स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 142, कुल 204 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः। ३५ पद्मावती — (क) अभणिअ किञ्चि दिग्घं णिस्सासिअ तुह्णीओ संवृत्तो। वासवदत्ता — (ख) तदो तुवं किं३ विअ तक्केसि। पद्मावती — (ग) तक्केमि अय्याए वासवदत्ताए गुणाणि सुमरिअ दक्खिणदाए मम अग्गदो ण रोदिदित्ति। वासवदत्ता — (आत्मगतम्) (घ) धण्णा खु ह्मि, जदि एव्वं सच्चं भवे। (ततः प्रविशति राजा विदूषकश्च) विदूषकः — (ङ) ही ही। पँचिअपडिअबन्धुजीवकु- सुमविरळे५वादरमणिज्जं पमदवणं। इंदो६ दाव भवं। राजा — वयस्य वसन्तक ! अयमर्थ्यमागच्छामि। कामेनोज्जयिनीं गते मयि तदा कामप्यवस्थां गते दृष्ट्वा स्वैरमवन्तिराजतनयां पञ्चेषवः पातिताः। तैरद्यापि सशल्यमेव हृदयं भूयश्च विद्धा वयं पञ्चेषुर्मदनो यदा कथमयं षष्ठः शरः पातितः ॥ १ ॥ (क) अभणित्वा किञ्चिद् दीर्घं निःश्वस्य तूष्णीकः संवृत्तः। (ख) ततस्त्वं किमिव तर्कयसि। (ग) तर्कयाम्यर्याया वासवदत्ताया गुणान् स्मृत्वा दक्षिणतया ममाग्रतो न रोदितीति। (घ) धन्या खल्वस्मि, यद्येवं सत्यं भवेत्। (ङ) ही ही प्रचितपतितबन्धुजीवकुसुमविरलपातरमणीयं प्रमदवनम्। इतस्तावद् भवान्। १. 'ती--किं' ख. पाठः. २. 'ह्नि' ख. पाठः. ३. 'किंतित' ख. पाठः. ४. 'णवविवांहधिअब' ख.पाठः. ५. 'ळसंपातर' ख. पाठः. ६. 'दो इदो दा' ख. पाठः. ७. 'हृ' ख. पाठः.