स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 174, कुल 204 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः। ६७ भाग्यैश्चलैर्महँ*दवाप्तगुणोपघातः पुत्रः पितुर्जनितरोष इवास्मि भीतः ॥ ४ ॥ (ततः प्रविशति काञ्चुकीयः धात्री प्रतीहारी च) काञ्चुकीयः — भोः! सम्बन्धिराज्यमिदमेत्य महान् प्रहर्षः स्मृत्वा पुनर्नृपसुतानिधनं विषादः । किं नाम दैव ! भवता न कृतं यदि स्याद् राज्यं परैरपहृतं कुशलं च देव्याः ॥ ५ ॥ प्रतीहारी — (क) एसो भट्टा, उवसप्पदु अय्यो । काञ्चुकीयैः — (उपेत्य) जयत्वार्यपुत्रः । धात्री — (ख) जेदु भट्टा । राजा — (सबहुमानम्) आर्य ! पृथिव्यां राजवंश्यानामुदयास्तमयप्रभुः । अपि राजा स कुशली मया काङ्क्षितबान्धवः ॥ ६ ॥ (क) एष भर्ता, उपसर्पत्वार्यः । (ख) जयतु भर्ता । १. 'तः ॥ पद्मावती—अय्यउत्त ! कीस किक्खिदु पत्तकाळे । प्रताहारी — असौ कञ्चुकीओ धत्ती अ पडिहारं उवविट्ठा। राजा—शीघ्रं प्रवेश्यताम्। प्रतीहारी—जं भट्टा आणवेदि (निष्क्रान्ता) (त' ख. पाठः. २. 'यः—ज' ख. पाठः.
- महदिति भयक्रियाविशेषणम् ।