स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 161, कुल 204 में से
संदर्भ में पढ़ें९४ स्वप्नवासवदत्ते विदूषकः— (क) अत्थि णअरी उज्जइणी णाम । तहिँ^१ अहिअरमणीआणि^२ उदअण्णाणाणि वत्तन्ति किळ । राजा — कथमुज्जयिनी नाम । विदूषकः — (ख) जइ अणभिप्पेदा एसा कहा, अण्णं कहइस्सं । राजा — वयस्य ! न खलु नाभिप्रेतैषा कथा, स्मराम्यवन्त्याधिपतेः सुतायाः प्रस्थानकाले स्वजनं स्मरन्त्याः । बाष्पं प्रवृत्तैं^३ नयनान्तलभं स्नेहान्ममैवोरसि पातयन्त्याः ॥ ५ ॥ अपिच, बहुशोऽप्युपदेशेषु यया मामीक्षमाणया । हस्तेन स्रस्तकोणेन कृतमाकाशवादितम् ॥ ६ ॥ विदूषकः — (ग) अण्णं कहइस्सं । अत्थि णअरं बह्मदत्तं णाम । तहिं किळ राआ कंपिळ्ळो^४ णाम । राजा — किमिति किमिति । विदूषकः — (पुनस्तदेव पठति) (क) अस्ति नगर्युज्जयिनी नाम । तत्राधिकरमणीयान्युदयज्ञानानि वर्तन्ते किल । (ख) यद्यनाभिप्रेतैषा कथा, अन्यां कथयिष्यामि । (ग) अन्यां कथयिष्यामि । अस्ति नगरं ब्रह्मदत्तं नाम । तत्र किल राजा काम्पि- ल्यो नाम । १. ‘हिं किल अ’ क. पाठः, २. ‘णिज्जाणि’ ख. पाठः, ३. ‘त्तं’ ख. पाठः, ४, ‘वि’ क. पाठः.