स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 143, कुल 204 में से
संदर्भ में पढ़ें३६ स्वप्नवासवदत्ते विदूषकः — (क) कहिंणुखु गदा तत्तहोदी पदुमावदी, ळदामण्डवं गदा भवे, उदाहो असणकुसुममञ्चिदं वग्घचम्मा- वगुण्ठिदं विअ पव्वदतिलअणामसिलापट्टअं गदा भवे, आहु अधिअकडुँअगन्धसत्तच्छदवणं पविट्ठा भवे, अहव, आळिहिद- मिअपक्खिसङ्कुळं दारुपव्वदेअं गदा भवे । (ऊर्ध्वमवलोक्य) ही ही सरअकाळणिम्मळे अन्तरिक्खे पसा(अ?इ)अबळदेवबाहुदंसणीअं३ सारसपन्ति जाव समाहिदं गच्छन्तिं पेक्खदु दाव भवं । राजा — वयस्य ! पश्याम्येनाम्, ऋज्वायतां च विरलां च नतोन्नतां च सप्तर्षिवंशकुटिलां च निवर्तनेषु । निर्मुच्यमानभुजगोदरनिर्मलस्य सीमामिवाम्बरतलस्य विभज्यमानाम् ॥ २ ॥ चेटी — (ख) पेक्खदु पेक्खदु भट्टिदारिआ एदं कोकणद- माळापण्डररमणीअं सारसपन्ति जाव समाहिदं गच्छन्तिं । अम्मो भट्टा । (क) कुत्रनुखलु गता तत्रभवती पद्मावती, लतामण्डपं गता भवेद्, उताहो असन- कुसुमसञ्चितं व्याघ्रचर्मावगुण्ठितमिव पर्वततिलकनामशिलापट्टकं गता भवेद्, अथवा अधिककटुकगन्धसप्तच्छदवनं प्रविष्टा भवेद्, अथवालेखितमृगपक्षिसङ्कुलं दारु- पर्वतकं गता भवेद् । ही ही शरत्कालनिर्मलेऽन्तरिक्षे प्रसारितबलदेवबाहुदर्शनीयां सारसपङ्क्तिं यावत् समाहितं गच्छन्तीं प्रेक्षतां तावद् भवान् । (ख) प्रेक्षतां प्रेक्षतां भर्तृदारिका एतां कोकनदमालापाण्डुररमणीयां सारसपङ्क्तिं यावत् समाहितं गच्छन्तीम् । अम्मो भर्ता । १. 'इ' ख पाठः. २. 'दग' ख. पाठः. ३. 'आ सारसव(ती?त्ती) जाव समाहिदाग- च्छदि' ख पाठः. ४. 'णिञ्जसारसपन्ती जाव समाहिदा गच्छदि' ख. पाठः.