भारतकोश
स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

Svapnavasavadattam of Bhasa with Hindi Commentary

महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished204 पृष्ठ

पृष्ठ 118, कुल 204 में से

संदर्भ में पढ़ें
पृष्ठ 118

प्रथमोऽङ्कः । ११ काञ्चुकीयः—भोः ! पूर्वं प्रविष्टाः स्मः । प्रतिगृह्यताम- तिथिसत्कारः । ब्रह्मचारी‡—(आचम्य) भवतु भवतु । निवृत्तपरिश्रमोऽस्मि । यौगन्धरायणः—भोः ! कुत आगम्यते, क्व गन्तव्यम्, काधिष्ठानमार्यस्य । ब्रह्मचारी—भोः ! श्रूयताम् । राजगृहतोऽस्मि । श्रुतिविशे- षणार्थं वत्सभूमौ लावाणकं नाम ग्रामस्तत्रोषितवानस्मि । वासवदत्ता—(क) §हा लावाणं णाम । लावाणअसं- कित्तणेण पुणो णवीकिदो विअ मे सन्तावो । यौगन्धरायणः—अथ परिसमाप्ता विद्या । ब्रह्मचारी—न खलु तावत् । यौगन्धरायणः—यद्यनवसिता विद्या, किमागमनप्रयो- जनम् । ब्रह्मचारी—तत्र खल्वतिदारुणं व्यसनं संवृत्तम् । यौगन्धरायणः—कथमिव । ब्रह्मचारी—तत्रोदयनो नाम राजा प्रतिवसति । यौगन्धरायणः—श्रूयते तत्रभवानुदयनः । किं सः । ब्रह्मचारी—तस्यावन्तिराजपुत्री वासवदत्ता नाम पत्नी दृढमभिप्रेता किल। यौगन्धरायणः—भवितव्यम् । ततस्ततः । ब्रह्मचारी—ततस्तस्मिन् मृगयानिष्क्रान्ते राजनि ग्राम- दाहेन दग्धा । (क) हा लावाणकं नाम । लावाणकसङ्कीर्तनेन पुनर्नवीकृत इव मे सन्तापः । ‡ इतः परं 'भोः ! श्रूयताम्' इत्येव ख. पुस्तकपाठः । § 'स्वगतम्' इत्यपेक्षितम् ।