स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 176, कुल 204 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः । ३९ धात्री — (क) अरोआ भट्टिणी भट्टारं सव्वगदं कुसळं पुच्छदि । राजा — सर्वगतं कुशलमिति । अम्ब! ईदृशं कुशलम् । धात्री — (ख) मा दाणिं भट्टा अदिमत्तं सन्तप्पिदुं । काञ्चुकीयः — धारयत्वार्यपुत्रः । उपरताप्यनुपरता महा- सेनपुत्री एवमनुकम्प्यमानार्यपुत्रेण । अथवा, कः कं शक्तो रक्षितुं मृत्युकाले रज्जुच्छेदे के घटं धारयन्ति । एवं लोकस्तुल्यधर्मा वनानां काले काले छिद्यते रुह्यते च ॥ १० ॥ राजा — आर्य ! मा मैवम् । महासेनस्य दुहिता शिष्या देवी च मे प्रिया । कथं सा न मया शक्या स्मर्तुं देहान्तरेष्वपि ॥ ११ ॥ धात्री — (ग) आह भट्टिणी — उवरदा वासवदत्ता । मम वा महासेणस्स वा जादिसो गोवाळअवालओ† तादिसो एव्व तुमं पुढमं एव्व अभिप्पेदो जामादुआत्ति । एदण्णिमित्तं उज्जइणिं (क) अरोगा भट्टिनी भर्तारं सर्वगतं कुशलं पृच्छति । (ख) मेदानीं भर्तातिमात्रं सन्तप्तुम् । (ग) आह भट्टिनी — उपरता वासवदत्ता । मम वा महासेनस्य वा यादृशो गोपालकपालकस्तादृश एव त्वं प्रथममेवाभिप्रेतो जामातेति । एतन्निमित्तमुज्जयिनीमा- १. 'प्पिअ । (ही ? ईरि ) सं दाणिं एदं' ख. पाठः. २. 'ना ह्यार्ये' ख. पाठः. ३. 'कु' ख. पाठः. † गोपालको वासवदत्ताभ्राता ।