स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 152, कुल 204 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः । ४५ चेटी — (क) सुट्ठु अय्या भणादि । उवसप्पदु दाव भट्टि- दारिआ । पद्मावती — (ख) किंणुखु पविशामि । वासवदत्ता — (ग) हळा ! पविसे । (इत्युक्त्वा निष्क्रान्ता) (प्रविश्य) विदूषकः — (नलिनीपत्रेण जलं गृहीत्वा) (घ) ऎसा तत्तहोदी पदुमावदी । पद्मावती — (ङ) अय्य वसन्तअ! किं एदं । विदूषकः — (च) एदं इदं । इदं एदं । पद्मावती — (छ) भणादु भणादु अय्यो भणादु । विदूषकः — (ज) भोदि ! वादणीदेण कासकुसुमरेणुणा अक्खिनिपडिदेणं सस्सुपादं खु तत्तहोदो मुहं । ता गण्हदु होदी इदं मुहोदअं । (क) सुष्ठ्वार्या भणति । उपसर्पतु तावद् भर्तृदारिका । (ख) किन्नुखलु प्रविशामि । (ग) हला ! प्रविश । (घ) एषा तत्रभवती पद्मावती । (ङ) आर्य वसन्तक ! किमेतत् । (च) एतदिदम् । इदमेतत् । (छ) भणतु भणत्वार्यो भणतु । (ज) भवति ! वातनीतेन काशकुसुमरेणुनाक्षिनिपतितेन साश्रुपातं खलु तत्रभव- तो मुखम् । तद् गृह्णातु भवतीदं मुखोदकम् । १. ‘किं प’ ख. पाठः. २. ‘स । (नि’ ख. पाठः. ३. ‘ञ्ज’ ख. पाठः. ४. ‘ऐत’ क. पाठः. ५. ‘कः–भोदि! ए’ ख. पाठः. ६. ‘ण अस्सुपादकिलिण्णं खु’ ख. पाठः. ७. ‘भो’ ख. पाठः.