भारतकोश
स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

Svapnavasavadattam of Bhasa with Hindi Commentary

महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished204 पृष्ठ

पृष्ठ 167, कुल 204 में से

संदर्भ में पढ़ें
पृष्ठ 167

१० स्वप्नवासवदत्ते योऽयं सन्त्रस्तया देव्या तया बाहुर्निपीडितः । स्वप्नेऽप्युत्पन्नसंस्पर्शो रोमहर्षं न मुञ्चति¹ ॥ ११ ॥ विदूषकः — (क) मा दाणि भवं अणत्थं चिन्तिअ । एदु एदु भवं । चउस्साळं पविसामो । (प्रविश्य) काञ्चुकीयः — जयत्वार्यपुत्रः । अस्माकं महाराजो दर्शको भवन्तमाह — एष खलु भवतोऽमात्यो रुमण्वान् महता बलस- मुदयेनोपयात: खल्वारुणिमभिघातयितुम्³ । तथा हस्त्यश्वरथपदा- तीनि मामकानि विजयाङ्गानि सन्नद्धानि । तदुत्तिष्ठतु भवान्⁴ । अपिच, भिन्नास्ते रिपवो भवद्गुणरताः पौराः समाश्वासिताः पार्ष्णी चापि* भवेत्⁵प्रयाणसमये तस्या विधानं कृतम् । यद्यत् साध्यमरिप्रमाथजननं तत्तन्मयानुष्ठितं तीर्णा चापि बलैर्नदी त्रिपथगा वत्साश्च हस्ते तव ॥ १२ ॥ राजा⁶ — बाढम् । अयमिदानीम्, (क) मेदानीं भवाननर्थं चिन्तयित्वा । एत्वेतु भवान् । चतुःशालं प्रविशावः । १. 'ति । प्रवि' ख. पाठः. २. 'रि' क. पाठः. ३. 'म् । ह' क. पाठः. ४. 'न् । भि' ख. पाठः. ५. 'वान् प्र' ख. पाठः. ६. 'जा-अ' ख. पाठः.

  • 'चापि' इत्यस्य स्थाने 'यापि' इत्येव पाठः स्यात् । उत्थास्यतः पार्ष्णिशुद्धिरपेक्षितानेन वा- क्येन प्रतिपाद्यते । स्त्रीलिङ्गेऽपि पार्ष्णिशब्दोऽस्ति । ततः 'कृदिकारादक्तिन' इति ङीषि पार्ष्णी- शब्दोऽपि भवति । 'पार्ष्णीर्यापि' इत्येव वा पाठो भवेत् ।