स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 121, कुल 204 में से
संदर्भ में पढ़ें१४ स्वप्नवासवदत्ते यौगन्धरायणः — अथ भोः ! तं तु पर्यवस्थापयितुं न कश्चिद् यत्नवानमात्यः । ब्रह्मचारी — अस्ति रुमण्वान्नामामात्यो दृढं प्रयत्नवांस्तत्र- भवन्तं पर्यवस्थापयितुम् । स हि, अनाहारे तुल्यः प्रततरुदितक्षामवदनः शरीरे संस्कारं नृपतिसमदुःखं परिवहन् । दिवा वा रात्रौ वा परिचरति यत्नैर्नरपतिं नृपः प्राणान् सद्यस्त्यजति यदि तस्याप्युपरमः ॥१४॥ वासवदत्ता — (क) दिट्ठिआ सुणिक्खित्तो दाणीं अय्यउत्तो । यौगन्धरायणः — (आत्मगतम्) अहो *महद्भारमुद्वहति रुमण्वान् । कुतः, सविश्रमो ह्ययं ‡भारः प्रसक्तस्तस्य तु श्रमः । तस्मिन् सर्वमधीनं हि यत्राधीनो नराधिपः ॥ १५ ॥ (प्रकाशम्) अथ भोः ! पर्यवस्थापित इदानीं स राजा । ब्रह्मचारी — तदिदानीं न जाने । इह तया सह हसितम्, इह तया सह कथितम्, इह तया सह पर्युषितम्, इह (क) दिष्ट्या सुनिश्चित इदानीमार्यपुत्रः । १. 'स' ख. पाठः.
- महतो दुरुद्वहभारवहनक्षमस्य भारं महद्भारम् । ‡ अयं नराधिपदाररक्षणरूपो मदीयो भारः सविश्रमः पद्मावत्यां तन्न्यसनादित्यर्थः । तस्य रुमण्वतः प्रसक्तो भारस्तु नराधिपरक्षणल- क्षणः श्रमः श्रमहेतुः ।