स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 173, कुल 204 में से
संदर्भ में पढ़ें६६ स्वप्नवासवदत्ते राजा — अनुरूपमेतद् भवत्याभिहितं — वासवदत्ता- स्वजनो मे स्वजन इति । पद्मावति ! आस्यताम् । किमिदानीं नास्यते । पद्मावती — (क) अय्यउ(त्त?त्तो) किं मए सह उवविट्ठो एदं जणं पेक्खिस्सदि । राजा — कोऽत्र दोषः । पद्मावती — (ख) अय्यउत्तस्स अवरो परिग्गहो त्ति उदा- सीणं विअ होदि । राजा — कलत्रदर्शनाहं जनं कलत्रदर्शनात् परिहरतीति बहुदोषमुत्पादयति । तस्मादास्यताम् । पद्मावती — (ग) जं अय्यउत्तो आणवेदि । (उपविश्ये) अय्यउत्त ! तादो वा अम्बा वा किंणुखु भणिस्सदि त्ति आवि- ग्गा विअ संवृत्ता । राजा — एवमेतत् । किं वक्ष्यतीति हृदयं परिशङ्कितं मे कन्या मयाप्यपहृता न च रक्षिता सा । (क) आर्यपुत्रः किं मया सहोपविष्ट एतं जनं प्रेक्षिष्यते । (ख) आर्यपुत्रस्यापरः परिग्रह इति उदासीनमिव भवति । (ग) यदार्यपुत्र आज्ञापयति । आर्यपुत्र ! तातो वाम्बा वा किन्नुखलु भणिष्यती- त्याविग्ने १ संवृत्ता । १. 'काञ्चुकीयः—अ' क. पाठः. २. 'शति)' क. पाठः.