स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 169, कुल 204 में से
संदर्भ में पढ़ेंअथ षष्ठोऽङ्कः । (ततः प्रविशति काञ्चुकीयः) काञ्चुकीयः — क इह भोः ! रै¹त्नतोरणद्वारमशून्यं कुरुते । (प्रविश्य) प्रतीहारी — (क) अय्य ! अहं विजआ । किं करीअदु । काञ्चुकीयैः — भवति ! निवेद्यतां निवेद्यतां वत्सराज्यलौ³- भप्रवृद्धोदयायोदयनाय — एष खलु महासेनस्य सकाशाद् रैभ्यसगोत्रः काञ्चुकीयः प्राप्तः, तत्रभवत्या चाङ्गारवत्या प्रेषितार्य्या वसुन्धरा नाम वासवदत्ताधात्री च प्रतीहारमुपस्थिता इति । प्रतीहारी — (ख) अय्य ! अदेसकालो पडिहारस्स । काञ्चुकीयः — कथमदेशकालो नाम । प्रतीहारी — (ग) सुणादु अय्यो । अज्ज भट्टिणो (सु?स)- य्याँमहाप्पासादगदेण केण वि वीणा वादिदा । तं च सुणिअ भट्टिणा भणिअं — घोसवदीए सद्दो विअ सुणीअदि त्ति । काञ्चुकीयः — ततस्ततः । (क) आर्य ! अहं विजया । किं क्रियताम् । (ख) आर्य ! अदेशकालः प्रतिहारस्य । (ग) शृणोत्वार्यः । अद्य भर्तुः शय्यामहाप्रासादगतेन केनापि वीणा वादिता । तां च श्रुत्वा भर्त्रा भणितं घोषवत्याः शब्द इव श्रूयते इति । १. ‘काञ्चनतो’ ख. पाठः. २. ‘यः - विजय ! नि’ ख. पाठः. ३. ‘लो’ ख. पाठः. ४. ‘यै’ ख. पाठः. ५. ‘वि’ ख. पाठः. ६. ‘णा’ क. पाठः ७. ‘आमुण्णपा’ ख. पाठः. ८. ‘अ भणि’ ख. पाठः.