स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 175, कुल 204 में से
संदर्भ में पढ़ें१८ स्वप्नवासवदत्ते काञ्चुकीयः— अथकिम् । कुशली महासेनः । इहापि सर्वगतं कुशलं पृच्छति । राजा— (उत्थाय) किमाज्ञापयति महासेनः । काञ्चुकीयः— सदृशमेतद् वैदेहीपुत्रस्य । नन्वासनस्थे- नैव भवता श्रोतव्यो महासेनस्य सन्देशः । राजा— यदाज्ञापयति महासेनः । (उपविशति) काञ्चुकीयः— दिष्ट्या परैरपहृतं राज्यं पुनः प्रत्यानीत- मिति । कुतः, कातरा येऽप्यशक्ता वा नोत्साहस्तेषु जायते । प्रायेण हि नरेन्द्रश्रीः सोत्साहैरेव भुज्यते ॥ ७ ॥ राजा— सर्वमेतन्महासेनस्य प्रभावैः । अहमवजितः पूर्वं तावत् सुतैः सह लालितो दृढमपहृता कन्या भूयो मया न च रक्षिता । निधनमपि च श्रुत्वा तस्यास्तथैव मयि स्वता ननु यदुचितान् वत्सान् प्राप्तुं नृपोऽत्र हि कारणम् ॥ काञ्चुकीयः— एष महासेनस्य सन्देशैः । देव्याः सन्दे- शमिहात्रभवती कथयिष्यति । राजा— हा अम्ब ! षोडशान्तःपुरज्येष्ठा पुण्या नगरदेवता । मम प्रवासदुःखार्ता माता कुशलिनी ननु ॥ ९ ॥ १. 'जा- (आसनादुत्था' ख. पाठः. २. 'वः । कुतः, अ' ख. पाठः. ३. 'शः । तत्रभवत्याः स' ख. पाठः.