं रूवं एव्व, वाआ वि २ खु से महुरा। तापसी — (ग) भद्दे! इम दाव भद्दमुहस्स भइणिआ। कोचि राआ ण व(दे?रे)दि। चेटी — (घ) अत्थि राआ पज्जोदो णाम उज्जइणीए। सो दारअस्स कारणादो दूदसम्पादं करेदि। वासवदत्ता — (आत्मगतम्) (ङ) भोदु भोदु। एसा अ अत्त- णीआ दाणिं संवुत्ता। तापसी — (च) अहो खु इमं आइदी। इमस्स बहुमाणस्स उभआणि राअउलाणि महत्तराणि त्ति सुणीअदि। ३ ४ पद्मावती — (छ) अय्य! किं दिट्ठो मुणिजणो अत्ताणं अणुग्गहीदुं इच्छदि त्ति। : (क) भवतु भवतु। आर्ये! विश्वसिहि। अनेन बहुमानवचनेनानुगृहीतास्मि। (ख) न हि रूपमेव, वागपि खल्वस्या मधुरा। (ग) भद्रे! इयं तावद् भद्रमुखस्य भगिनिका। कश्चिद् राजा न वरयति। (घ) अस्ति राजा प्रद्योतो नामोज्जयिन्याः। स दारकस्य कारणाद् दूतसम्पातं करोति। (ङ) भवतु भवतु। एषा चात्मीयेदानीं संवृत्ता। (च) अहो खल्वियमाकृतिः। अस्य बहुमानस्योभे राजकुले महत्तरे इति श्रूयते। (छ) आर्य! किं दृष्टो मुनिजन आत्मानमनुग्रहीतुमिच्छतीति। १. 'ह्नि अ।' क. पाठः, २. 'हु' ख. पाठः, ३. 'णि म' क. पाठः, ४. 'न्दि' क. पाठः,