स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 117, कुल 204 में से
संदर्भ में पढ़ेंतत्प्रत्ययात् कृतमिदं न हि सिद्धवाक्या- न्युत्क्रम्य गच्छति विधिः सुपरीक्षितानि ॥ ११ ॥ (ततः प्रविशति ब्रह्मचारी) ब्रह्मचारी — (ऊर्ध्वमवलोक्य) स्थितो मध्याह्नः । दृढमस्मि परिश्रान्तः। अथ कस्मिन् प्रदेशे विश्रमयिष्ये । (परिक्रम्य) अभि- तस्तपोवनेन भवितव्यम् । तथाहि, विस्रब्धं हरिणाश्चरन्त्यचकिता देशागतप्रत्यया वृक्षाः पुष्पफलैः समृद्धविभवाः सर्वे दयारक्षिताः । भूयिष्ठं कपिलानि गोकुलधनान्यक्षेत्रवत्यो दिशो निःसन्दिग्धमिदं तपोवनमयं धूमो हि बह्वाश्रयः ॥ १२ ॥ यावत् प्रविशामि। (प्रविश्य) अये आश्रमविरुद्धः खल्वेष *जनः । (अन्यतो विलोक्य) अथवा तपस्विजनोऽप्यत्र । निर्दोषमुपसर्पणम् । अये स्त्रीजनः । काञ्चुकीयः — स्वैरं स्वैरं प्रविशतु भवान् । सर्वजनसा- धारणमाश्रमपदं नाम । वासवदत्ता — हैम् । पद्मावती — (क) अम्मो परपुरुसदंसणं परिहरदि अय्या । भोदु, सुपरिवालणीयो खु मेण्णासो । (क) अम्मो परपुरुषदर्शनं परिहरत्यार्या । भवतु, सुपरिपालनीयः खलु मन्न्यासः। १. 'निरूप्य' क. पाठः. २. 'विश्रमिख्ये'(?) ख. पाठः. ३. 'नुहम् '(?) ख. पाठः. ४. 'मे णा' ख. पाठः.
- जनः काञ्चुकीयः ।