भारतकोश
स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

Svapnavasavadattam of Bhasa with Hindi Commentary

महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished204 पृष्ठ

पृष्ठ 172, कुल 204 में से

संदर्भ में पढ़ें
पृष्ठ 172

षष्ठोऽङ्कः । ६५ (प्रविश्य) प्रतीहारी — (क) जेदु भट्टा । एसो खु महासेणस्स सआ- सादो रब्भसगोत्तो कञ्चुईओ देवीएँ अङ्गारवदीए पेसिदा अय्या वसुन्धरा णाम वासवदत्ताधत्ती अ पडिहारं उवद्विदा । राजा — तेन हि पद्मावती तावदाहूयताम् । प्रतीहारी — (ख) जं भट्टा आणवेदि । (निष्क्रान्ता) राजा — किन्न्वखलु शीघ्रमिदानीमयं वृत्तान्तो महासेनेन विदितः । (ततः प्रविशति पद्मावती सपरिवारा) प्रतीहारी — (ग) एदु एदु भट्टिदारिआ । पद्मावती — (घ) जेदु अय्यउत्तो । राजा — पद्मावति ! किं श्रुतं महासेनस्य सकाशाद् रैभ्य- सगोत्रः काञ्चुकीयः प्राप्तस्तत्रभवत्या चाङ्गारवत्या प्रेषितार्या वसुन्धरा नाम वासवदत्ताधात्री च प्रतिहारमुपस्थिताविति । पद्मावती — (ङ) अय्यउत्त ! पिअं मे णाँदिकुळस्स कुसळ- वृत्तन्तं सोदुं । (क) जयतु भर्ता । एष खलु महासेनस्य सकाशाद् रैभ्यसगोत्रः काञ्चुकीयो देव्याङ्गारवत्या प्रेषितार्या वसुन्धरा नाम वासवदत्ताधात्री च प्रतिहारमुपस्थितौ । (ख) यद् भर्ताज्ञापयति । (ग) एत्वेतु भर्तृदारिका । (घ) जयत्वार्यपुत्रः । (ङ) आर्यपुत्र ! प्रियं मे ज्ञातिकुलस्य कुशलवृत्तान्तं श्रोतुम् । १. 'ई दे' क. पाठः. २. 'ए पे' ख. पाठः. ३. 'ज्ञा' क. पाठः.