स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 164, कुल 204 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः । ५७ राजा — (स्वप्नायते) हा वासवदत्ते ! वासवदत्ता — (सहसोत्थाय) (क) हं अय्यउत्तो, ण हुं^१ पदुमा- वदी । किण्णुखु दिट्ठम्हि । महन्तो खु अय्यजोअन्धराअणस्स पडिण्णाहारो मम दंसणेण णिफ्फळो संवृत्तो । राजा — हा अवन्तिराजपुत्रि ! वासवदत्ता^२ — (ख) दिट्ठिआ सिविणाअदि खु अय्यउत्तो । णै^३ एत्थ को^४ (न्धि?वि) जणो । जाव मुहुत्तअं चिट्ठिअ दिट्ठिं हिअअं चें^५ तोसेमि । राजा — हा प्रिये ! हा प्रियशिष्ये ! देहि मे प्रतिवचनम् । वासवदत्ता^६ — (ग) आळवामि भट्ठा ! आळवामि । राजा — किं कुपितासि । वासवदत्ता — (घ) णहि णहि, दुखिदम्हि । राजा — यद्यकुपिता^७, किमर्थं नालङ्कृता^८ । वासवदत्ता — (ङ) इदो वरं किं । (क) हम् आर्यपुत्रः, न खलु पद्मावती । किन्नुखलु दृष्टास्मि । महान् खल्वा- र्ययौगन्धरायणस्य प्रतिज्ञाभारो मम दर्शनेन निष्फलः संवृत्तः । (ख) दिष्ट्या स्वप्नायते खल्वार्यपुत्रः । नात्र कोऽपि जनः । यावन्मुहूर्तकं स्थित्वा दृष्टिं हृदयं च तोषयामि । (ग) आलपामि भर्तः ! आलपामि । (घ) नहि नहि, दुःखितास्मि । (ङ) इतः परं किम् । १. 'खु' ख. पाठः. २. 'आवन्तिका—' क. पाठः. ३. 'ण खु ए' ख. पाठः. ४. 'को अ' क. पाठः. ५. 'अ' ख. पाठः. ६. 'आवन्तिका—' क. पाठः. ७. 'अद्यापि कु' ख. पाठः. ८. 'तासि ।' ख. पाठः.