स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 162, कुल 204 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः । ५५ राजा — मूर्ख! राजा ब्रह्मदत्तः, नगरं काम्पिल्यमित्य- भिधीयताम् । विदूषकः — (क) किं राआ बह्मदत्तो, णअरं कंपिळ्ळं । राजा — एवमेतत् । विदूषकः — (ख) तेण हि मुहुत्तअं पडिवाळेदु भवं, जाव ओट्ठगअं करिस्सं । राआ बह्मदत्तो, णअरं कंपिळ्ळं । (इति बहुशस्तदेव पठित्वा) इदाणिं सुणादु भवं । अयि सुत्तो अत्त- भवं । अदिसिदळा इअं वेळा । अत्तणो पावरअं गह्निअ आअमिस्सं । (निष्क्रान्तः) (ततः प्रविशति वासवदत्ता आवन्तिकावेषेण, चेटी च) चेटी — (ग) एदु एदु अय्या । दिढं खु भट्टिदारिआ सीसवेदणाए दुक्खाविदा । वासवदत्ता — (घ) कहिं सअणीअं रइदं पदुमावदीए । चेटी — (ङ) समुद्दगिहके किळ सय्यँत्तिण्णा । (क) किं राजा ब्रह्मदत्तः, नगरं काम्पिल्यम् । (ख) तेन हि मुहूर्तकं प्रतिपालयतु भवान्, यावदोष्ठगतं करिष्यामि । राजा ब्रह्म- दत्तः, नगरं काम्पिल्यम्। इदानीं शृणोतु भवान् । अयि सुप्तोऽत्रभवान् । अतिशीत- लेयं वेला । आत्मनः प्रावरकं गृहीत्वागमिष्यामि । (ग) एत्वेत्वार्या । दृढं खलु भर्तृदारिका शीर्षवेदनया दुःखिता । (घ) कुत्र शयनीयं रचितं पद्मावत्याः । (ङ) समुद्रगृहके किल शय्यास्तीर्णा । १. ‘व ण जा’ क. पाठः. २. ‘शः पठति)’ क. पाठः. ३. ‘वं । हं अ’ ख. पाठः. ४. ‘त्ता चे’ ख. पाठः ५. ‘आ पदुमावदी सी’ ख. पाठः. ६. ‘ता हृद्दि क’ ख. पाठः, ७. ‘य्या ग्गि’ झ. पाठः.