भारतकोश
स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

Svapnavasavadattam of Bhasa with Hindi Commentary

महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished204 पृष्ठ

पृष्ठ 158, कुल 204 में से

संदर्भ में पढ़ें
पृष्ठ 158

पञ्चमोऽङ्कः । ५१ लावाणके हुतवहेन हृताङ्गयष्टिं तां पद्मिनीं हिमहतामिव चिन्तयामि ॥ १ ॥ (प्रविश्य) विदूषकः — (क) तुवरदु तुवरदु दाव भवं । *राजा — किमर्थम् । विदूषकः — (ख) तत्तहोदी पदुमावदी §सीसवेदणाए दुक्खाविदा । राजा— कैवमाह । विदूषकः — (ग) पदुमिणिआए कहिदं । राजा — भोः ! कष्टं, रूपश्रिया समुदितां गुणतश्च युक्तां लब्ध्वा प्रियां मम तु मन्द इवाद्य शोकः । ‡पूर्वाभिघातसरुजोऽप्यनुभूतदुःखः पद्मावतीमपि तथैव समर्थयामि ॥ २ ॥ अथ कस्मिन् प्रदेशे वर्तते पद्मावती । विदूषकः — (घ) समुद्दगिहके किळ सय्यात्तिण्णा । (क) त्वरतां त्वरतां तावद् भवान् । (ख) तत्रभवती पद्मावती शीर्षवेदनया दुःखिता । (ग) पद्मिनिकया कथितम् । (घ) समुद्रगृहके किल शय्यास्तीर्णा । १. 'ग्गि' ख. पाठः.

  • 'राजा' इत्यादि 'दु' इत्यन्तं क. पुस्तके त्रुटितम् । § 'सीदनदणाए' (?) इति ख. पुस्तके दृश्यते । ‡ पूर्वाभिघातसरुजोऽपि अनुवर्तमानपूर्वाभिघातपीडस्यापीत्यर्थः ।
स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद) · पृष्ठ 158, कुल 204 में से · BharatKosha