स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 120, कुल 204 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः । ११ चेटी — (क) भट्टिदारिए ! रोदिदि खु इअं अय्या । पद्मावती — (ख) साणुक्कोसाए होदव्वं । यौगन्धरायणः — अथकिम् । प्रकृत्या सानुक्रोशा मे भगिनी । ततस्ततः । ब्रह्मचारी — ततः शनैः शनैः प्रतिलब्धसंज्ञः संवृत्तः । पद्मावती — (ग) दिट्ठिआ धरइ, मोहं१ गदो त्ति सुणिअ सुण्२(णं) विअ मे हिअअम् । यौगन्धरायणः — ततस्ततः । ब्रह्मचारी — ततः स राजा महीतलपरिसर्पणपांसुपाटल- शरीरः सहसोत्थाय 'हा३ वासवदत्ते ! हा अवन्तिराजपुत्रि ! हा प्रिये ! हा प्रियशिष्ये !' इति किमपि किमपि बहु प्रलपि- तवान् । किं बहुना, नैवेदानीं (दुःखि) ताश्चक्रवाका नैवाप्यन्ये स्त्रीविशेषैर्वियुक्ताः । धन्या सा स्त्री यां तथा वेत्ति भर्ता भर्तृस्नेहात् सा४ हि दग्धाप्यदग्धा ॥ १३ ॥ (क) भर्तृदारिके ! रोदिति खल्वियमार्या । (ख) सानुक्रोशया भवितव्यम् । (ग) दिष्ट्या ध्रियते । मोहं गत इति श्रुत्वा शू(न्य)मिव मे हृदयम् । १. 'मोहगदो' ख. पाठः. २. 'सुठन्त (?) वि' ख. पाठः. ३. 'हा अवन्तिराजपुत्रि ! हा वासवदत्ते ! हा प्रि' ख. पाठः. ४. 'सामिद' ख. पाठः.