स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 171, कुल 204 में से
संदर्भ में पढ़ें६४ स्वप्नवासवदत्ते (ततः प्रविशति राजा विदूषकश्च) राजा -- श्रुतिसुखनिनादे¹! कथं नु देव्याः स्तनयुगले जघनस्थले च सुप्ता। विहगगणरजोविकीर्णदण्डा प्रतिभयमध्युषितास्यरण्यवासम् ॥ १ ॥ अपिच, अस्निग्धासि घोषवति! या तपस्विन्या न स्मरसि, श्रोणीसमुद्वहनपार्श्वनिपीडितानि स्वेद²स्तनान्तरसुखान्यपगूहितानि । उद्दिश्य मां च विरहे परिदेवितानि वाद्यान्तरेषु कथितानि च सस्मितानि ॥ २ ॥ विदूषकः — (क) अलं दाणि भवं अदिमत्तं³ सन्तप्पिअ । राजा — वयस्य! मा मैवं; चिरप्रसुप्तः कामो मे वीणया प्रतिबोधितः । तां तु देवीं न पश्यामि यस्या घोषवती प्रिया ॥ ३ ॥ वसन्तक! शिल्पिजनसकाशाद्भवयोगां घोषवतीं कृत्वा शीघ्र- मानय । विदूषकः — (ख) जं भवं आणवेदि⁴। (वीणां गृहीत्वा निष्क्रान्तः) (क) अलमिदानीं भवानतिमात्रं सन्तप्य । (ख) यद् भवानाज्ञापयति । १. 'रखमथुरो' (?) ख. पाठः. २. 'खे' क. पाठः. ३. 'वं। रा' ख. पाठः. ४. 'दि। नि' ख. पाठः.