स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 160, कुल 204 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः । ५३ काओअरो । (प्रविश्यावलोक्य) तत्तहोदी पदुमावदी इह आअ- च्छिअ णिग्गदा भवे । राजा - वयस्य ! अनागतया भवितव्यम् । विदूषकः - (क) कहं भवं जाणादि । राजा - किमत्र ज्ञेयम् । पश्य, शय्या नावनता तथास्तृतसमा न व्याकुलप्रच्छदा न क्लिष्टं हि *शिरोपधानममलं शीर्षाभिघातौषधैः । रोगे दृष्टिविलोभनं जनयितुं शोभा न काचित् कृता प्राणी प्राप्य रुजां पुनर्न शयनं शीघ्रं स्वयं मुञ्चति ॥ ४ ॥ विदूषकः - (ख) तेण हि इमस्सिं सय्याए मुहुत्तअं उब्बे- विसिअ तत्तहोदिं पडिवाळेदु भवं । राजा - बाढम् । (उपविश्य) वयस्य ! निद्रा मां बाधते । कथ्यतां काचित् कथा । विदूषकः - (ग) अहं कहइस्सं । होन्तिं करेदुँ अत्तभवं । राजा - बाढम् । (क) कथं भवान् जानाति । (ख) तेन ह्यस्यां शय्यायां मुहूर्तकमुपविश्य तत्रभवतीं प्रतिपालयतु भवान् । (ग) अहं कथयिष्यामि । हुङ्कृतिं करोत्वत्रभवान् । १. 'जं' ख. पाठः. २. 'वनिवि' ख. पाठः. ३. 'दु दाव भ' ख. पाठः. ४. 'छन्दतः' ख. पाठः.
- शिरस्य शीर्षस्य उपधानं शिरोपधानं । "शिरोवाची शिरोऽदन्तो रजोवाची रजस्तथा । विचकर्त शिरान् द्रौणिः, इति कण्ठभूषणालङ्कार उक्तम् " इत्यमरटीकासर्वस्वम् ।