स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 119, कुल 204 में से
संदर्भ में पढ़ें१२ स्वप्नवासवदत्ते वासवदत्ता — (क) *अळिअं अळिअं एदं । जीवामि मन्दभाआ । यौगन्धरायणः — ततस्ततः । ब्रह्मचारी — ततस्तामभ्यवपत्तुकामो यौगन्धरायणो नाम सचिवस्तस्मिन्नेवाग्नौ पतितः । यौगन्धरायणः — सत्यं पतित इति । ततस्ततः । ब्रह्मचारी — ततः प्रतिनिवृत्तो राजा तद्वृत्तान्तं श्रुत्वा तयोर्वियोगजनितसन्तापस्तस्मिन्नेवाग्नौ प्राणान् परित्यक्तुका- मोऽमात्यैर्महता यत्नेन वारितः । वासवदत्ता — (ख) *जाणामि जाणामि अय्यउत्तस्स मइ साणुक्कोसत्तणं । यौगन्धरायणः — ततस्ततः । ब्रह्मचारी — ततस्तस्याः शरीरोपभुक्तानि दग्धशेषाण्याभर- णानि परिष्वज्य राजा मोहमुपगतः । सर्वे — हा । वासवदत्ता — (स्वगतम्) (ग) सकामो दाणिं अय्यजोअ- न्धराअणो होदु । (क) अलीकमलीकमेतत् । जीवामि मन्दभागा । (ख) जानामि जानाम्यार्यपुत्रस्य मयि सानुक्रोशत्वम् । (ग) सकाम इदानीमार्ययौगन्धरायणो भवतु । १. 'मामात्यस्त' ख. पाठः.
- उभयत्र '( स्वगतम् )' इत्यपेक्षितम् ।