भारतकोश
स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

Svapnavasavadattam of Bhasa with Hindi Commentary

महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished204 पृष्ठ

पृष्ठ 170, कुल 204 में से

संदर्भ में पढ़ें
पृष्ठ 170

षष्ठोऽङ्कः । ६३ प्रतीहारी — (क) तदो तहिं गच्छिअ पुच्छिदो — कुदो इमाए वीणाए आगमो त्ति । तेण भणिअं — अम्हेहिं णम्मदा- तीरे कोय्यगुम्मळग्गा दिट्ठत्ति । जइ प्पओअणं इमाए, उव- णीअदु भट्टिणेत्ति । तं च उवणी²दं अङ्के करिअ मोहं गदो भट्‍टा । तदो मोहप्पच्चागदेण *बप्पपय्याउ(ळेण मुच्छहण?) भट्टिणा भणिअं — दिट्ठासि घोसवदि ! सा हु ण दिस्सदि त्ति । अय्य ! ईदिसो अणवसरो । कहं णिवेदे³मि । काञ्चुकीयः — भवति ! निवेद्यताम् । इदमपि तदाश्रय- मेव । प्रतीहारी — (ख) अय्य ! इअं णिवेदेमि ४ । एसो भट्‍टा (सु?स) य्यामहप्पासादादो ओदरइ । ता इह एव्व णिवेदइस्सं । काञ्चुकीयः — भवति ! तथा । (उभौ निष्क्रान्तौ) विष्कम्भः । (क) ततस्तत्र गत्वा पृष्टः — कुतोऽस्या वीणाया आगम इति । तेन भणितम्— अस्माभिर्नर्मदातीरे (कोय्य?)गुल्मलग्ना दृष्टेति । यदि प्रयोजनमनया, उपनीयतां भर्त्रेति । तां चोपनीतामङ्के कृत्वा मोहं गतो भर्ता । ततो मोहप्रत्यागतेन बाष्पपर्याकुलोच्छूनमु- खेन भर्त्रा भणितं — दृष्टासि घोषवति ! सा खलु न दृश्यत इति । आर्य ! ईदृशो- ऽनवसरः । कथं निवेदयामि । (ख) आर्य ! इयं निवेदयामि । एष भर्ता शय्यामहाप्रासादादवतरति । तदिहैव निवेदयिष्यामि । १. 'णो' ख. पाठः. २. 'रणिदं' क. पाठः. ३. 'दि' ख. पाठः. ४. मि । (निष्क्रा- न्ता) मिश्रवि' ख. पाठः.

  • 'ळेणमुच्छुहण' इत्यस्य स्थाने 'लोच्छुणमुहेण' इति पठनीयं भाति । बाष्पपर्याकुलोच्छू- नमुखेन' इति च संस्कृतं समग्रपदस्य बोद्धव्यम् ।
स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद) · पृष्ठ 170, कुल 204 में से · BharatKosha