स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 153, कुल 204 में से
संदर्भ में पढ़ें४६ स्वप्नवासवदत्ते पद्मावती — (क) अहो सदक्खिण्णस्स जणस्स परिजेणो वि सदक्खिण्णो एव्व होदि । (उपेत्य) जेदु अय्यउत्तो । इदं मुहोदअं । राजा — अये पद्मावती । (अपवार्य) वसन्तक ! किमिदम् । विदूषकः —(कर्णे) (ख) एव्वं विअ । राजा — साधु वसन्तक ! साधु । (आचम्य) पद्मावति ! आस्यताम् । पद्मावती — (ग) जं अय्यउत्तो आणवेदि । (उपविशति) राजा — पद्मावति ! शैरच्छशाङ्कगौरेण वाताविद्धेन भामिनि ! । काशपुष्पप्लवेनेदं साश्रुपातं मुखं मम ॥ ७ ॥ (आत्मगतम् ) इयं बाला नवोद्वाहा सत्यं श्रुत्वा व्यथां व्रजेत् । कामं धीरस्वभावेयं स्त्रीस्वभावस्तु कातरः ॥ ८ ॥ विदूषकः — (घ) इदं* तत्तहोदो मअधराअस्स अवरह्णकाळे
(क) अहो सदाक्षिण्यस्य जनस्य परिजनोऽपि सदाक्षिण्य एव भवति । जयत्वा- र्यपुत्रः । इदं मुखोदकम् । (ख) एवमिव । (ग) यदार्यपुत्र आज्ञापयति । (घ) इदं तत्रभवतो मगधराजस्यापराह्नकाले भवन्तमग्रतः कृत्वा सुहृज्जनद-
१. ‘अ’ ख. पाठः. २. ‘दि । विदूषकः- जेदु भवं । पद्मावती - जेदु अय्यउत्तो । रा’. ख. पाठः. ३. ‘रा(ज)च्छ’ख. पाठः. ४. ‘मधी’ क. पाठः. * इदं सन्निकृष्टमित्यर्थः.