स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 165, कुल 204 में से
संदर्भ में पढ़ें५८ स्वप्नवासवदत्ते राजा — किं विरहिकां¹ स्मरसि । वासवदत्ता — (सरोषम्) (क) आ अवेहि, इहावि विरहिआ। राजा — तेन हि विर(चि?हि)²कार्थं भवतीं प्रसादयामि । (हस्तौ प्रसारयति) वासवदत्ता — (ख) चिरं ठिदह्नि । को वि मं पेक्खे । ता गमिस्सं । अहव, सैय्यावळम्बिअं अय्यउत्तस्स हत्थं सअ- णीए आरोविअ गमिस्सं । (तथा कृत्वा निष्क्रान्ता) राजा — (सहोत्थाय) वासवदत्ते ! तिष्ठ तिष्ठ । हा धिक् । निष्क्रामन् सम्भ्रमेणाहं⁵ द्वारपक्षेण ताडितः । ततो व्यक्तं न जानामि भूतार्थोऽयं मनोरथः ॥ ७ ॥ (प्रविश्य) विदूषकः — (ग) अइ पडिबुद्धो अत्तभवं । राजा — वयस्य ! प्रियमावेदये, *धरते खलु वासवदत्ता । विदूषकः — (घ) अविहा वासवदत्ता । कहिं वासवदत्ता । चिरा खु उबरदा वासवदत्ता । (क) आ अपेहि, इहापि विरहिता । (ख) चिरं स्थितास्मि । कोऽपि मां पश्येत् । तद् गमिष्यामि । अथवा, शय्याव- लम्बितामार्यपुत्रस्य हस्तं शयनीय आरोप्य गमिष्यामि । (ग) अयि प्रतिबुद्धोऽत्रभवान् । (घ) अविहा वासवदत्ता । कुत्र वासवदत्ता । चिरात् खल्वपरता वासवदत्ता । १. 'चिता स्म' क. पाठः. २ 'त्ता अ' ख. पाठः. ३. 'तां भ' क. पाठः. ४. 'पय्याविळम्बिदं अ' ख. पाठः. ५. 'पज्वार' क. पाठः. ६. 'ति' क. पाठः. ७. 'भा' क. पाठः. ८. 'ते वा' क. पाठः. ९. 'आ वासवदत्ता । राजा' ख. पाठः.
- ध्रियत इत्यर्थः ।